ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ४५

विकिस्रोतः तः
← अध्यायः ४४ ब्रह्मवैवर्तपुराणम्
अध्यायः ४५
वेदव्यासः
अध्यायः ४६ →

नारायण उवाच ।।
उक्तं द्वयोरुपाख्यानं ब्रह्मपुत्र यथागमम्।।
श्रूयतां मनसाख्यानं यच्छ्रुतं धर्मवक्त्रतः।।१।।
कन्या भगवती सा च कश्यपस्य च मानसी।।
तेनेयं मनसादेवी मनसा या च दीव्यति ।। २ ।।
मनसा ध्यायते या वा परमात्मानमीश्वरम् ।।
तेन सा मनसादेवी योगेनैतेन दीव्यति ।।३।।
आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी ।।
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ।। ४ ।।
जरत्कारुशरीरं च दृष्ट्वा यां क्षणमीश्वरः ।।
गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः ।। ५ ।।
वाञ्छितं च ददौ तस्यै कृपया च कृपानिधिः ।।
पूजां च कारयामास चकार च पुनः स्वयम् ।। ६ ।।
स्वर्गे च नागलोके च पृथिव्यां बह्मलोकतः ।।
भृशं जपत्सु गौरी सा सुन्दरी च मनोहरा ।। ७ ।।
जगद्गौरीति विख्याता तेन सा पूजिता सती ।।
शिवशिष्या च सा देवी तेन शैवीति कीर्त्तिता ।।८।।
विष्णुभक्ताऽतीव रम्या वैष्णवी तेन नारद ।।
नागानां प्राणरक्षित्री जनमेजययज्ञके।।९।।
नागेश्वरीति विख्याता सा नागभगिनी तथा ।।
विषं संहर्त्तुमीशा सा तेन सा विषहारिणी ।।2.45.१ ०।।
सिद्धं योगं हरात्प्राप तेनासौ सिद्धयोगिनी।।
महाज्ञानं च गोप्यं च मृतसञ्जीविनीं पराम् ।।१ १।।
महाज्ञानयुतां तां च प्रवदन्ति मनीषिणः ।।
आस्तीकस्य मुनीन्द्रस्य माता सा वै तपस्विनः ।। १२ ।।
आस्तीकमाता विख्याता जरत्कारुरिति स्म सा ।।
प्रिया मुनेर्जरत्कारोर्मुनीन्द्रस्य महात्मनः ।। १३ ।।
योगिनो विश्वपूज्यस्य जरत्कारोः प्रिया ततः ।। १४ ।।
ॐ नमो मनसायै ।।
जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी ।।
वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ।। १५ ।।
जरत्कारुप्रियाऽऽस्तीकमाता विषहरीति च ।।
महाज्ञानयुता चैव सा देवी विश्वपूजिता ।। १६ ।।
द्वादशैतानि नामानि पूजाकाले च यः पठेत् ।।
तस्य नागभयं नस्ति तस्य वंशोद्भवस्य च ।। १७ ।।
नागभीदे च शयने नागग्रस्ते च मन्दिरे ।।
नागक्षते नागदुर्गे नागवेष्टितविग्रहे ।। १८ ।।
इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः ।।
नित्यं पठेद्यस्तं दृष्ट्वा नागवर्गः पलायते ।। १९ ।।
दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ।।
स्तोत्रं सिद्धं भवेद्यस्य स विषं भोक्तुमीश्वरः ।।2.45.२०।।
नागौघं भूषणं कृत्वा स भवेन्नागवाहनः ।।
नागासनो नागतल्पो महा सिद्धो भवेन्नरः ।। २१ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे मनसोपाख्याने मनसास्तोत्रादिक थनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ।। ४५ ।।