पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६४ तम्भवार्तिके अभेदवर्सित्वं हि तत्पदसमानाधिकरण्यमसंदिग्ध वाचकषु कृदन्तेषु पक्ता देवदत्तः पवक ओदन इत्यादिषु दृष्टम् । यत्र च कर्तृ कर्मवचनत्वं नास्ति तत्र समान धिकरण्यमदृष्टं यथा पाकादिशब्दे । किं च । तच्छब्दापततसूतसंख्याभदानुवत्तनात् । तथैव वाचकत्वं स्यात् दृष्टान्तौ ताविहपि च । पचति देवदत्तः पचतो देवदत्तयज्ञदत्त पचन्ति दे वदयज्ञदत्तविष्णुमित्रदय इति । यैव कर्ता वाचिनि देषदत्तदिशब्दे संख्या सैवाख्याते पि दृश्यते । यत्र चासौ दृश्यते स वाचको दृष्टो यथा पत। देवत्तः पक्ता- रावित्यादि । तथा कर्मण्यपि पच्यते ओदनः पच्यते ओदन शाक पक्ष ओदनः पक्वो शाकौदनवित्यादीनि पक्षदृष्टान्तोदाहरणानि वक्तव्यानीति । किं च । तयोरभिहितवेन विभक्तिप्रतिबन्धनात् । सधस्थं पूर्वमेवान्यद्देवदत्तेन पच्यते । अतश्च वाचको येनानभिहिताधिकारविहितकारक विभक्तिप्रतिबन्धो दृश्यते । पचति वदत्तः प्रच्यते यो दन इति । यदि हि वाचकत्वं न स्यात् ततो ऽनभि हिते कर्मणि द्वितीया कर्तृकरणयोस्तृतीयेति च वि भक्तिप्राप्तिर्न केन चित्प्रतिबध्येत । यथा पच्यते देवद. तेन पचत्योदनमिति । यतस्तु खलु प्रतिबन्धस्सेनावगम्य ते पक्तृपक्कसाधर्येणैव वा। चकचं साधयदम्यवैधर्ये तदेवं दर्शयितव्यम् । यत्र च वाचकत्वं नास्ति तत्र का- रकविभक्तिप्रतिबन्धो पि नास्ति यथा पच्यते देवदत्तेन पचत्योदनमिति । इतश्च गोधकः शब्दस्स वि शषा बबोधनम् ।