ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ४०

विकिस्रोतः तः
← अध्यायः ३९ ब्रह्मवैवर्तपुराणम्
अध्यायः ४०
वेदव्यासः
अध्यायः ४१ →

नारद उवाच।।
नारायण महाभाग समश्चैव त्वया प्रभो।।
रूपेण च गुणैश्चैव यशसा तेजसा त्विषा।।१।।
त्वमेव ज्ञानिनां श्रेष्ठः सिद्धानां योगिनां तथा।।
तपस्विनां मुनीनां च परो वेदविदां तथा।।
महालक्ष्म्या उपाख्यानं विज्ञातं महदद्भुतम् ।।२।।
अन्यत्किञ्चिदुपाख्यानं निगूढं वद साम्प्रतम्।।
अतीव गोपनीयं यदुपयुक्तं च सर्वतः।।
अप्रकाश्यं पुराणेषु वेदोक्तं धर्मसंयुतम्।।३।।
श्रीनारायण उवाच।।
नानाप्रकारमाख्यानमप्रकाश्यं पुराणतः ।।
श्रुतौ कतिविधं गूढमास्ते ब्रह्मन्सुदुर्लभम्।। ४ ।।
तेषु यत्सारभूतं च श्रोतुं किंवा त्वमिच्छसि ।।
तन्मे ब्रूहि महाभाग पश्चाद्वक्ष्यामि तत्पुनः ।।५।।
नारद उवाच ।।
स्वाहा देवहविर्दाने प्रशस्ता सर्वकर्मसु।।
पितृदाने स्वधा शस्ता दक्षिणा सर्वतो वरा ।।६।।
एतासां चरितं जन्म फलं प्राधान्यमेव च ।।
श्रोतुमिच्छामि ते वक्त्राद्वद वेदविदां वर ।। ७ ।।
सौतिरुवाच ।।
नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः ।।
कथां कथितुमारेभे पुराणोक्तां पुरातनीम् ।। ८ ।।
श्रीनारायण उवाच ।।
सृष्टेः प्रथमतो देवाश्चाहारार्थं ययुः पुरा ।।
ब्रह्मलोके ब्रह्मसभामगम्यां सुमनोहराम् ।। ९ ।।
गत्वा निवेदनं चक्रुर्मुने त्वाहारहेतुकम् ।।
ब्रह्मा श्रुत्वा प्रतिज्ञाय सिषेवे श्रीहरेः पदम् ।। 2.40.१० ।।
यज्ञरूपो हि भगवान्कलया च बभूव सः ।।
यज्ञे यद्यद्धविर्दानं दत्तं तेभ्यश्च वेधसा ।। ११ ।।
हविर्ददति विप्राश्च भक्त्या च क्षत्रियादयः ।।
सुरा नैव प्राप्नुवन्ति तद्दानं मुनिपुंगव ।। १२ ।।
देवा विषण्णास्ते सर्वे तत्सभां च पुनर्ययुः ।।
गत्वा निवेदनं चक्रुराहाराभावहेतुकम् ।। १३ ।।
ब्रह्मा श्रुत्वा तु मनसा श्रीकृष्णं शरणं ययौ ।।
प्रकृतिं पूजयामास ध्यायन्नेव तदाज्ञया।। ।। १४ ।।
प्रकृतिः कलया चैव सर्वशक्तिस्वरूपिणी ।।
बभूव दाहिका शक्तिरग्नेः स्वाहास्वरूपिणी ।। १५ ।।
ग्रीष्ममध्याह्नमार्त्तण्ड प्रभान्यक्कारकारिणी ।।
अतीव सुन्दरी रामा रमणीया मनोहरा ।। १६ ।।
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकारिणी ।।
उवाचेति विधेरग्रे पद्मयोने वरं वृणु ।। १७ ।।
विधिस्तद्वचनं श्रुत्वा सम्भ्रमात्समुवाच ताम् ।। १८ ।।
ब्रह्मोवाच ।।
त्वमग्नेर्दाहिका शक्तिर्भव पत्नी च सुन्दरी ।।
दग्धुं न शक्तस्स्वहुतं हुताशश्च त्वया विना ।। १९ ।।
त्वन्नामोच्चार्य्य मन्त्रान्ते यद्दास्यति हविर्नरः ।।
सुरेभ्यस्तत्प्राप्नुवन्ति सुराः सानन्दपूर्वकम् ।।2.40.२०।।
अग्नेः सम्पत्स्वरूपा च श्रीरूपा च गृहेश्वरी ।।
देवानां पूजिता शश्वन्नरादीनां भवाम्बिके।। ।। २१ ।।
ब्रह्मणश्च वचः श्रुत्वा सा विषण्णा बभूव ह ।।
तमुवाच स्वयं देवी स्वाभिप्रायं स्वयम्भुवम् ।। २२ ।।
स्वाहोवाच ।।
अहं कृष्णं भजिष्यामि तपसा सुचिरेण च ।।
ब्रह्मंस्तदन्यद्यत्किंचित्स्वप्नवद्भ्रम एव च ।।२३ ।।
विधाता जगतां त्वं च शम्भुर्मृत्युञ्जयः प्रभुः ।।
बिभर्ति शेषो विश्वं च धर्म्मः साक्षी च देहिनाम् ।। २४ ।।
सर्वाद्यपूज्यो देवानां गणेषु च गणेश्वरः ।।
प्रकृतिः सर्वसूः सर्वे पूजिता यत्प्रसादतः ।।२५।।
ऋषयो मुनयश्चैव पूजिता यं निषेव्य च ।।
तत्पादपद्मं ब्रह्मैक्यभावाद्वै चिन्तयाम्यहम् ।।२६।।
पद्मास्या पाद्ममित्युक्त्वा पद्मलाभानुसारतः ।।
जगाम तपसे पाद्मे पद्मादीशस्य पद्मजा ।। २७ ।।
तपस्तेपे लक्षवर्षमेकपादेन पाद्मजा ।।
तदा ददर्श श्रीकृष्णं निर्गुणं प्रकृतेः परम् ।। २८ ।।
अतीव कमनीयं च रूपं दृष्ट्वा च सुन्दरी ।।
मूर्छां सम्प्राप कामेन कामेशस्य च कामुकी ।। २९ ।।
विज्ञाय तदभिप्रायं सर्वज्ञस्तामुवाच सः ।।
स्वक्रोडे च समुत्थाप्य क्षीणांगीं तपसा चिरम् ।। 2.40.३० ।।
श्रीकृष्ण उवाच ।।
वाराहे च त्वमंशेन मम पत्नी भविष्यसि ।।
नाम्ना नाग्नजिती कन्या कान्ते नग्नजितस्य च ।। ३१ ।।
अधुनाऽग्नेर्दाहिका त्वं भव पत्नी च भाविनि ।।
मन्त्राङ्गरूपा पूता च मत्प्रसादाद्भविष्यसि ।। ३२ ।।
वह्निस्त्वां भक्तिभावेन सम्पूज्य च गृहेश्वरीम्।।
रमिष्यते त्वया सार्द्धं रामया रमणीयया ।। ३३ ।।
इत्युक्त्वाऽन्तर्दधे देवो देवीमाश्वास्य नारद ।।
तत्राजगाम सन्त्रस्तो वह्निर्ब्रह्मनिदेशतः ।। ३४ ।।
ध्यानैश्च सामवेदोक्तैर्ध्यात्वा तां जगदम्बिकाम् ।।
सम्पूज्य परितुष्टाव पाणिं जग्राह मन्त्रतः ।। ३५ ।।
तदा दिव्यं वर्षशतं स रेमे रामया सह ।।
अतीव निर्जने रम्ये सम्भोगसुखदे सदा ।।३६।।
बभूव गर्भं तस्याश्च हुताशस्यैव तेजसा ।।
तद्दधार च सा देवी दिव्यं द्वादशवत्सरम् ।। ३७ ।।
ततः सुषाव पुत्रांश्च रमणीयान्मनोहरान् ।।
दक्षिणाग्निर्गार्हपत्याहवनीयान्क्रमेण च ।। ।। ३८ ।।
ऋषयो मुनयश्चैव ब्राह्मणाः क्षत्रियादयः ।।
स्वाहान्तं मन्त्रमुच्चार्य्य हविर्ददति नित्यशः ।। ३९ ।।
स्वाहायुक्तं च मन्त्रं च यो गृह्णाति प्रशस्तकम् ।।
सर्वसिद्धिर्भवेत्तस्य ब्रह्मन्ग्रहणमात्रतः ।। 2.40.४० ।।
विषहीनो यथा सर्पो वेदहीनो यथा द्विजः ।।
पतिसेवाविहीना स्त्री विद्याहीनो यथा नरः ।। ४१ ।।
फलशाखाविहीनश्च यथा वृक्षो हि निन्दितः ।।
स्वाहाहीनस्तथा मन्त्रो न द्रुतं फलदायकः ।। ४२ ।।
परितुष्टा द्विजाः सर्वे देवाः संप्रापुराहुतिम् ।।
स्वाहान्तेनैव मन्त्रेण सफलं सर्वकर्म च ।। ४३ ।।
इत्येवं वर्णितं सर्वं स्वाहोपाख्यानमुत्तमम् ।।
सुखदं मोक्षदं सारं कि भूयः श्रोतुमिच्छसि ।। ४४ ।।
नारद उवाच ।।
स्वाहापूजाविधानं च ध्यानं स्तोत्रं मुनीश्वर ।।
संपूज्य वह्निस्तुष्टाव येन तां वद मे प्रभो ।। ४५ ।।
नारायण उवाच ।।
ध्यानं च सामवेदोक्तं स्तोत्रं पूजाविधानकम् ।।
वदामि श्रूयतां ब्रह्मन्सावधानं निशामय ।। ४६ ।।
सर्वयज्ञारम्भकाले शालग्रामे घटेऽथवा ।।
स्वाहां संपूज्य यत्नेन यज्ञं कुर्य्यात्फलाप्तये ।। ४७ ।।
स्वाहां मन्त्राङ्गभूतां च मन्त्रसिद्धिस्वरूपिणीम् ।।
सिद्धां च सिद्धिदां नृणां कर्मणां फलदां भजे ।। ४८।।
इति ध्यात्वा च मूलेन दत्त्वा पाद्यादिकं नरः ।।
सर्वसिद्धिं लभेत्स्तुत्वा मूलं स्तोत्रं मुने शृणु ।। ४९ ।।
ॐ ह्रीं श्रीं वह्निजायायै देव्यै स्वाहेत्यनेन च ।।
यः पूजयेच्च तां देवीं सर्वेष्टं लभते ध्रुवम् ।। 2.40.५० ।।
वह्निरुवाच ।।
स्वाहा ऽऽद्या प्रकृतेरंशा मन्त्रतन्त्राङ्गरूपिणी।।
मन्त्राणां फलदात्री च धात्री च जगतां सती ।।५१।।
सिद्धिस्वरूपा सिद्धा च सिद्धिदा सर्वदा नृणाम् ।।
हुताशदाहिकाशक्तिस्तत्प्राणाधिकरूपिणी ।। ५२ ।।
संसारसाररूपा च घोरसंसारतारिणी ।।
देवजीवनरूपा च देवपोषणकारिणी ।। ५३ ।।
षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः ।।
सर्वसिद्धिर्भवेत्तस्य चेह लोके परत्र च ।। ५४ ।।
नाङ्गहीनो भवेत्तस्य सर्वकर्मसु शोभनम् ।।
अपुत्रो लभते पुत्रमभार्य्यो लभते प्रियाम् ।। ५५ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारद नारायणसंवादे स्वाहोपाख्याने स्वाहाजन्मादिकथनं नाम चत्वारिंशत्तमोऽध्यायः ।। ४० ।।
इति स्वाहोपाख्यानं समाप्तम्।।