७२
शाब्दनिर्णय:
नापि तज्जन्यसंवेदनस्य । एवं ब्रह्मण्यपि शब्दज्ञाननिमित्तं संवेदनं ब्रह्मप्रकृति , ब्रह्माभिन्नसर्वचैतन्यानां ब्रह्मप्रकृतिकत्वाद् वा स्वयंप्रकाशस्यावरणध्वंसाद् वा अपरोक्ष आत्मनि प्रत्ययत्वाद् वा, अहंप्रत्ययवत् । तन्निमित्तं ज्ञानमपरोक्षज्ञानमित्युच्यते । सञ्जातेऽपि शब्दात् तथाविधे ज्ञाने असंभावनादिदोषादविद्यासंस्कारबलाद् वा परोक्षमिव भ्रमादवभासते । तच्चमनननिदिध्यासनादिभिर्विमलीकरणात् सूक्ष्मवस्त्वालोचनक्षमेण मनसा शरीरेन्द्रियव्यतिरिक्ते च त्वम्पदार्थे प्रत्यक्षतोऽवभासमाने ब्रह्मात्मज्ञानाकारेण परिणममानेन मनसा स्थिरीभावात् क्षणद्वयवर्तिनाग्निनेव क्षणमात्रेणादाहकेनापि क्षणद्वयवर्तिना दह्यते । ततश्च तत् सिद्धम् ॥ ७१ ॥
आतो निश्रेयसप्राप्तेस्तदर्थ्याच्छाब्दनेिर्णय: ।
विशिष्टफलसम्बन्धी श्रोतव्योऽयं बुभुत्सुना ॥ ७२॥
विदितसकलवेद्यैर्न प्रशंसन्ति लोके
ग्रथितमपि महद्भिः किं पुनर्मादृशेन ।
इति विफलसमेऽस्मिन् वाग्व्ययेऽहं (प्रवृ)त्तः
स्वमतिविमल(तोयैः?तायै) क्षन्तुमर्हन्ति सन्तः ॥
वन्दे तमात्मसम्बुद्धस्फुरद्ब्रह्मात्मभावतः।
अर्थतोऽपि न नाम्नैव योऽनन्यानुभवो गुरुः ।
प्रकाशात्मयतीन्द्रेण प्रणिपत्य जनार्दनम् ।
प्रतिबोधाय बालानां प्रणीतः शाब्दनिर्णयः॥
समाप्तोऽयं ग्रन्थः ।
शुभं भूयात् ।