पृष्ठम्:भामती.djvu/७०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ ३ पा-8 सू-४५]
[भामती]
[६२८]

द्ययमाश्रमो बाल्यप्रधानः कस्मात्पुनर्गार्हस्थ्येनोपसंहरतीति चोदयति ।"एवं बाल्यादिविशिष्ट"इति। अत उत्तरं पठति ।

कृत्स्नभावात्तु गृहिणोपसंहारः॥७८॥

शन्दोग्यं बहुलायाससाध्यकर्मबहुलत्वादृ गाइंस्थ्यस्य चाश्रमान्तरधर्माणां च केषां चिदहिंसादीनां समवायात् तेनोपसंहारो न पुनस्तेन समापनादित्यर्थः । एवं तदाश्र मदयोपन्यासेन क चित्कदा चिदितराभावशइव मन्दबुद्धेः स्यादिति तदपाकरणार्थं सूत्रम् ॥

मौनवदितरेषार्मयुपदेशात्॥४९॥

वृत्तिर्वानप्रस्थानामनेकविधैरेवं ब्रह्मचारिणेपीति वृत्तिभे दोनुष्ठातारो वा पुरुषा भिद्यन्ते । तस्माद्वित्वेऽपिबहुवचन अविरुद्धम् ।

अनाविष्कुर्वनन्वयात्॥ ५०॥

बाख्येनेति यावहालचरितश्रुतेः कामचारवादभयाताया श्चात्यन्तबाख्येन प्रसिद्धेः शैचादिनियमविधायिनश्च सामा न्यशास्त्रस्यानेन विशेषशास्त्रेण बाधनात्मकबालचरितविधा नमिति प्राप्तेभिधीयते । विद्याङ्गत्वेन बाल्यविधानात् सम स्तबालचर्यायां च प्रधानविरोधप्रसङ्गाद्यत्तदनुगुणमप्रैौढेन्द्रि यत्वादि भावऽद्विरूपं तदेव विधीयते । एवं च शस्त्रान्त राबाधेनायुपपत्ते न शास्त्रान्तरबाधनमन्याय्यं भविष्यतीति॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७०१&oldid=141774" इत्यस्माद् प्रतिप्राप्तम्