६२
शाब्दनिर्णयः ।
भिन्नप्रकृत्यर्थसम्बन्धिकारकत्वांशभेदाद् न पौनरुक्त्यप्रसङ्गः, तथा यजतिज्योतिष्टोमशब्दाभिधेयसामान्यविशेषप्रकृत्यर्थस- म्बन्धिकारकत्वांशभेदात् सुप्तिङ्भ्यामेकैककारकत्वाभिधाने [१] न कश्चिद् दोषः । तिङा च करणताभिधानाभावे प्रतिषेधोऽप्यप्राप्त एव स्यात् । कारकान्तरविषयो वायं प्रतिषेधः ॥ ६० ॥
ननु कामनापदस्य फलसमर्पकत्वे कर्मण्यधिकारी [२] सिध्यति । फलसाधनस्य [३]वाक्यार्थत्वे काम्यनित्यविभागोऽपि [४] न स्यादित्यत आह-
यस्येष्टसाधनं तस्याधिकारश्च प्रसिध्यति ।
विभागः काम्यनित्यादेर्विशेषणविभागतः ॥ ६१ ॥
यस्याभिलषितमिदं कर्म साधयति तस्येदं कर्मेति कर्मणा पुरुषस्य स्वस्वाभितान्वयो नियोगेनैव सामर्थ्यात् सिध्यति । उपकारकभावेऽवगते तदर्थमुपादानादपि स्वत्वमुपपद्यते । ननु यजेतेत्युक्ते यागो मम कर्तव्य इति प्रतीयते न यागो ममेष्टसाधनमिति । न । । नियोगभावनावादिनोरपि यागकार्यताप्रतीतेर्नियोगभावनाप्रतीत्युत्तरकालीनत्वादिहपीष्टसाधनताप्रतीत्यनन्तरभावित्वं न विरुध्यते । अतः प्रथमं कर्मणि स्वाभिलषितसाधने स्वामित्वेनान्वयं प्रतिपद्य पश्चात्