सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः १८

विकिस्रोतः तः


अष्टादशः सर्गः १८

श्रीवसिष्ठ उवाच ।
युक्ताशयानां महतामहतानां कुदृष्टिभिः ।
स्वभावोऽयं महाबाहो लीलया चरतामिह ।। १
विहरन्नपि संसारे जीवन्मुक्तमना मुनिः ।
आदिमध्यान्तविरसा विहसेज्जागतीर्गतीः ।। २
सर्वप्रकृतकार्यस्थो मध्यस्थः सर्वदृष्टिषु ।
ध्येयं तं वासनात्यागमवलम्ब्य व्यवस्थितः ।। ३
सर्वत्र विगतोद्वेगः सर्वार्थपरिपोषकः ।
विवेकोद्द्योतदृष्टात्मा प्रबोधोपवनस्थितिः ।। ४
सर्वातीतपदालम्बी पूर्णेन्दुशिशिराशयः ।
नोद्वेगी नच तुष्टात्मा संसारे नावसीदति ।। ५
सर्वशत्रुषु मध्यस्थो दयादाक्षिण्यसंयुतः ।
प्राप्तकर्मकरोऽग्र्याणां संसारे नावसीदति ।। ६
नाभिनन्दति न द्वेष्टि न शोचति न काङ्क्षति ।
मौनस्थः प्रकृतारम्भी संसारे नावसीदति ।। ७
पृष्टः सन्प्रकृतं वक्ति न पृष्टः स्थाणुवत्स्थितः ।
ईहितानीहितैर्मुक्तः संसारे नावसीदति ।। ८
सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् ।
आशयज्ञश्च भूतानां संसारे नावसीदति ।। ९
युक्तायुक्तदृशा ग्रस्तमाशोपहतचेष्टितम् ।
जानाति लोकदृष्टान्तं करकोटरबिल्ववत् ।। १०
परं पदमुपारूढो भङ्गुरां जागतीं स्थितिम् ।
अन्तःशीतलया बुद्ध्या हसन्निव निरीक्षते ।। ११
जितचित्ता महात्मानो ये हि दृष्टपरावराः ।
स्वभाव ईदृशस्तेषां कथितस्तव राघव ।। १२
वयं तु वक्तुं मूर्खाणामजितात्मीयचेतसाम् ।
भोगकर्दममग्नानां न विद्मोऽभिमतं मतम् ।। १३
तेषामभिमता नार्यो भावाभावविभूषिताः ।
ज्वालानरकवह्नीनां यास्ताः कनकरोचिषः ।। १४
अनर्थगहनाश्चार्था व्यर्थानर्थकदर्थनाः ।
दिशन्तो दुःखसंरम्भमभितः प्रहितापदः ।। १५
फलसंधीनि कर्माणि नानाचारमयानि च ।
सुखदुःखावपूर्णानि तानि वक्तुं न शक्नुमः ।। १६
पूर्णां दृष्टिमवष्टभ्य ध्येयत्यागविलासिनीम् ।
जीवन्मुक्ततया स्वस्थो लोके विहर राघव ।। १७
अन्तः संत्यक्तसर्वाशो वीतरागो विवासनः ।
बहिः सर्वसमाचारो लोके विहर राघव ।। १८
उदारः पेशलाचारः सर्वाचारानुवृत्तिमान् ।
अन्तः सर्वपरित्यागी लोके विहर राघव ।। १९
प्रविचार्य दशाः सर्वा यदतुच्छं परं पदम् ।
तदेव भावेनालम्ब्य लोके विहर राघव ।। २०
अन्तर्नैराश्यमादाय बहिराशोन्मुखेहितः ।
बहिस्तप्तोऽन्तराशीतो लोके विहर राघव ।। २१
बहिः कृत्रिमसंरम्भो हृदि संरम्भवर्जितः ।
कर्ता बहिरकर्तान्तर्लोके विहर राघव ।। २२
ज्ञातवानसि सर्वेषां भावानां सम्यगन्तरम् ।
यथेच्छसि तथा दृष्ट्या लोके विहर राघव ।। २३
कृत्रिमोल्लासहर्षस्थः कृत्रिमोद्वेगगर्हणः ।
कृत्रिमारम्भसंरम्भो लोके विहर राघव ।। २४
त्यक्ताहंकृतिराश्वस्तमतिराकाशशोभनः ।
अगृहीतकलङ्काङ्को लोके विहर राघव ।। २५
आशापाशशतोन्मुक्तः समः सर्वासु वृत्तिषु ।
बहिः प्रकृतिकार्यस्थो लोके विहर राघव ।। २६
न बन्धोऽस्ति न मोक्षोऽस्ति देहिनः परमार्थतः ।

मिथ्येयमिन्द्रजालश्रीः संसारपरिवर्तिनी ।। २७
भ्रान्तिमात्रमिदं मोहाज्जगद्राघव दृश्यते ।
जनितप्रत्ययं स्फारं जलं तीव्रातपे यथा ।। २८
अबद्धस्यैकरूपस्य सर्वगस्यात्मनः कथम् ।
बन्धः स्यात्तदभावे तु मोक्षः कस्य विधीयते ।। २९
अतत्त्वज्ञानजातेयं संसारभ्रान्तिरातता ।
तत्त्वज्ञानात्क्षयं याति रज्ज्वामिव भुजङ्गधीः ।। ३०
ज्ञातवानसि तत्त्वं स्वमेकया सूक्ष्मया धिया ।
जातोऽसि निरहंकारो व्योमवत्तिष्ठ निर्मलः ।। ३१
ज्ञोऽसि त्वित्थं तदखिलाः सुहृद्बान्धववासनाः ।
संत्यजासत्स्वभावस्य का नाम किल भावना ।। ३२
अपि चेत्थं तदन्यस्त्वं सत्त्ववाननुमीयसे ।
इदं प्रथमतः प्राप्तं परमादपि कारणात् ।। ३३
भोगबन्धुजगद्भावैः कर्मभिश्च शुभाशुभैः ।
आत्मनो नास्ति संबन्धः किमेताननुशोचसि ।। ३४
आत्मतत्त्वेकसारोऽहमिति जातधियो भयैः ।
न ते रामास्ति संबन्धः किं बिभेषि जगद्भ्रमात् ।। ३५
अजातस्य सतो बन्धोर्बन्धुदुःखसुखभ्रमैः ।
कस्ते राघव संबन्धो यदेताननुशोचसि ।। ३६
त्वं चेद्बभूविथ पुरा तथेदानीं भविष्यसि ।
अद्य चेह स्थितोऽसीति ज्ञातवानसि निश्चयम् ।। ३७
तदानन्तरगानन्यान्प्राणादीन्निकटस्थितान् ।
बन्धूनतीतान्सुबहून्कस्मात्त्वं नानुशोचसि ।। ३८
पूर्वमन्यस्तथेदानीं बभूविथ भविष्यसि ।
यदि राम तथापि त्वं सद्रूपं किं विमुह्यसि ।। ३९
पुरा भूत्वाद्य भूत्वा च भूयश्चेन्न भविष्यसि। ।
तथापि क्षीणसंसारः किमर्थमनुशोचसि ।। ४०
तस्मान्न दुःखिता युक्ता प्राकृते जागते क्रमे ।
तथैव मुदिता युक्ता युक्तं कार्यानुवर्तनम् ।। ४१
मा गच्छ दुःखितां राम सुखितामपि मा व्रज ।
समतामेहि सर्वत्र परमात्मा हि सर्वगः ।। ४२
अनन्तः सत्स्वरूपस्त्वं खमिवातिततान्तरम् ।
प्रकाशो नित्यशुद्धस्त्वं ज्वालानामिव कोटरम् ।। ४३
जागतानां पदार्थानामदृष्टात्मतनुस्तनुः ।
हृत्स्थोऽसि हारमुक्तानामेकस्तन्तुरिवाततः ।। ४४
संसारस्थितिरेवेयं यद्भूत्वा भूयते पुनः ।
अज्ञेनैव न तज्ज्ञेन ज्ञोऽसि राम सुखी भव ।। ४५
स्वरूपमिदमस्यास्तु संसृतेः सतताधिमत् ।
अज्ञानात्स्फारतामेति ज्ञातवानसि सन्मते ।। ४६
रूपं किमन्यद्भवतु भ्रममात्रादृते भ्रमे ।
स्वप्नमात्रादृते स्वप्ने भवत्यन्यो हि कः क्रमः ।। ४७
सर्वशक्तेरियं शक्तिर्भ्रममात्रमयं तथा ।
राम दृश्यत एवेदमाभानमतिभास्वरम् ।। ४८
सुबन्धुः कस्यचित्कः स्यादिह नो कश्चिदप्यरिः ।
सदा सर्वे च सर्वस्य सर्वं सर्वेश्वरेच्छया ।। ४९

आलूनशीर्णमखिलमिदमन्योन्यसंश्रितम् ।
अनारतं याति जगत्तरङ्गौघ इवाम्भसः ।। ५०
अध ऊर्ध्वत्वमायाति यात्यूर्ध्वत्वमधस्तथा ।
संसारस्य चलस्यास्य चक्रनेमिरिवाभितः ।। ५१
स्वर्गस्था नरकं यान्ति नारकाश्च त्रिविष्टपम् ।
योनेर्योन्यन्तरं यान्ति द्वीपाद्द्वीपान्तरं जनाः ।। ५२
धीराः कार्पण्यमायान्ति कृपणा यान्ति धीरताम् ।
परिस्फुरन्ति भूतानि पातोत्पातशतभ्रमैः ।। ५३
एकरूपस्थिरं चक्रं स्वच्छं संतापवर्जितम् ।
नेह संप्राप्यते किंचिदग्नौ हिमकणो यथा ।। ५४
ये ये नाम महाभागा बहवो बान्धवास्तथा ।
विनष्टा एव दृश्यन्ते ते ते कतिपयैर्दिनैः ।। ५५
परतात्मीयतान्यत्वत्वत्वमत्त्वादिभावना ।
नेह सत्या महाबाहो द्विचन्द्रादिदृशो यथा ।। ५६
अयं बन्धुः परश्चायमयं चाहमयं भवान् ।
इति मिथ्यादृशो राम विगलन्तु तवाधुना ।। ५७
क्रीडार्थं व्यवहारस्थ एताभिर्हतदृष्टिभिः ।
आमूलमन्तश्छिन्नाभिर्बहिर्विहर हेलया ।। ५८
संसारसरणावस्यां तथा विहर सुव्रत ।
न यथैव श्रमश्रान्तो वासनाभारवानिव ।। ५९
यथा यथैषा कार्याणि वासनाक्षयकारिणी ।
विचारणा तवोदेति संशाम्यन्ति तथा तथा ।। ६०
अयं बन्धुरयं नेति गणना लघुचेतसाम् ।
उदारचरितानां तु विगतावरणैव धीः ।। ६१
न तदस्ति न यत्राहं न तदस्ति न यन्मम ।
इति निर्णीय धीराणां विगतावरणैव धीः ।। ६५
नास्तमेति न चोदेति यश्चिदाकाशवन्महान् ।
सर्वं संपश्यति स्वस्थः स्वस्थो भूमितलं यथा ।। ६३
सर्वा एव हि ते भूतजातयो राम बन्धवः ।
अत्यन्तासंयुता एतास्तव राम न काश्चन ।। ६४
विविधजन्मशताहितसंभ्रमे
जगति बन्धुरबन्धुरितीक्षणम् ।
भ्रमदशैव विवल्गति वस्तुत-
स्त्रिभुवनं चिरबन्धुरबन्ध्वपि ।। ६५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे जीवन्मुक्तवर्णनं नामाष्टादशः सर्गः ।। १८ ।।