पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९५
एकादशः सर्गः ।


पिबन् स तस्याः स्तनयोः सुधौचं
क्षणं क्षणं साधु समेधमानः ।
प्रापाकृतिं कामपि षभि(६)[१]रेत्य
निषेव्यमाणः खलु कृत्तिकाभिः ॥ २ ॥
भागरथौपावककृत्तिकानाम्
आतन्दबाष्पाकुललोचनानाम्।
तं नन्दनं दिव्यमुपात्तुमासोत्
परस्परं प्रौढतरो विवादः॥ ३ ॥

 पिबजिति । स बालः तस्याः सुरापगायाः सम्बन्धिनः स्तनयोः सम्बन्धिनं सुधायाः अमृतस्य बोधं समूहं पिबन् पानं कुवंर् सन् अतएव क्षणं क्षणं प्रतिक्षणं साधु सम्यक् यथा तथा समेधयागः स्रस्य वृद्धिं गच्छन्। तथा षभिः ऋत्तिकाभि: । कर्माभि। एत्य आगस्य निषेव्यमाणः लालप्यमाणः सन् कामपि प्रकृतां लोकोत्तरामिति यावत् प्राकृतिम् आकारं प्राप खलु लब्धवानेव । अत्र खलुशब्द एवार्थं मन्दादिन्यः स्तन्यस्यानिर्वचनीयश्चौवर्धकत्वादिति भावः ॥ २॥

 भागीरथौति । आनन्दबाष्य ण हर्षाश्रुण आकुलानि व्यप्तानि लोचनानि नेवाणि यासां तथोक्तानां भागीरथौपावककृत्तिकानां भागीरथ्याः मन्दाकिन्याः पावकस्य अग्ने: बत्तिकानाथ सम्बन्धिनं दिव्य' खणयम् अनिर्वचनौयातिमिति याषत् तं नन्दनं पुवम् उपात्रं लब्धु घटीतुमिति यावत् । परस्परम् अन्योन्यं प्रौढतरः अतिशयितः प्रवलतर इति यावत् । विवादः मत्पुत्रोऽयमिति तर्कपूर्वकः कश्चऽ इत्यर्थः। असौ बभूव ॥ ३ ॥


  1. एषः ।