योग्येतरान्विते सामर्थ्यमङ्गीकृत्य कार्यार्थेनैवेतरेषामन्वययोग्यता , कार्यस्य चेतरैरिति योग्यतां नियमयति, तेनापि
गुणद्रव्यकारकत्वादीनां परस्परान्वययोग्यता प्रत्यक्षावगता
न निराकर्तव्या। सत्यम्, आर्थी सा योग्यता । शाब्दी तु
कार्येतरपदार्थानामेवेति चेद् , न, कार्यपदार्थेन गुणद्रव्यकारकत्वादीनां साक्षादन्वयायोग्यत्वात् । भावार्थेन हि कार्यस्यान्वयः। कारकं तु भावार्थस्येति नियमात् । अथ कार्येण
सर्वपदार्थानां शेषशेषि(का ? ता)लक्षणोऽन्वयोऽव्यवहितः ,
क्रियाकारकलक्षणस्तु व्यवहित इति मतम् । केयं शेषशेषिता।
न तावद् भृत्यस्वामिता , चेतनविषयत्वात् । तदुपाधिकर्तव्यता तच्छेषतेति चेद् , न, जातिगुणद्रव्याणां कर्तव्यतायोगात्, सिद्धरूपत्वात् । न च गुणगुण्यादिवद् आश्रयाश्रयिभावः शेषशेषिता । अथोपकार्योपकारकभावो[१]भावार्थ
एव, तर्हीतरपदार्थानां शेषी । गर्भदासोऽपि स्वामिनोपक्रियमाणः शेषी । भृत्यत्वेन तु सम्बन्धान्तरेण गुणभूतः ।
अथ प्राधान्यं शेषिता, किं शब्दतोऽर्थतो वा । शब्दतश्चेद् ,
दध्न एव प्राधान्यात् तदन्वितहोमकर्तव्यतायां २,३शब्दसम्बन्ध:४स्यात् । अर्थतश्चेद्, अचेतनस्योपकार्यतैव प्राधान्यं तच्चाव्यवधानेन भावार्थस्य व्यवधानेन सुखस्य दुःखनिवृत्तेर्वेति न कार्यान्वययोग्यतानियमः। अतो यथाप्रमाणान्तरसिद्धयोग्यतानुसारमेव पदानां योग्यान्विते सामर्थ्यमिति रमणीयम् ॥ ५० ॥
१. २. ‘ते’, ३. ‘ता श', ४: न्धात्. क. पाठः
- ↑ ‘कता भावा' ख. ग. पाठः