पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५७
पञ्चमः सर्गः ।


(४)[१]अपेक्ष्यते साधुजनेन वैदिक
श्मशानशूलस्य (५)[२] न यूपसक्रिया ॥ ७३ ॥
इति द्विजातौ प्रतिकूलवादिनि
प्रवेपमानाधरलयकोपया ।
विकुञ्चित(६)[३]लतमाहिते तया
विलोचने तिर्यगुपान्तलोहिते ॥ ७४ ॥
उवाच चैनं परमार्थतो हरं
न वेत्हि नूनं यत एवमात्थ माम् ।

नवर्तय निवारय । सा पूर्वोक्त विधा प्रकरो यस्य तथोक्तः । मङ्गलशौख इत्यर्थः । क्क । महदन्तरमित्यर्थ:। पुछलक्षण शस्तभाग्यचि त्व च क । अतो न तवायम इत्यर्थः । यथाहि । साधुजनेन । "साधुर्वाधुषिके चारौ सज्जने चंभिगेयवत्" इति विश्वः । श्मशानशूलस्य शमशानभूमिनिखाभस्थ बध्यशोर्वेदिक वेदो यूप मास पशबन्धनसाधनभूतः संस्कृतदारुविशेषस्तस्य सक्रिय प्रोक्षणाभ्युक्षणदिसंस्कारो किया गपेयते नेष्यते । यथा श्मशानशूले यूपसत्या न क्रियते तथा त्वमपि तौ न घटस इति तात्पर्यार्थ: ॥ ७३ ॥

 इतीति । इत्येवंप्रकारेण द्विजातौ हिजे प्रतिकूलवादिनि इति प्रवेपमागेण चञ्चलेगधरेणाधरोडेन लक्ष्योऽनुमेयः कोपः कोधो यस्यास्तयोतया तया पार्वत्या उपान्तलोहिते प्रान्तर विलोचने विकुञ्चिते कुटिलिते भूलते यद्धिांतप्तधा। सभ्रूभद्रमित्यर्थः । तियें साचि आधिते निहिते। अनादरातिर्यगैश्चतेत्यर्थः ॥ ७४ ॥

 उवाचेति । अथैनं ब्रचारिण्युवाच । किमिति । यर-


  1. अपक्षते।
  2. हि ।
  3. भूलतया।