पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०१
सप्तमः सर्गः ।


(१)[१]धूपोष्मणा त्याजितमार्द्रभावं
केशान्तमन्तःकुसुमं तदौयम्।
पर्याक्षिपत् काचिदुदारबन्धं
दूर्वावता पाण्डुमधूकदाम्ना ॥ १४ ॥
(२)[२]विन्यस्तशक्रागुरु (३)[३]चक्रुरङ्गं
गोरोचनापत्र'(४)[४]विभक्तमस्याः ।
सा चक्रवाकाङ्कितसैकताया-
स्त्रिस्रोतसः कान्तिमतीत्य तस्थौ ॥ १५ ॥
(५)[५]लग्नद्विरेफं परिभूय पद्मं
समेघलेखं शशिनश्च विम्बम् ।

 धूपेति । काचित् प्रसाधिका धूपोष्मणा करणेनार्द्र्भावमार्द्रत्वं त्याजितम् । पचादिषु पाठाद्विकर्मकत्वम् । त्यजतेएर्यन्तादप्रधाने कर्मणि क्तः । अन्तःकुसुममन्तर्निक्षिप्तकुसुमं तस्या इमं तदौयं केशान्तं केशपाशं दूर्वावता मध्ये मध्ये ग्रथितदूर्वेण पाण्डुमधूकदाम्ना हरितमधुद्रुमकुसुममाल्येन ॥ “मधूके तु गुडपुष्पमधुद्रुमौ” इत्यमरः । उदारबन्धं रम्यबन्धं यथा तथा पर्याक्षिपत् बबन्ध ॥ १४ ॥

 विन्यस्तेति । अस्या गौर्या अङ्गं गात्रं विन्यस्तं विरचितं शुक्लागुरु यस्मिन् तदोरोचनायाः पत्रैः पत्ररचनाभिर्विभक्तं विशेवितं च चक्रः । सा तथाभूता गौरी चक्रवाकैरङ्कितं सैकतं यस्यास्तस्यास्त्रिस्रोतसो गङ्गाया: कान्तिं शोभामतीन्यातिक्रम्य तस्थौ । अत्र गोरोचनाचक्रवाकयोः पीतत्वेन साम्यं त्रिस्रोतसो धावल्यं तु प्रसिद्धत्वात्र स्वपदेनोपात्तम् ॥ १५ ॥

 लग्नेति । प्रसिद्धैर्भूर्षितैः ॥ “प्रसिद्धौ ख्यातभूषितौ’ इत्य-


  1. धूपेन समार्जितम् ।
  2. आस ।
  3. चक्षुरस्याः ।
  4. विभङ्गमङ्गम्।
  5. लौन।