ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ३८

विकिस्रोतः तः
← अध्यायः ३७ ब्रह्मवैवर्तपुराणम्
अध्यायः ३८
वेदव्यासः
अध्यायः ३९ →

नारायण उवाच ।।
हरिं ध्यात्वा हरिर्ब्रह्मञ्जगाम ब्रह्मणः सभाम्।।
बृहस्पतिं पुरस्कृत्य सर्वैः सुरगणैः सह ।। १ ।।
शीघ्रं गत्वा ब्रह्मलोकं दृष्ट्वा च कमलोद्भवम् ।।
प्रणेमुर्देवताः सर्वा गुरुणा सह नारद ।।२।।
वृत्तान्तं कथयामास सुराचार्यो विधिं विभुम् ।।
प्रहस्योवाच तच्छ्रुत्वा महेन्द्रं कमलोद्भवः ।। ३ ।।
ब्रह्मोवाच ।।
वत्स मद्वंशजातोऽसि प्रपौत्रो मे विचक्षणः ।।
बृहस्पतेश्च शिष्यस्त्वं सुराणामधिपः स्वयम् ।।४।।
मातामहस्ते दक्षश्च विष्णुभक्तः प्रतापवान् ।।
कुलत्रयं यच्छुद्धं च कथं सोऽहंकृतो भवेत् ।। ५ ।।
माता पतिव्रता यस्य पिता शुद्धो जितेन्द्रियः ।।
मातामहो मातुलश्च कथं सोऽहंकृतो भवेत् ।। ६ ।।
जनः पैतृकदोषेण दोषान्मातामहस्य च ।।
गुरोर्दाषान्नीतिदोषैर्हरिद्वेषी भवेद्ध्रुवम् ।। ७ ।।
सर्वान्तरात्मा भगवान्सर्वदेहेष्ववस्थितः।।
यस्य देहात्स प्रयाति स शवस्तत्क्षणं भवेत् ।। ८ ।।
मनोऽहमिन्द्रियेशश्च ज्ञानरूपो हि शङ्करः ।।
अस्रवः प्रकृतिर्विष्णुर्बुद्धिर्भगवती सती ।। ९ ।।
निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः।।
आत्मनः प्रतिबिम्बं च जीवो भोगी शरीरभृत् ।। 2.38.१० ।।
आत्मनीशे गते देहात्सर्वे यान्ति ससंभ्रमात् ।।
यथा वर्त्मनि गच्छन्तं नरदेवमिवानुगाः ।। ११ ।।
अहं शिवश्च शेषश्च विष्णुर्धर्मो महान्विराट् ।।
वयं यदंशा भक्ताश्च तत्पुष्पं न्यक्कृतं त्वया ।। १२ ।।
शिवेन पूजितं पादपद्मं पुष्पेण येन च ।।
तच्च दुर्वाससा दत्तं दैवेनान्यकृतं सुर ।। १३ ।।
तत्पुष्पं मस्तके यस्य कृष्णपादाब्जतश्च्युतम् ।।
सर्वेषां वै सुराणां च तत्पूजा पुरतो भवेत् ।।१४।।
दैवेन वञ्चितस्त्वं च दैवं च बलवत्तरम् ।।
भाग्यहीनं जनं मूढं को वा रक्षितुमीश्वरः ।। १५ ।।
कृष्णं न मन्यते यो हि श्रीनाथं सर्ववन्दितम् ।।
प्रयाति रुष्टा तद्दासी महालक्ष्मीर्विहाय तम् ।। १६ ।।
शतयज्ञेन या लब्धा दीक्षितेन त्वया पुरा ।।
सा श्रीर्गता ऽधुना कोपात्कृष्णनिर्माल्यवर्जनात् ।। १७ ।।
अधुना गच्छ वैकुण्ठं मया च गुरुणा सह ।।
निषेव्य तत्र श्रीनाथं श्रियं प्राप्स्यसि तद्वरात् ।। १८ ।।
इत्येवमुक्त्वा स ब्रह्मा सर्वैः सुरगणैः सह ।।
शीघ्रं जगाम वैकुण्ठं यत्र श्रीशस्तया सह ।। १९ ।।
तत्र गत्वा परं ब्रह्म भगवन्तं सनातनम् ।।
दृष्ट्वा तेजःस्वरूपं च प्रज्वलन्तं स्वतेजसा ।। 2.38.२० ।।
ग्रीष्ममध्याह्नमार्त्तण्डशतकोटिसमप्रभम् ।।
शान्तं चानादिमध्यान्तं लक्ष्मीकान्तमनन्तकम् ।। २१ ।।
चतुर्भुजैः पार्षदैश्च सरस्वत्या स्तुतं नतम् ।।
भक्त्या चतुर्भिर्वेदैश्च गङ्गया परिषेवितम् ।। २२ ।।
तं प्रणेमुः सुराः सर्वे मूर्ध्ना ब्रह्मपुरोगमाः ।।
भक्तिनम्राः साश्रुनेत्रास्तुष्टुवुः पुरुषोत्तमम् ।। २३ ।।
वृत्तान्तं कथयामास स्वयं ब्रह्मा कृताञ्जलिः ।।
रुरुदुर्देवताः सर्वाः स्वाधिकारच्युताश्च ताः।।२४।।
स चापश्यत्सुरगणं विपद्ग्रस्तं भयाकुलम् ।।
वस्त्रभूषणशून्यं च वाहनादिविवर्जितम् ।।२५ ।।
शोभाशून्यं हतश्रीकं परिवारैरनावृतम् ।।
उवाच कातरं दृष्ट्वा विपन्नभयभञ्जनः।।२६।।
नारायण उवाच ।।
मा भैर्ब्रह्मन्हे सुराश्च भयं किं वो मयि स्थिते ।।
दास्यामि लक्ष्मीमचलां परमैश्वर्यवर्द्धिनीम्।।२७।।
किञ्च मद्वचनं किञ्चिच्छ्रूयतां समयोचितम् ।।
हितं सत्यं सारभूतं परिणामसुखावहम् ।। २८ ।।
जनाश्चासंख्यविश्वस्था मदधीनाश्च सन्ततम्।।
यथा तथाऽहं मद्भक्तैः पराधीनः स्वतन्त्रकः ।। २९ ।।
यो यो रुष्टो हि मद्भक्ते मत्परे हि निरङ्कुशः ।।
तद्गृहेऽहं न तिष्ठामि पद्मया सह निश्चितम् ।। 2.38.३० ।।
दुर्वासाः शङ्करांशश्च वैष्णवो मत्परायणः ।।
तच्छापादागतोऽहं च सश्रीको वो गृहादपि ।। ३१ ।।
यत्र शङ्खध्वनिर्नास्ति तुलसी च शिलार्चनम् ।।
न भोजनं च विप्राणां न पद्मा तत्र तिष्ठति ।। ३२ ।।
मद्भक्तानां च मे निन्दा यत्र यत्र भवेत्सुराः ।।
महारुष्टा महालक्ष्मीस्ततो याति पराभवात् ।। ३३ ।।
मद्भक्तिहीनो यो मूढो यो भुङ्क्ते हरिवासरे ।।
मम जन्मदिने चापि याति श्रीस्तद्गृहादपि ।। ३४ ।।
मन्नामविक्रयी यश्च विक्रीणाति स्वकन्यकाम् ।।
यत्रातिथिर्न भुङ्क्ते च मत्प्रिया याति तद्गृहात् ।। ३५ ।।
पापिनां यो गृहं याति शूद्रश्राद्धान्नभोजिनाम् ।।
महारुष्टा ततो याति मन्दिरात्कमलालया ।। ३६ ।।
शूद्राणां शवदाही च भाग्यहीनश्च वाडवः ।।
याति रुष्टा तद्गृहाच्च देवी कमलवासिनी ।। ३७ ।।
शूद्राणां सूपकारो यो ब्राह्मणो वृषवाहकः ।।
तत्तोयपानभीता च कमला याति तद्ग्रहात् ।। ३८ ।।
विप्रो यवनसेवी च देवलः शूद्रयाजकः ।।
तत्तोयपानभीता च वैष्णवी याति तद्ग्रहात् ।। ३९ ।।
विश्वासघाती मित्रघ्नो नरघाती कृतघ्नकः ।।
अगम्यां याति यो विप्रो मद्भार्य्या याति तद्गृहात् ।। 2.38.४० ।।
अशुद्धहृदयः कूरो हिंसको निन्दको द्विजः ।।
ब्राह्मण्यां शूद्रजातश्च याति देवी च तद्ग्रहात् ।। ४१ ।।
यो विप्रः पुंश्चलीपुत्रो महापापी च तत्पतिः ।।
अवीरान्नं च यो भुङ्क्ते तस्माद्याति जगत्प्रसूः ।। ४२ ।।
तृणं छिनत्ति नखरैस्तैर्वा यो हि लिखेन्महीम् ।।
जिह्मो वा मलवासाश्च सा प्रयाति च तद्ग्रहात् ।। ४३ ।।
सूर्य्योदये च द्विर्भोजी दिवाशायी च वाडवः ।।
दिवामैथुनकारी च तस्माद्याति हरिप्रिया ।। ।। ४४ ।।
आचारहीनो यो विप्रो यश्च शूद्रप्रतिग्रही ।।
अदीक्षितो हि यो मूढस्तस्माल्लोला प्रयाति च ।। ४९ ।।
स्निग्धपादश्च नग्नो वा यः शेते ज्ञानदुर्बलः ।।
शश्वद्धर्मातिवाचालो याति वै तद्गृहात्सती ।। ४६ ।।
शिरस्नातश्च तैलेन योऽन्यदङ्गमुपस्पृशेत् ।।
स्वाङ्गे च वादयेद्वाद्यं रमा याति च तद्गृहात् ।। ४७ ।।
व्रतोपवासहीनो यः सन्ध्याहीनोऽशुचिर्द्विजः ।।
विष्णुभक्तिविहीनो यस्तस्माद्याति हरिप्रिया ।। ४८ ।।
ब्राह्मणं निन्दयेद्यो हि तान्वै द्वेष्टि च सन्ततम् ।।
हिंसाकारी दयाहीनो याति सर्वप्रसूस्ततः ।। ४९ ।।
यत्र तत्र हरेरर्चा हरेरुत्कीर्त्तनं शुभम् ।।
तत्र तिष्ठति सा देवी कमला सर्वमङ्गला ।। 2.38.५० ।।
यत्र प्रशंसा कृष्णस्य तद्भक्तस्य पितामह ।।
सा च कृष्णप्रिया देवी तत्र तिष्ठति सन्ततम्।।५१।।
यत्र शङ्खध्वनिः शङ्खः शिला च तुलसीदलम्।।
तत्सेवा वन्दनं ध्यानं तत्र सा तिष्ठति स्वयम् ।।५२।।
शिवलिङ्गार्चनं यत्र तस्य चोत्कीर्त्तनं शुभम्।।
दुर्गार्चनं तद्गुणाश्च तत्र पद्मनिवासिनी ।।९३।।
विप्राणां सेवनं यत्र तेषां वै भोजनं शुभम् ।।
अर्चनं सर्वदेवानां तत्र पद्ममुखी सती ।। ५४ ।।
इत्युक्त्वा च सुरान्सर्वान्रमामाह रमापतिः ।।
क्षीरोदसागरे जन्म लभस्व कलया रमे ।। ५५ ।।
इत्युक्त्वा तां जगन्नाथो ब्रह्माणं पुनराह च ।।
मथित्वा सागरं लक्ष्मीं देवेभ्यो देहि पद्मज ।। ५६ ।।
इत्युक्त्वा कमलाकान्तो देवश्चान्तरधान्मुने ।।
देवाश्चिरेण कालेन ययुः क्षीरोदसागरम् ।। ९७ ।।
मन्थानं मन्दरं कृत्वा कूर्मं कृत्वा च भाजनम् ।।
रज्जुं कृत्वा वासुकिं च ममन्थुश्चैव सागरम् ।। ५८ ।।
धन्वन्तरिं च पीयूषमुच्चैःश्रवसमीप्सितम् ।।
नानारत्नं हस्तिरत्नं प्रापुर्लक्ष्म्याश्च दर्शनम् ।।५९।।
वनमालां ददौ सा च क्षीरोदशायिने मुने ।।
सर्वेश्वराय रम्याय विष्णवे वैष्णवी सती ।।2.38.६०।।
देवैः स्तुता पूजिता च ब्रह्मणा शङ्करेण च ।।
ददौ दृष्टिं सुरगृहे ब्रह्मशापविमोचिकाम् ।। ६१ ।।
प्रापुर्देवाः स्वविषयं दैत्यैर्ग्रस्तं भयङ्करैः।।
महालक्ष्मीप्रसादेन वरदानेन नारद ।। ६२ ।।
इत्येवं कथितं सर्वं लक्ष्म्युपाख्यानमुत्तमम् ।।
सुखदं सारभूतं च किं भूयः श्रोतुमिच्छसि ।। ६३ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे लक्ष्म्युपाख्याने समुद्रमथनं नामाष्टात्रिंशोऽध्यायः ।। ३८ ।।