पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
कुमारसम्भवे ।


कुमारसम्भवे

निर्नाभि कौशेयमुपात्तबाण मध्यङ्गनेपथ्यमलञ्चकार ॥ ७ ॥ बभौ च सम्पर्कमुपेत्य बाला नवेन दीक्षाविधिसायकेन। करेण भानोर्बहुलावसाने सन्धुक्च्यमाणेव (१) शशाङ्गरेखा ॥ ८॥ तां लोध्रकल्के न हृताङ्गतैलामाश्यानकलियकृताङ्गरागाम् । वासो वसानामभिषेकयोग्यं (२)नार्यश्चतुष्काभिमुखं व्यनैषुः ॥ ९ ॥

सेति । सा गौरी गौरसिद्यार्थनिवेशवद्भिः श्वेतमर्षपप्रक्षेपवद्भिर्दूर्वाप्रवालैर्दूर्वाङ्कुरैः प्रतिभिन्नशोभं विशेषितशोभं निर्नाम्य तिक्रान्तनाभि कौशेयं वस्त्रविशेषो यस्मिन् तत्तथोक्तम् । ‘कौशेयं क्वमिकोशोत्थम्” इत्यमरः । उपात्तबाणं गृहीतशरम् ॥ “शरः क्षत्रियया ग्राह्यः” इति मनुस्मरणात् । अभ्यङ्गनेपथ्यमभ्यङ्गवेशमलञ्चकार। अलङ्कारमप्यलञ्चकरित्यर्थः ॥७॥

बभाविति । किञ्चेति चार्थः । बाला नवेन दीक्षाविधौ विवाहक्वत्ये यः सायकस्तेन सम्पर्कमुपेत्य बहुलावसाने क्वणापक्षात्यये । शुक्लपक्षादावित्यर्थः। भानोः करेण किरणेन सन्धुक्ष्यमाणोपचौयभाना। "सलिलमये शशिनि रवेर्दीधितयो मूर्च्छितास्तमो नैशम्। क्षपयन्ति" इत्यादिवचनात्। शशाहुरेखेव बभौ॥ ८॥

तामिति । लोध्रकल्केन लोध्रचूर्णेन ह्रुतम् अङ्गतैलं यस्यास्ताम् । क्वतोद्वर्तनामित्यर्थः । आश्यानमौषच्छुष्कं तेन कालेयेन गन्धद्रव्येण क्वताङ्गरागाम् । क्वतस्तैग्धामित्यर्थः । “अथ

(१) शशाड्कलेखा । (२) नार्य्यतुष्काभिसुखीमनैषुः।