सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ११५

विकिस्रोतः तः
← सर्गः ११४ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)
सर्गः ११५
अज्ञातलेखकः
सर्गः ११६ →


पञ्चदशाधिकशततमः सर्गः ११५
पार्श्वगा ऊचुः ।
अत्रोत्तमाशथ लतावलयालयेषु
लीलाविलोलललनाः कलयन्ति गीतम् ।
उद्दामभावरसविस्मृतवासरेहा
विश्रम्य किंनरगणाः कलकाकलीकम् ।। १
एते हिमाद्रिमलयाचलविन्ध्यसह्य-
क्रौञ्चा महेन्द्रमधुमन्दरदर्दुराद्याः ।
दूरस्थिता दृशि सिताभ्रपटा वहन्ति
संशुष्कपर्णलवलाञ्छितलोष्टलीलाम् ।। २
अमी दूरालोकव्यवहितमहावर्त्मनिचयाः
पुरःप्राकाराणां कुलशिखरिणो बिभ्रति वपुः ।
विशन्तीरम्भोधिं कलय लुलिता भान्ति सरितः
पटस्यान्तः सक्ताः प्रतनुसितसूत्रा इव दशाः ।। ३
दशाशाः शैलानामुपरि परितः प्रावृतघना
घनश्यामाकाराः खगकलकलालापलपिताः ।
लतामुक्तैः पुष्पैर्ललितवनलेखाभुजलता
हसन्त्यस्ते राजन्भवनवनिता भान्ति पुरतः ।। ४
तालीतमालबकुलाकुलतुङ्गशृङ्ग-
मेकीकृताकृति वनं तरलं विभाति ।
अभ्याहतं जलनिधेस्तरलैस्तरङ्गै-
स्तीरान्तलग्नघनशैवलजालकल्पम् ।। ५
इतः स्वपिति केशवः कुलमितस्तदीयद्विषा-
मितोऽपि शरणार्थिनः शिखरिपत्रिणः शेरते ।
इतोऽपि वडवानलः सह समस्तसंवर्तकै-
रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ।। ६
एते जम्बुनदीतटा रविकरैराभान्ति हेमाखिल-
ग्रामारण्यपुरस्थलीगिरितरुस्थाण्वग्रहारोच्चयाः ।
ज्वालालीवलिताबरांतरलिहो मुञ्चन्ति भासोभित-
स्सर्वा भूमिप भूरिहैवममरासेव्यास्ति नो मानुषैः ।। ७
एते कदम्बवनकम्बलमम्बुदाभ-
माभान्ति भास्करपथानुगता वहन्तः ।
अस्याचलस्य वसुधेव तटं तवास्तु
मा सूर्यरोधकनभस्थघनौघशङ्का ।। ८
एषोऽसौ मलयो लयोग्रलवलीवल्लीलसच्चन्दन-
स्फीतामोदमदाद्रसेन तरवो वक्रे क्रियन्ते त्रिभिः ।
सज्वालोदहनाक्षसंस्थितकपोलोष्मोदयोत्ताण्डवे
अङ्गुष्ठाङ्गुलिभिर्यथोष्णककणास्तप्ता यथा योषिताम्
एषोऽब्धिधौतकलधौततटाधिरूढ-
भोगीन्द्रभोगपरिवेष्टितचन्दनोऽगः ।
विद्याधरीवदनपङ्कजदीप्तिपुञ्ज-
हेमीकृताखिलशिलो मलयाभिधानः ।। १०
कूजत्कुञ्जकठोरगह्वरनदीक्वत्कारवत्कीचक-
स्तम्भाडम्बरमूकमौकुलिकुलः क्रौञ्चाचलोयं गिरिः ।
एतस्मिन्प्रबलाकिनां प्रचलतामुद्वेजिताः कूजितै-
रुद्वेल्लन्ति पुराणरोहणतरुस्तम्भेषु कुम्भीनसाः ।।११
कोमलकनकलतालय-
विलसितललनाविलोलवलयकृतम् ।
श्रवणरसायनपानं
विततमिहाकर्णयास्य तटे ।। १२
करिकरटगलितमदजल-
वलितश्चलवीचिचञ्चरीकचयैः ।
चर्वित एष कदर्थित
इव कणनिकरो विरौति वारिनिधौ ।। १३
पश्यामलेन्दुरामृत-
नवनीतशरीरसुन्दरीवलितः ।
पितुरुत्सङ्गे कुरुते
जललीलां क्षीरवारिनिधौ ।। १४
नृत्यन्ति मत्तकलकोकिलकाकलीकाः
पश्यामले मलयसानुनि बालवल्ल्यः ।
लोलालिजालनयनारुणपत्रपाणि-
पुष्पा मधूत्सवविलासविशेषवत्यः ।। १५
वंशानां हृदि पर्वतेषु जलधौ तोयार्थिनीनां तु ये
शुक्तीनां हृदये विशन्ति समये वर्षांभसां बिन्दवः ।
ते मुक्ताफलतां व्रजन्ति करिणां कुम्भेषु वान्यद्भवेत्
शुद्धौ मौक्तिकवत्स्युरुत्तमगुणा एतास्त्रिधा जा-
तयः ।। १६
शैलेऽब्धौ पुरुषेऽवनौ जलधरे भेके शिलायां गजे
नानाकारधरा भवन्ति मणयः कर्माणि तेषां विभो ।
ह्लादोच्चाटनमारणज्वरभयभ्रान्तिप्रकाशान्धता-
खेदोत्तापनभूनभोगतिदृशो नाशो विधानं तथा।।१७
वातायनोदरगवाक्षकवाटकक्षा-
द्वाराननैरिह पुराण्युदिते पठन्ति ।
श्वभ्राभ्रकन्दरदरीवनवेणुरन्ध्र-
वर्गेण मन्दर इवामृतसिन्धुमिन्दुम् ।। १८
एतच्छृङ्गं हरति पवनः किंस्विदित्युन्मुखीभि-
र्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
प्रालेयाद्रेः प्रतितटवनं प्रोत्पतत्यभ्रमूर्ध्वं
वज्रस्तम्भो गगनसुतलोत्तोलनायेव भूमेः ।। १९
गङ्गातरङ्गहिमसीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि ।
पुष्पाभ्रसंवलितपुष्पितकाननानि
राजन्विलोकय महेन्द्रगिरेस्तटानि ।। २०
देशान्तरेषु विततानि वनान्तराणि
पुष्पस्थलान्युपवनान्यथ पत्तनानि ।
तीर्थेषु पूतभुवनानि जलानि दृष्ट्वा
दौर्भाग्यमीतिरपयाति जवानुविद्धा ।। २१
श्रृङ्गाणि पूरितदिगन्तरमण्डलानि
श्वभ्राभ्रकन्दरनिकुञ्जकुलाकुलानि ।
व्योमोपमान्यपि च वारिधिकुण्डलानि
दृष्ट्वा गलन्ति कुकृतानि बृहत्तराणि ।। २२
रम्याश्चन्दनवीथयो हि मलये विन्ध्ये मदान्धा गजाः
कैलासे नृप पादजाति कनकं चन्द्रं महेन्द्राचले ।
दिव्याश्चौषधयस्तुषारशिखरे सर्वत्र रत्नानि वै
सन्त्यन्धाखुवदेष जीर्णसदने व्यर्थं जनो जीर्यते ।। २३
सोन्नतं जगदिवोरुतटाकं
वारिणा विवलितं तिमिरेण ।
प्रस्फुरन्ति च युगान्त इवैता
विद्युतः शफरिका इव लोलाः ।। २४
सावश्यायाश्याननीहारधारा
धारोद्गारान्वारिदान्मादयन्तः ।
शीतानीतोद्दामरोमाञ्चचर्चाः
प्रोद्यच्छब्दं वान्त्यहो वर्षवाताः ।। २५
हा वाति नीलजलदप्रसरानुसारी
वातः किरन्विटपिपल्लवपुष्पगुच्छान् ।
धीरोत्करद्रुमवनान्तरचारचारु-
रासारसीकरकदम्बकसारसारः ।। २६
मारुताः सुरतक्रान्तकान्तानिःश्वसितैरिमे ।
वहन्ति वृद्धिं गन्धं च लवं स्वर्गादिव च्युताः ।। २७
कुवलयकुवलयविकचन-
कुसुमलताविदलनोद्यता मृदवः ।
घनपटपाटनपटवो
विधुतोपवना वहन्त्यमी पवनाः ।। २८
संध्याभ्रलेशानुपयन्ति वाता
नभस्तले कोमलकम्पनेन ।
नृपाङ्गणे पुष्पविचित्रलेखा-
नुवासिते भृत्यवरा इवैते ।। २९
क्वचित्कुसुमगन्धयः कमलवर्गगन्धाः क्वचि-
त्क्वचितकुसुमवर्षिणो ललितकेसरासारिणः ।
क्वचिच्च हिमपाण्डवो हरितपीतलश्यामला
वहन्ति शिखरानिलाः सुरतमन्दघर्मच्छिदः ।। ३०
क्वचिद्हुंकारकांकारैरङ्गारनिकरान्करैः ।
किंकरैर्विकिरत्यर्को मूर्खसंसर्गवानिव ।। ३१
नररसायनतृप्तिविमुक्तया
प्रमदया मदयापितलज्जया ।
उपगते वपुषा न विषह्यते
विषविमूर्च्छनयेव समायता ।। ३२
वलिततामरसा मृदुशीकराः
शशिकरोत्करवीचिविभेदिनः ।
सदहना इव तापमयाः पुरो
विरहिणीषु वनावनिवायवः ।। ३३
इह हि पूर्वपयोधितटावटे
विकटपत्रपटाः कटकीतटाः ।
नवमदासवयौवनसंश्रयाः
कलय यान्ति कथं शबरस्त्रियः ।। ३४
नवरसासवसारनिशागम-
क्षयभयातुरचित्ततयाङ्गना ।
त्यजति कान्तमियं न मनागपि
द्रुतमितो वलितेव पुरोऽहिभिः ।। ३५
प्रभाततूर्यमुखरैर्दिवसैरिव तर्जिता ।
ह्रद्येव स्फुटिता नारी निलीना दयितोरसि ।। ३६
प्रोत्फुल्लकिंशुकैषा
दक्षिणजलधेस्तटेऽत्र वनराजी ।
ज्वलितेव जलतरङ्गैः
पौनःपुन्येन सिच्यतेऽम्बुधिना ।। ३७
वास्या निर्यान्त्यनिलै-
र्धूमा इव कृष्णकेसराम्बुधराः ।
अङ्गारा इव कुसुमा-
न्युपशान्ताङ्गारवच्च खगभृङ्गाः ।। ३८
ईदृश्येव विलोकय
वनराजी सत्यवह्निना ज्वलिता ।
गिरिशिरसि तूत्तरस्यां
दिशि दूरे धूयते च खे पवनैः ।। ३९
क्रौञ्चाचलस्य भुवि मन्थरमेघचक्र-
गम्भीरताररवनर्तितबर्हिणीयम् ।
पश्योत्थितं तुमुलमाकुलवर्षवात-
व्याधूतपुष्पफलपल्लवकाननीयम् ।। ४०
अस्ताचले विकटकाञ्चनकूटकोटि-
संघट्टनस्फुटितजर्जरचारुसंधिः ।
खर्वं रथः पतति स स्म रवेः सचक्र-
चीत्कारतारतरकूबररास एषः ।। ४१
भुवनभवनप्राकारेऽद्रौ निशाकरमेरुकं
परिविकसितं मीतं भासा मलालिरुपाश्रितः ।
तदिह जगतां वस्तु श्रेष्ठं न किंचन विद्यते
विधिरुपहतः कुर्यान्नो यत्क्षणेन कलङ्कितम् ।। ४२
त्रिभुवनहराट्टहासो
भुवनमहाभवन एष मङ्कोलः ।
क्षीरसलिलावपूरो
गगनाब्धेश्चान्द्र आलोकः ।। ४३
स्पृष्टप्रदोषमयमन्दरमथ्यमान-
चन्द्रार्णवोल्लसितदुग्धतरङ्गभङ्गैः ।
पश्य प्रभापटलकैः परिपूरिताङ्गीः
पूरैरिवोग्रसरितः प्रसरद्भिराशाः ।। ४४
एते पतन्त्यतुल तालकराललोल-
वेतालवालवलिता निशि गुह्यकौघाः ।
हूणेश्वरस्य नगराणि निरस्तशान्ति
स्वस्तिश्रवादिविकलानि बलेन भोक्तुम्।। ४५
तावद्विभाति गगने परिपूर्णचन्द्रो
यावद्वधूवदनमेति न सद्म बाह्यम् ।
अभ्युद्गतेऽङ्गणनभस्यबलाननेन्दा-
विन्दोः सिताभ्रशकलस्य च को विशेषः ।। ४६
वृद्धानि चन्द्रांशुनवाम्बराणि
गङ्गौघनिर्धूतशिलान्यमूनि ।
हिमाततान्युग्रलताजटानि
तुषारशैलेश्वरमस्तकानि ।। ४७
स एष मन्दारवनावतंसो
दोलाप्सरोगेयविसारिवातः ।
क्वचिन्मणिद्योतविचित्रचित्रः
संदृश्यते व्योमनि मन्दराद्रिः ।। ४८
प्रोन्निद्रनीरन्ध्रशिलीन्ध्रसान्द्र-
पुष्पार्घ्यपात्रध्रमहामहीध्राः ।
सान्द्राभ्रनिर्हादगभीरकुक्षौ
सर्क्षान्तरिक्षश्रियमुद्वहन्ति ।। ४९
इतः स कैलासगिरिर्गरीयसा
प्रभाप्रवाहेण मितेन यस्य खम् ।
शंभोरिवाभाति सुतस्य कुट्टिमं
चन्द्रोऽपि च क्षीरसमुद्रगो यथा ।। ५०
स्थाणूनां छिन्नशाखानां मृन्मयानां च वासवः ।
संधत्ते पश्य दूराणां वातैर्मुक्तशिखा इव ।। ५१
एते कदम्बकुलकुन्दसुगन्धिवाता
लिम्पन्ति मांसलतया मकरन्दवृष्टेः ।
घ्राणं घनैः परिमलैरलिजालनीला
व्यालोड्य मेघपटलैः खमिवाभ्रकायाः ।।५३
उन्निद्रकुड्मलदलासु वनस्थलीषु
सच्छायशाद्वलघनेषु च जङ्गलेषु ।
ग्रामेषु संततफलद्रुमसंकुलेषु
लक्ष्मीः स्वयं निवसतीव निवासहेतोः ।। ५३
वातायनागतलतावृतसौधकोश-
कोशातकीकुसुमकेसरमाहरद्भिः ।
आगुल्फकीर्णमुकुलाजिर एष वातै-
ग्रामो विभाति नगरं वनदेवतानाम् ।। ५४
उन्निद्रामलचम्पकद्रुमलतादोलाविलोलाङ्गनाः
कूजन्निर्झरवारयः परिसरप्रोन्निद्रतालद्रुमाः उत्फुल्लोज्ज्वलमंजरीसितलतागेहोल्लसद्बर्हिणः
पर्यन्तोन्नतसाललम्बजलदा रम्या गिरिग्रामकाः
वातालोलविचित्रपत्रलतिकासंपूर्णनीलस्थलाः
कूजल्लावककोककुक्कुटघटागायत्पुलिन्दाङ्गनाः ।
बालाव्याकुलतर्णका दधिमधुक्षीराज्यपानोज्ज्वलाः
कस्येवामृतमण्डपा विरचिता रम्या गिरिग्रामकाः
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० वि० विपश्चिदनुकृतपदार्थवर्णनं नाम पञ्चदशाधिकशततमः सर्गः ।।११५।।