संबन्धस्यापि व्यतिरेकव्यतिरेकाभ्यां संबन्धसंबन्धाभ्यां च विचारासचत्वात् । भेदाभेदयश्च परस्यारविरोधेनैकत्रासै भवादिति । सर्वमेतदुपपादितं द्वितीयाध्याये । तदिदमुक्तं ‘देवदिवदेव चैतन्यादचिरुपलभ्यमानत्वादिति । इतश्च दुःखित्वादोन न तादात्म्यमित्याद । “सुषुम्नादिषु चेति । स्यादेतत् । कफादनुभवाथे एवावृत्यभ्युपगमो यावता द्रष्टव्यः श्रोतव्य इत्यादिभिस्तत्त्वमसिवाक्यविषयादन्यविषयैवावृत्तिर्वि धास्यतइत्यत आच। “तत्रापि न तत्त्वमसिवाक्यार्थादि”ति । आत्मा वा अरे द्रष्टव्य इत्याद्यात्मविषयं दर्शनं विधीयते । न च तत्त्वमसिवाक्यविषयादन्यदात्मदर्शनमाम्नातं येनोपक्र म्यते येन चोपसंह्रियते स वाक्यार्थः । सदेव सैन्येदमिति चोपक्रम्य तत्त्वमसत्युपसंहृत इति स एव वाक्यार्थः तदिनः प्रच्यव्यावृत्तिमन्यत्र विदधानः प्रधानमङ्गन विदन्ति वरो हि कर्मणा(९भिर्यमाणत्वात् संप्रदानं प्रधानम्। तमुदाहेन कर्मणा ब्रेन न विघ्नन्तोति । ननु विधिप्रधानत्वाद्वाक्यस्य न भूतार्थप्रधानत्वं भूतस्वर्थस्तदङ्गतया प्रत्याय्यते । यथाहु । चोदना चि भूतं भवन्तमित्यादि शाबरं वाक्यं (२) व्याचशा णाः । कार्यमर्थमवगमयन्ती चोदना तच्छेषतया भूतादिक मवगमयतीत्याशयच । “नियुक्तस्य चास्सिन्नधिकृतोद्यमि”- ति । यथा तावङ्गतार्थपर्यवसिता वेदान्ता न कार्यविधिनि ष्ठास्मथोपपादितं तत्तु समन्वयादित्यत्र प्रत्युत विधिनिष्ठत्वे
(१) कर्मणीक्ति-पा० 3 ।
(२) वायमिति पुस्तके नास्ति ।