योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ५१

विकिस्रोतः तः


एकपञ्चाशः सर्गः ५१
श्रीवसिष्ठ उवाच ।
परिदीर्घासु तन्वीषु सुतीक्ष्णासु सितासु च ।
क्षुरधारोपमानासु चित्तवृत्तिषु तिष्ठ मा ।। १
कालेन महता क्षेत्रे जातेयं बुद्धिवल्लरी ।
वृद्धिं विवेकसेकेन नय तां नयकोविद ।। २
यावन्म्लायति नो कायलतिका कालभास्वता ।
भूतलेऽपतितां तावदेनामुद्धृत्य धारय ।। ३
मद्वाक्यार्थैकतत्त्वज्ञ मद्वाक्यार्थैकभावनात् ।
सुखमाप्नोषि सर्पारिर्यथाभ्ररवभावनात् ।। ४
उद्दालकवदालूनं विशीर्णं भूतपञ्चकम् ।
कृत्वा कृत्वा धिया धीरधीरयान्तर्विचारय ।। ५
श्रीराम उवाच ।
केन क्रमेण भगवन्मुनिनोद्दालकेन तत् ।
भूतपञ्चकमालूनं कृत्वान्तः प्रविचारितम् ।। ६
श्रीवसिष्ठ उवाच ।
श्रृणु राम यथापूर्वं भूतवृन्दविचारणात् ।
उद्दालकेन संप्राप्ता परमा दृष्टिरक्षता ।। ७
जगज्जीर्णगृहस्यास्य कोणे कस्मिंश्चिदातते ।
भूमेरनिलदिग्नाम्नि भूभृद्भाण्डसमाकुले ।। ८
गन्धमादनशैलेन्द्रनाम्नि काचित्किल स्थली ।
विद्यते कीर्णकुसुमा द्रुमकर्पूरकेसरा ।। ९
विचित्रवर्णविहगा नानावल्लीविलासिनी ।
वनेचरव्याप्ततटी पुष्पकेसरभासिनी ।। १०
क्वचित्स्फीतमहारत्ना क्वचिल्लोलाम्बुजोत्पला ।
क्वचिन्नीहारकबरी सरसीदर्पणा क्वचित् ।। ११
तत्र कस्मिंश्चिदुदिते सानौ सरलपादपे ।
आगुल्फाकीर्णकुसुमे स्निग्धच्छायमहाद्रुमे ।। १२
उद्दालको नाम मुनिर्मौनी मानी महामतिः ।
अप्राप्तयौवनः पूर्वमुवासोद्दामतापसः ।। १३
प्रथमं तु बभूवासावल्पप्रज्ञो विचारवान् ।
अप्राप्तपदविश्रान्तिरप्रबुद्धः शुभाशयः ।। १४
ततः क्रमेण तपसा शास्त्रार्थनियमैः क्रमैः ।
विवेक आजगामैनं नवर्तुरिव भूतलम् ।। १५
अथेमं चिन्तयामास संसारामयभीरुधीः ।
एकान्त एव निवसन्कदाचित्कान्तमानसः ।। १६
किं तत्प्राप्यं प्रधानं स्याद्यद्विश्रान्तौ न शोच्यते ।
यत्प्राप्य जन्मना भूयः संबन्धो नोपजायते ।। १७
कदाहं त्यक्तमनने पदे परमपावने ।
चिरं विश्रान्तिमेष्यामि मेरुश्रृङ्ग इवाम्बुदः ।। १८
कदा शममुपैष्यन्ति ममान्तर्भोगसंविदः ।
आलोलकल्लोलरवा ऊर्मयोऽम्बुनिधाविव ।। १९
इदं कृत्वेदमप्यन्यत्कर्तव्यमिति कल्पनाम् ।
कदान्तर्विहसिष्यामि पदविश्रान्तया धिया ।। २०
कदा विकल्पजालं मे न लगिष्यति चेतसि ।
स्थितमप्युज्झितासङ्गं पयः पद्मदले यथा ।। २१
कदा बहुलकल्लोलां नावा परमया धिया ।
परितीर्णो भविष्यामि मत्तां तृष्णातरङ्गिणीम् ।। २२
कदेमां जागतैर्भूतैः क्रियमाणामसन्मयीम् ।
क्रियामपहसिष्यामि बाललीलामिवाकुलाम् ।। २३
कदा विकल्पपर्यस्तं मनो दोलावदोलनम् ।
शममेष्यति मे शान्तवातौजस इव भ्रमः ।। २४
कदोदितवपुर्भासा विहसञ्जागतीर्गतीः ।
अन्तः संतोषमेष्यामि विराडात्मेव पूर्णधीः ।। २५
अन्तः समसमाकारः सौम्यः सर्वार्थनिस्पृहः ।
कदोपशममेष्यामि मन्थमुक्तामृताब्धिवत् ।। २६
कदेमामचलां दृश्यश्रियमाशाशतात्मिकाम् ।
सर्वां सुषुप्तवत्पश्यन्भविष्याम्यन्तराततः ।। २७
सबाह्याभ्यन्तरं सर्व शान्तकल्पनया धिया ।
पश्यंश्चिन्मात्रमखिलं भावयिष्याम्यहं कदा ।। २८
कदोपशान्तचित्तात्मा चित्तामुपगतः पराम् ।
परमालोकमेष्यामि जात्यन्धविगमादिव ।। २९
कदाभ्यासोपलभ्येन चित्प्रकाशेन चारुणा ।
दूरादालोकयिष्यामि तन्वीं कालकलामिमाम् ।। ३०
ईहितानीहितैर्मुक्तो हेयोपादेयवर्जितः ।
कदान्तस्तोषमेष्यामि स्वप्रकाशपदे स्थितः ।। ३३
कदाशाकौशिकीकीर्णा जाड्यजीर्णहृदम्बुजा ।
क्षयमेष्यति कृष्णेयं कदा मे दोषयामिनी ।। ३२
कदोपशान्तमननो धरणीधरकन्दरे ।
समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना ।। ३३
कदा मे मानमातङ्गः स्वाभिमानमहामदः ।
सत्त्वावबोधहरिणा हतो नाशमुपैष्यति ।। ३४
निरंशध्यानविश्रान्तेर्मूकस्य मम मूर्धनि ।
कदा तार्णं करिष्यन्ति कुलायं वनघूर्णिकाः ।। ३५
कदा निःशङ्कमुरसि ध्यानधीरधियः खगाः ।
मम विश्रान्तिमेष्यन्ति शैलस्थाण्वचलस्थितेः ।। ३६
तृष्णाकरञ्जजटिलां जन्मजर्जरगुल्मिकाम् ।
संसारारण्यसरसीं त्यक्त्वा यास्याम्यहं कदा ।। ३७
इति चिन्तापरवशो वन उद्दालको द्विजः ।
पुनः पुनस्तूपविशन्ध्यानाभ्यासं चकार ह ।। ३८
विषयैर्नीयमाने तु चित्ते मर्कटचञ्चले ।
न स लेभे समाधानप्रतिष्ठां प्रीतिदायिनीम् ।। ३९
कदाचिद्बाह्यसंस्पर्शपरित्यागादनन्तरम् ।
तस्यागच्छच्चित्तकपिः प्रोद्वेगं सत्त्वसंस्थितौ ।। ४०
कदाचिदान्तरान् स्पर्शान्परित्यज्य मनःकपिः ।
लोलत्वात्तस्य संयातो विषयं विषदग्धवत् ।। ४१
कदाचिदुदितार्काभं तेजो दृष्ट्वान्तरे मनः ।
विषयोन्मुखतां यातं तस्य तामरसेक्षण ।। ४२
आन्तरान्ध्यतमस्त्यागं कृत्वा विषयलम्पटम् ।
तस्योड्डीय मनो याति कदाचित्त्रस्तपक्षिवत् ।। ४३
बाह्यानाभ्यन्तरान्स्पर्शांस्त्यक्त्वा निद्रां च तन्मनः ।
तमस्तेजोन्तिके लेभे कदाचिच्छाश्वतीं स्थितिम् ।। ४४
इति पर्याकुलस्यान्तः स खलु ध्यानवृत्तिषु ।
दरीष्वन्वहमुग्रासु वातमग्न इव द्रुमः ।। ४५
अतिष्ठद्ध्यानसंरूढमननः संकटे यथा ।
दोलायितवपुस्तुच्छतृष्णातीरतरङ्गकैः ।। ४६
अथ पर्याकुलमना विजहार मुनिर्गिरौ ।
प्रत्यहं दिवसाधीशो महामेराविवैककः ।। ४७
समस्तभूतदुष्प्रापामेकदा प्राप कन्दराम् ।
संशान्तसर्वसंचारां मुनिर्मोक्षदशामिव ।। ४८
अपर्याकुलितां वातैरप्राप्तमृगपक्षिणीम् ।
अदृष्टां देवगन्धर्वैः परमाकाशशोभनाम् ।। ४९
पुष्पप्रकरसंछन्नां मृदुशाद्वलकोमलाम् ।
ज्योतीरसाश्मसंप्रोतैः कृतां मरकतैरिव ।। ५०
सुस्निग्धशीतलच्छायां प्रकटां रत्नदीपकैः ।
सुगुप्तां वनदेवीनामन्तःपुरकुटीमिव ।। ५१
कुलम्बनाहिमालोकां नात्युष्णां नातिशीतलाम् ।
शारदस्योदितार्कस्य हेमगौरीं प्रभामिव ।। ५२
बालालोकपरिम्लानां कोमलाशब्दमारुताम् ।
मञ्जरीजटिलोपेतां बालां मालावतीमिव ।। ५३
उपशमपदवीमिवानुरूपां
कमलजविश्रमणाय योग्यरूपाम् ।
कुसुमनिकरकोमलाभिरामां
सरसिजकोटरकोमलां समन्तात् ।। ५४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे उद्दालकमनोरथो नामैकपञ्चाशः सर्गः ।। ५१ ।।