सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः १२२

विकिस्रोतः तः


द्वाविंशत्यधिकशततमः सर्गः १२२
मनुरुवाच ।
येन केनचिदाच्छन्नो येन केनचिदाशितः ।
यत्रक्वचनशायी च स सम्राडिव राजते ।। १
वर्णधर्माश्रमाचारशास्त्रयन्त्रणयोज्झितः ।
निर्गच्छति जगज्जालात्पञ्जरादिव केसरी ।। २
वाचामतीतविषयो विषयाशादशोज्झितः ।
कामप्युपगतः शोभां शरदीव नभस्तलम् ।। ३
गम्भीरश्च प्रसन्नश्च गिराविव महाह्रदः ।
परानन्दरसाक्षुब्धो रमते स्वात्मनात्मनि ।। ४
सर्वकर्मफलत्यागी नित्यतृप्तो निराश्रयः ।
न पुण्येन न पापेन लिप्यते नेतरेण च ।। ५
स्फटिकः प्रतिबिम्बेन यथा याति न रञ्जनम् ।
तज्ज्ञः कर्मफलेनान्तस्तथा नायाति रञ्जनम् ।। ६
विहरञ्जनतावृन्दे देहकर्तनपूजनैः ।
खेदाह्लादौ न जानाति प्रतिबिम्बगतैरिव ।। ७
निःस्तोत्रो निर्विकारश्च पूज्यपूजाविवर्जितः ।
संयुक्तश्च वियुक्तश्च सर्वाचारनयक्रमैः ।। ८
तस्मान्नोद्विजते लोको लोकान्नोद्विजते च सः ।
रागद्वेषभयानन्दैस्त्यज्यतेऽपि च युज्यते ।। ९
प्रमेये कस्यचिदपि न रोहति महाशयः ।
प्रमेयीक्रियते चापि बालेनाप्यदुराशयः ।। १०
तनुं त्यजतु वा तीर्थे श्वपचस्य गृहेऽपि वा ।
मा कदाचन वा राजन्वर्तमानेऽपि वा क्षणे ।। ११
ज्ञानसंप्राप्तिसमये मुक्तोऽसौ विगताशयः ।
अहंभ्रान्तिर्हि बन्धाय मोक्षो ज्ञानेन तत्क्षयः ।। १२
स पूजनीयः स स्तुत्यो नमस्कार्यः स यत्नतः ।
स निरीक्ष्योऽभिवाद्यश्च विभूतिविभवैषिणा ।। १३
न यज्ञतीर्थैर्न तपःप्रदानै-
रासाद्यते तत्परमं पवित्रम् ।
आसाद्यते क्षीणभवामयानां
भक्त्या सतामात्मविदां यदङ्ग ।। १४
श्रीवसिष्ठ उवाच ।
एवमुक्त्वा स भगवान्मनुर्ब्रह्मगृहं ययौ ।
इक्ष्वाकुरपि तां दृष्टिमवष्टभ्य स्थिरोऽभवत् ।। १५
इत्यार्षे श्रीवासिष्ठमहारा० वा० दे० मो० निर्वाणप्रकरणे पू० इक्ष्वाकुमनुसंवादे इक्ष्वाकुप्रबोधनं नाम द्वाविंशत्यधिकशततमः सर्गः ।।१२२।।