ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ ब्रह्मवैवर्तपुराणम्
अध्यायः २०
वेदव्यासः
अध्यायः २१ →

सौतिरुवाच ।।
मुदा मालावतीसार्द्धं गन्धर्वश्चोपबर्हणः ।।
रेमे कालावशेषं च ताभिश्च निर्जने वने ।। १ ।।
गन्धर्वराजो मुमुदे पुत्रदारादिभिः सह ।।
नानाविधं क्रतुवरं महत्पुण्यं चकार ह ।। २ ।।
राजत्वं बुभुजे राजा कुबेरभवनोपमे ।।
रेमे सुशीलया सार्द्धं स्थिरयौवनयुक्तया ।। ३ ।।
गन्धर्वराजः काले च गङ्गातीरे मनोहरे ।।
पत्न्या सार्द्धमसूंस्त्यक्त्वा वैकुण्ठं च ययौ मुदा ।। ४ ।।
शैवः शिवप्रसादेन पुत्रस्य विष्णुसेवया ।।
बभूव दासो वैकुण्ठे विष्णोः श्यामचतुर्भुजः ।। ५ ।।
कृत्वा पित्रोश्च सत्कारं गन्धर्वश्चोपबर्हणः ।।
ब्राह्मणेभ्यो ददौ विप्र धनानि विविधानि च ।। ६ ।।
काले स्वयं ब्रह्मशापात्प्राणांस्त्यक्त्वा विचक्षणः ।।
स जज्ञे वृषलीगर्भे ब्रह्मबीजेन शौनक ।। ७ ।।
मालावती वह्निकुण्डे पुष्करे भारते भुवि ।।
कृत्वा तु वाञ्छितं कामं प्राणांस्तत्याज सा सती ।। ८ ।।
सृंजयस्य तु पत्न्यां च मनुवंशोद्भवस्य च ।।
जज्ञे नृपस्य साध्वी सा पुण्या जातिस्मरा वरा ।। ९ ।।
उपबर्हणगन्धर्वः पतिर्मे भवितेति च ।।
इतिकामा कामुकी सा सुन्दरी सुन्दरीवरा ।। 1.20.१० ।।
शौनक उवाच ।।
ब्रह्मवीर्य्याच्छूद्रपत्न्यां गन्धर्वश्चोपबर्हणः ।।
जातः केन प्रकारेण तद्भवान्वक्तुमर्हति ।। ११ ।।
सौतिरुवाच ।।
कान्यकुब्जे च देशे च द्रुमिलो नाम राजकः ।।
कलावती तस्य पत्नी वन्ध्या चापि पतिव्रता ।। १२ ।।
स्वामिदोषेण सा वन्ध्या काले च भर्तुराज्ञया ।।
उपतस्थे वने घोरे नारदं काश्यपं मुनिम् ।। १३ ।।
ध्यायमानं च श्रीकृष्णं ज्वलन्तं ब्रह्मतेजसा ।।
तस्थौ सुवेषं कृत्वा सा ध्यानान्तं च मुनेः पुरः ।। १४ ।।
ग्रीष्ममध्याह्नमार्तण्डप्रभातुल्येन तेजसा ।।
तपन्तं दूरतोऽप्येवं समीपं गन्तुमक्षमा ।। १५ ।।
ध्यानान्ते च मुनिश्रेष्ठः परः कृष्णपरायणः ।।
ददर्श पुरतो दूरे सुन्दरीं स्थिरयौवनाम् ।। १६ ।।
चारुचम्पकवर्णाभां शरत्पङ्कजलोचनाम् ।।
शरत्पार्वणचंद्रास्यां रत्नभूषणभूषिताम् ।। १७ ।।
बृहन्नितम्बभारार्त्तां पीनश्रोणिपयोधराम् ।।
शोभितां पीतवस्त्रेण सस्मितां रक्तलोचनाम् ।। १८ ।।
मोहितां मुनिरूपेण कामबाणप्रपीडिताम् ।।
दर्शयन्तीं स्तनश्रोणिं मैथुनासक्तचेतसा ।। ।। १९ ।।
सिन्दूरबिन्दुभूषाढ्यां सुचारुकज्जलोज्ज्वलाम् ।।
पदालक्तकशोभाढ्यां रूपेणैव यथोर्वशीम् ।। 1.20.२० ।।
मुनिः पप्रच्छ दृष्ट्वा तां का त्वं कामिनि निर्जने ।।
कस्य पत्नी कथं वाऽत्र सत्यं ब्रूहि च पुंश्चलि ।।२१।।
मुनेश्च वचनं श्रुत्वा कम्पिता च कलावती ।।
उवाच विनयेनैव कृत्वा च श्रीहरिं हृदि ।। २२ ।।
कलावत्युवाच ।।
गोपिकाऽहं द्विजश्रेष्ठ द्रुमिलस्य च कामिनी ।।
पुत्रार्थिनी चागताऽहं त्वन्मूलं भर्तुराज्ञया ।। २३ ।।
वीर्य्याधानं कुरु मयि स्त्री नोपेक्ष्या ह्युपस्थिता ।।
तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ।। २४ ।।
वृषलीवचनं श्रुत्वा चुकोप मुनिसत्तमः ।।
उवाच नीत्यं सत्यं च कोपप्रस्फुरिताधरः ।। २५ ।।
काश्यप उवाच ।।
यः स्वलक्ष्मीं च भोगार्हां पराय दातुमिच्छति ।।
तं सा त्यजति मूढं च वेदवाद इति ध्रुवम् ।। २६ ।।
न त्वं द्रुमिलभोगार्हा पुनरेव भविष्यसि ।।
विरक्तेन स्वयं त्यक्ता न गृह्णाति च त्वां पुनः ।। २७ ।।
यः शूद्रपत्नीं गृह्णाति ब्राह्मणो ज्ञानदुर्बलः।।
स चण्डालो भवेत्सत्यं न कर्मार्हो द्विजातिषु ।। २८ ।।
पितृश्राद्धे च यज्ञे च शिलास्पर्शे सुरार्चने ।।
अधिकारश्च तस्यैवमित्याह कमलोद्भवः ।। ।। २९ ।।
कुम्भीपाकं स्वयं याति पातयित्वा च पूरुषान् ।।
मातामहान्स्वात्मनश्च दश पूर्वान्दशापरान् ।। 1.20.३० ।।
तत्तर्पणं मूत्रमेव पिण्डं सद्यः पुरीषकम् ।।
शालग्रामस्य तत्स्पर्शे चोपवासस्त्रिरात्रकम् ।। ३१ ।।
तदिष्टदेवो गृह्णाति न नैवेद्यं न तज्जलम् ।।
संन्यासिनां ब्राह्मणानां तदन्नं च पुरीषवत् ।। ३२ ।।
कुम्भीपाके पच्यते स शक्रान्तं यावदेव हि ।।
एकविंशतिपुरुषैः सार्द्धं सत्यं च पुंश्चलि ।। ३३ ।।
पत्रोच्छिष्टं च यो भुङ्क्ते शूद्राणां ब्राह्मणाधमः ।।
तत्तुल्योऽधरभोजी चैवेत्याङ्गिरेसभाषितम् ।। ३४ ।।
शूद्रो वा यदि गृह्णाति ब्राह्मणीं ज्ञानदुर्बलः ।।
स पच्यते कालसूत्रे यावदिन्द्राश्चतुर्दश ।। ३५ ।।
अष्टादशेन्द्रावच्छिन्नं कालं च कालसूत्रके।।
ब्राह्मणी पच्यते तत्र भक्षिता क्रिमिभिर्ध्रुवम् ।। ३६ ।।
ततश्चण्डालयोनौ च लब्ध्वा जन्म च ब्राह्मणी ।।
शूद्रश्च कुष्ठी भवति ज्ञातिभिः परिवर्जितः ।। ३७ ।।
इत्युक्त्वा च मुनिश्रेष्ठो विरराम च शौनक ।।
वृषली तत्पुरस्तस्थौ शुष्ककण्ठौष्ठतालुका ।। ३८ ।।
एतस्मिन्नन्तरे तेन पथा याति च मेनका ।।
तस्या ऊरुं स्तनं दृष्ट्वा मुनेर्वीर्य्यं पपात ह ।। ३९ ।।
ऋतुस्नाता च वृषली पीत्वा तत्र क्षणं मुदा ।।
मुनिं प्रणम्य प्रहृष्टा प्रययौ भर्तुरन्तिकम् ।। 1.20.४० ।।
गत्वा प्रणम्य द्रुमिलं कान्ता कान्तं मनोहरम् ।।
सर्वं निवेदयामास वृत्तांत्तं गर्भहेतुकम् ।।४१।।
कलावतीवचः श्रुत्वा प्रहृष्टवदनेक्षणः ।।
उवाच कान्तां मधुरं परिणामसुखावहम् ।। ४२ ।।
द्रुमिल उवाच ।।
विप्रस्य वीर्यं त्वद्गर्भे वैष्णवस्य महात्मनः ।।
वैष्णवो भविता बालस्त्वं च भाग्यवती सती ।।४३।।
यद्गर्भे वैष्णवो जातो यस्य वीर्येण वा सति ।।
तयोर्याति च वैकुण्ठं पुरुषाणां शतं शतम् ।।४४।।
तौ च विष्णुविमानेन सद्रत्ननिर्मितेन च ।।
यातौ वैकुण्ठनगरं जन्ममृत्युजराहरम् ।। ४५ ।।
कस्यचिद्ब्राह्मणस्यैव गेहं गच्छ शुभानने ।।
पश्चान्ममान्तिकं भद्रे यास्यसीति हरेः पुरम् ।। ४६ ।।
इत्युक्त्वा गोपराजश्च स्नात्वा कृत्वा तु तर्पणम् ।।
संपूज्याभीष्टदेवं च ब्राह्मणेभ्यो धनं ददौ ।। ४७ ।।
अश्वानां च चतुर्लक्षं गजानां लक्षमेव च ।।
शतं मत्तगजेन्द्राणां ब्राह्मणेभ्यो ददौ मुदा ।। ४८ ।।
उच्चैःश्रवः पञ्चलक्षं रथानां च सहस्रकम् ।।
शकटानां त्रिलक्षं च ब्राह्मणेभ्यो ददौ मुदा ।। ४९ ।।
गवां द्वादशलक्षं च महिषाणां त्रिलक्षकम् ।।
त्रिलक्षं राजहंसानां ब्राह्मणेभ्यो ददौ मुदा ।। 1.20.५० ।।
पारावतानां लक्षं च शुकानां च शतं मुने ।।
लक्षं च दासदासीनां ब्राह्मणेभ्यो ददौ मुदा ।। ५१ ।।
ग्रामाणां च सहस्रं च नगराणां शतं शतम् ।।
धान्यतण्डुलशैलं च ब्राह्मणेभ्यो ददौ मुदा।।५२।।
शतकोटिं सुवर्णानां रत्नानां च सहस्रकम्।।
मुद्राणां कोटिकलशं ब्राह्मणेभ्यो ददौ मुदा ।। ५३ ।।
ददौ तैजसपात्राणां भूषणानामसंख्यकम् ।।
तां स्त्रियं रत्नभूषाढ्यां ब्राह्मणेभ्यो ददौ मुदा ।।५४।।
राज्यं दत्त्वा महाराजोऽप्यन्तर्बाह्ये हरिं स्मरन् ।।
जगाम बदरीं गोपो मनोगामी मुदाऽन्वितः।५५।।
तत्र मासं तपः कृत्वा गङ्गातीरे मनोहरे ।।
प्राणांस्तत्याज योगेन सद्यो दृष्टो महर्षिभिः ।।५६।।
स च विष्णुविमानेन रत्नेन्द्रनिर्मितेन च।।
संयुक्तो विष्णुदूतैश्च वैकुण्ठं च जगाम ह।।५७।।
तत्र प्राप हरेर्दास्यं हरिदासो बभूव सः ।।
वृत्तान्तं च कलावत्या श्रूयतामिति शौनक ।। ५८ ।।
गते कलावती नाथे उच्चैश्च प्ररुरोद ह ।।
वह्नौ प्राणांस्त्यक्तुकामा ब्राह्मणेनैव रक्षिता ।। ५९ ।।
ब्राह्मणो मातरित्युक्त्वा तां गृहीत्वा मुदाऽन्वितः ।।
जगाम रत्नपूर्णं च स्वगेहं च क्षणेन च ।। 1.20.६० ।।
सा विप्रगेहे साध्वी च सुषाव तनयं वरम् ।।
तप्तकाञ्चनवर्णाभं ज्वलन्तं ब्रह्मतेजसा ।। ६१ ।।
तत्रस्था योषितः सर्वा ददृशुर्बालकं शुभम् ।।
ग्रीष्ममध्याह्नमार्तण्डजितं तं ब्रह्मतेजसा ।। ६२ ।।
कामदेवाधिकं रूपे चन्द्राधिकशुभाननम् ।।
शरत्पार्वणचन्द्रास्यं शरत्पङ्कजलोचनम् ।। ६३ ।।
हस्तपादादिवलितं सुकपोलं मनोहरम् ।।
पद्मचक्राङ्कितं पादपद्मं वाऽतुलमुज्ज्वलम् ।। ६४ ।।
करयुग्मं वाऽतुलं च रुदन्तं च स्तनार्थिनम् ।।
योषितो बालकं दृष्ट्वा प्रययुः स्वाश्रमं मुदा ।। ६५ ।।
पुत्रदारयुतो विप्रः प्रहृष्टश्च ननर्त ह ।।
स बालो ववृधे तत्र शुक्लपक्षे यथा शशी ।। ६५ ।।
पुपोष ब्राह्मणस्तां च सपुत्रां च यथा सुताम् ।। ६६ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे उपबर्हणजन्मकथनं नाम विंशोऽध्यायः ।। २० ।।