जानाति मां राजपुरोहितं भवान्
पुरोहितानां बहुलं हि पापम् ।
ते राजानो यद्यदघं चरन्ति
पुरोहितनां तदिति प्रवादः ॥ १६
प्रायश्चित्तेनापवार्यं बहुलं पापमस्ति मे ।
तत्पापशान्तिमिच्छन्वै सदा व्यग्रो भवाम्यहम् ।
अन्यच्च किञ्चिदस्तीह तच्छृणुष्व महामते ! ॥ १७
सर्वाबद्धोपाख्यानम्
क्वचिद्ग्रामे कश्चिदस्ति सर्वदा मत्परायणः ।
स नास्तिको दुष्प्रकृतिः सर्वपापरतः सदा ॥ १८
दरिद्रश्च दुराचारः सर्वाबद्ध इति द्विजः ।
यज्ञस्थानेषु सर्वेषु सन्तिष्टत्सु द्विजातिषु ॥ १९
यत्किञ्चिद्दक्षिणापेक्षी सोऽप्यागत्य स्थितः क्वचित् ।
तं दृष्ट्वाऽवददन्यो वै द्विजो रोषेण पूरितः ॥ २०
सर्वाबद्ध ! किमर्थं त्वं इहागत्य द्विजातिषु ।
वसिष्ठवत्तिष्ठसि त्वं स्नानाचारविवर्जितः ॥ २१
सर्वाबद्धस्तु तच्छ्रुत्वा गतोऽन्यत्रातिदुखितः ।
'कोपाद्वसिष्ठवदिति मां प्रत्युक्तं द्विजन्मना ॥ २२
स वसिष्ठो रक्षतु मां पावनञ्च करोतु माम्' ।
इति नित्यं वदत्येवं ध्यायते हृदये च माम् ॥ २३
वाग्वसिष्ठवसिष्ठेति सर्वदा तस्य वर्तते ।
कायिकं मानसं पापं वाचिकं नास्ति तद्भुवि ॥ २४
यन्नाम्ना वै कृतं पापं तादृक्क्वाऽपि न मे मतः ।
तथाऽपि मामाश्रयते तस्मात्तस्मिन् कृपा मम ॥ २५