कर्ता। महान् प्रबलः यः रणः युहं तस्य उत्सवं आनन्दम् । कर्म। उद्दिश्य अभिलक्ष्य स्थितः सन् द्विषतः शत्रोः तारकासुरस्य यत् बलं सैन्धं तस्य यः त्रासः भयं तस्मात् विभीषिताः भयं प्राप्ताः, दिवीकसां देवानां चमूः सेनाः। कर्म । प्रसादः अनुग्रह एव पीयूषं अमृतं तस्य धरेण वाहिना चचुषा नेत्रेन । करणेन । अपश्यत् ददर्श ॥ ५० ॥
उतमाहिता इति । मृधे संग्रामे शक्तिं आयुधविशे। धरतीति तथोक्तस्य कार्तिकेयस्य दर्शनात् अवलोकनात् हेते उतमाहिताः उत्साहं प्राप्ताः , महेन्द्रः देवराजः प्रमुखः वर्ष गामी येषां तथोक्ताः, मखं यज्ञहविः अश्नन्ति भुञ्जन्तीति। तादृशाः सुराः। कर्तारः। मृधे युज्वे अहं अरीन् शत्रू जेतु, समर्थः नान्ध इति वदन्तः सन्तः इति शेषः अरीरमन् मेनिरे। अर्थान्तरन्यासेन तदेव समर्थयति-नेति। तथाहि । वरस्य श्रेष्ठस्य पुरुषस्य सङ्गति: सम्पर्कः कस्य जनस्य वीर्याय बलार्थं वीर्यं कर्तुमित्यर्थः। न भवति । अपितु सर्वस्यैवेत्यर्थः । श्रेष्ठाश्रयेण हतवीर्यस्यापि बलं वर्धत इति रगवः ॥ ५१ ॥
परस्परमिती । विजयैषिणः जयार्थिनः। अतएव स्वेष निजानां सम्बन्धिभिः करैः हस्तै: । करणैः।