पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३४
कुमारसम्भवे


दृष्ट्वा सहयेण दृशां महेश
मभूत् कृतार्था(५)[१]ऽतितरां महेन्द्रः।
(६)[२]सर्वाङ्गजातं तथो (७)[३]बिरूप
(८)[४]मिव (९)[५]प्रियाकोपकरं विवेद ॥ २४॥
ततः कुमारं कनकाद्रिसारं
पुरन्दरः प्रच्य धृतास्त्र शस्त्रम् ।
महेश्वरोपान्तिकवर्तमानं
शत्रोर्जयाशां मनसा बबन्ध ॥ २५ ॥

 दृढेति । महान् इन्द्र: महेन्द्र । कर्ता । दृशां नयनानां सहस्त्रेण । करणेन । महन् ईशः महेशः तं कर्मभूतं दृश्न निरीक्ष्य अतितरां भृशं यथा तथा कताः चरिताः अर्थाः कृत्यानि येन बथोक्तः अभूत् बभूव । अथो शिवसाक्षात्कारानन्तरं सर्वाणि यानि अङ्गानि अवयवाः तेषु जातम् उत्पद्ये विरूपं रोमाजनितविरुद्धरूपं प्रियाया: खपत्र कोपकरं क्रोधोत्पादकमिव विवेद जने। रोमाञ्चानां खपत्नजनितत्वशयेति भावः ॥ २४ ॥

 तत इति । ततः तदनन्तरं पुरन्दरः महेन्द्रः। कतिां । कनकाद्रेः सुमेरोरिव सारो बलं यस्य तथोत' महाबलवत मित्यर्थः । अतएव श्रुतानि शिक्षितानि अस्त्राणि धनुरादीनि शस्त्राणि सम्मोहनादनि च येन तथाभूतं कुमारं कर्मभूतं महेखरस्य हरस्य उपान्तिके सन्निधौ वर्तमानं तिष्ठन्तं प्रेक्ष्य दृष्ट्वा शत्रोः तारकासुरस्य जये पराजये य आशा प्रत्याश तां मनसा


  1. खलु तेन शक्रः ।
  2. सर्वाङ्गशतं विकशम्, सर्वाङ्गजानेतदलम्।
  3. विपूरम् ।
  4. पुरा।
  5. प्रियालोकपरम्, प्रियाकोपपरः।