पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११३
एकादशः सर्ग. ।


वाता ववुः सौख्यकराः प्रसत्रु-
राशा निघूमो हुतभुग्दिदौथे।
जलान्यभवन्विमलानि तत्रोत्-
सवेऽन्तरिक्षे प्रससाद सद्यः ॥ ३७ ॥
गम्भी(७)[१]शङ्कध्वनिमिश्रमुच्चैः
होद्भवा दुन्दुभयः प्रणेदुः।

यावत् यस्मिन् कर्मणि तक्तं यथा तथा ननृतुः । क्रियाया विशेषशान्येतानि। नृत्यं कृतवत्यः गात्राणि विचिक्षिपुरिति यवत् ॥ ३६ ॥

 वाता इति । अत्र उत्सवे मद्यः उतसवक्षणमेव वाताः अनिलाः। कर्तारः। मौख्यं कुर्वन्तीति सौख्यकराः सुखस्पर्श इत्यर्थः । सन्तः ववुः चेलुः । आश: पूर्वादयो दिशः प्रसेदुः प्रसत्राः बभूवुः निर्मला जाता इत्यर्थः। हुतं हव्यं घृतादीत्यर्थः भुङ्क्ते यः स हुतभुक् अग्नि :। कप्त। हुतोपपदान्नजधातोः क्विप्प्रत्ययः। विगतः धमः यस्मात् तथोः निधंमः सन् दिदीपे जज्वाल । जलानि वारीणि विमलानि स्वच्छानि अभूवन् बभूवुः । तथा अन्तरिक्षम् आकाशं प्रससाद प्रसन्नमभूत्। निमेघत्वादिति भावः । महापुरुषाणां जग्म सर्वेषां सुखाय भवतीति भावः । ३७ ॥

 गभीरेति ॥ दृहेष धनिकभवनेषु उद्भवाः आताः वाद्यमाना त्यर्थः । दुन्दुभयः दुन्दुभिसंज्ञकः वाद्यविशेषः । कत्र्तारः। गभीरेण मन्द्रेण शङस्य ध्वनिना पाञ्चजन्याख्यशशब्देन मित्रं युक्तं यथा तथा उच्चैः प्रणेदु नादं चक्रुः। तथा व्योम्नि आकाशे दिवम् आोको येषां तथोक्तानां सुराणां सम्बन्धिनः


  1. शब्द।