पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९७
सप्तमः सर्गः ।


सम्बन्धिभिन्नोऽपि गिरेः कुलस्य
स्त्र हस्तदेकायतनं जगाम ॥ ५ ॥
मैत्रे मुहूर्ते शशलाञ्छनेन
योगं गतासूत्तरफल्गुनीषु ।
तस्याः शरौरे प्रतिकर्म चक्र-
र्बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥ ६ ॥
सा गौरसिद्धार्थनिवेशवद्भि
र्दूर्वाप्रवालैः (१)[१]प्रतिभिन्नशोभम्।

 अङ्गादिति । सा पार्वत्युदीरिताशीः प्रयुक्ताशीर्वादा सल्ल|दङ्मुसङ्ग ययौ । मण्डनान्मण्डनान्तरमन्यमण्डनमन्वभुङ्क्त । तदा सर्वे बन्धवः प्रत्यकमेव तामङ्कमारोप्य मण्डनं प्रायच्छन्नित्यर्थः । तच स्नेहनिबन्धनमेवेत्याह--सबन्धिभिक्ष स्रपुत्रादिभिर्भिन्नो विभक्तोऽपि गिरेः कुलस्य वंशस्य खेहस्तदेकायतनं सैवैकमायसनं स्थानं तज्जगाम । तदिति छेदेऽप्ययमेवार्थः । विधेयप्राधान्यन्नपुंसकत्वमिति । सव बन्धवः स्वापत्य भूयोऽपि तस्यामधिकं विद्यन्तौति तात्पर्यार्थः ॥ ५ ॥

 मैत्र इति ॥ अथ मैत्रे मित्रदैवत्य मुहूर्त । उदयमुहूर्तात् द्वतीयमुहूर्त इत्यर्थः । 'अद्भः साद्रस्तथा मैत्रः शभो वासव एव च” इति वृहस्पतिमरणात्। उत्तरफल्गुनीषु फल् नोनक्षत्रे ॥ *फलानीप्रोष्ठपदानां च नक्षत्रे” त्य कस्मिन्नपि बहुवचनम् ॥ शशलाञ्छनेन चन्द्रेण योगं गतासु सतीषु तस्या: पार्वत्याः शरीरे बन्धुस्त्रियः प्रतिकर्म प्रसाधनम् । "प्रतिकर्म प्रसाधनम्’ इत्यमरः । चक्षुः । कीदृश्यः । याः पतिपुत्रवत्यः । जीवढं का जीवदपत्याञ्चत्यथैः ॥ ६ ॥

 प्रतिधर्मप्रकारमेव प्रपञ्चयति


  1. प्रतिभिवरागम् ।