पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९९
सप्तमः सर्गः ।

 सप्तमः सर्गः
(१)विन्यस्तवैदूर्यशिलातलेऽस्मिन्[१]
(२)आबद्धमुक्ताफलभक्तिचित्रे ।[२]
आवर्जिताष्टापदकुम्भतोयैः
सतूर्यमेनां स्नपयाम्बभूवुः ॥ १० ॥
सा मङ्गलस्नानविशुद्धगागौ
(३)गृहीतप्रत्युङ्गमनीयवस्त्रा ।[३]
(४)निटीत्तपर्जन्यजलाभिषेका[४]
प्रफुल्लकाशा वसुधेव रेजे ॥ ११ ॥

जायकम् । कालेयकं च कालानुसार्थं च” इत्यमरः । अभिषकयोग्यं वासो वस्त्रं वसानां खानशाटीमाच्छादयन्तीं तां पार्वतीं नार्यः चतुष्कं चतुःस्तम्भगृहं तदंभिमुखं व्यनैषुः। स्नानगृहं निन्युरित्यर्थः ॥ ९ ॥

 विन्यस्तेति ॥ विन्यस्तं वैदूर्यशिलातलं मरकतशिलाप्रदेशो यस्त्रिांस्तस्मिन्नाबद्धानां मुक्ताफ़लानाम् भक्तिभी रचनाभिश्चित्रेऽस्मिंश्चतुष्क एनां पार्वतीमावर्जितानामानमितानामष्टापदकुम्भानां कनककलशानां तोयैः सतूर्यं मङ्गलवाद्ययुक्तं यथा तथा स्रपयाम्बभूवुः । अष्टसु लोहेषु पदं प्रतिष्ठा यस्येत्यष्टापदम् ॥ “अष्टनः संज्ञायाम्” इति दीर्घः॥ “अष्टापदं स्यात् कनकम्” इति विश्वः ॥ १० ॥

 सेति । मङ्गलार्थस्नानेन विशुधगावी निर्मलाङ्गो प्रथ्युरवरस्योङ्गमनीयवस्त्र धौतवस्त्रम् ॥ "धौतमुहम नोयम् स्यात्" इति हलायुधः । "तयादुझमनीयं यद्धौतयोर्वस्त्रयोर्युगम्" इत्यमरः । युगग्रहणं तु प्रायिकाभिप्रायम्। अत एवात्र चौरखामो —“युगं प्रायशो यज्ञध्यं तदेव’ इति व्याख्याय “गृहौ-


  1. विन्यस्तवैदूर्यशिले च तस्मिन् ।
  2. आविद्ध ।
  3. गृहौतशुहाङ्गमनौय।
  4. मिव्वत्त ।