पृष्ठम्:भामती.djvu/५६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ पा-२ ६.१९]
[५५७]

भयलिङ्गकशाप्रमाण्यादुभयरूपता ब्रह्मणः पारमार्थिकी तिप्राप्ते, उच्यते । न स्थानत उपाधितोपि परस्य ब्रह्मण उभयचिहुत्वसंभवः । एकं हि पारमार्थिकमन्यदध्यारो पितं पारमार्थिकस्वे ह्यपाधिजनितस्य रूपस्य ब्रह्मणः प रिणामो भवेत् । । स च प्राक् प्रतिषिद्धस्तत्पारिशेष्या स्फटिकमणेरिव खभावस्खच्छधवलस्य लाशरसावसकोपाधि ररुणिमा सर्वगन्धत्वादिौपाधिको ब्रह्मण्यध्यस्त इति प श्यामःनिर्विशेषताप्रतिपादनार्थवाछुतीनाम् । सविशे षतायामपि यश्चायमस्य पृथिव्यां तेजोमय इ त्यादीनां शती न ब्रौकवप्रतिपादनपरधा एकवनानान्वयोधैकस्सि त्रसंभवाद् एकवाङ्गधेनैव नानात्वप्रतिपादनपर्यवसानात् । नानात्वस्य प्रमाणान्तरसिद्दतयानुवाद्यत्वादेकत्वस्य चानधि गतेर्विधेयत्वोपपत्तेर्भददर्शननिन्दया च साशङ्कयसीभिः शुतिभिरभेदप्रतिपादनाद् आकारवद् ब्रह्माविषयाणां च का सां चिच्छुनामपासनापरत्वमसति बाधके ऽन्यपराद्वचनात्प्र तीयमानमपि गुह्यते । यथा देवतानां विशुद्धवत्त्वम् । सन्ति चात्र साझाबेंतापवादेनदैतप्रतिपादनपराः शतशः शुनयः कासां चिच्च सैनाभिधायिनीनां तत्प्रविलयपरत्वम्। तस्या न्निर्विशषमेकरूपं चैतन्यैकरसं सद्रह्म परमार्थतो ऽविशषाश्च सर्वगन्धत्ववामनोवादय उपाधिवशादध्यस्ता इति सिद्धम् । शेषमतिरोहितार्थम् । अत्र के चिबे अधिकरणे कल्पय न्तीति किं सलक्षणं च प्रकाशस्य क्षणं च ब्रह्म किं सज्ञ क्षणमेव ब्रह्मोत प्रकाशलक्षणमेवेति । तत्र पूर्वपक्षे गृहानि ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५६२&oldid=141574" इत्यस्माद् प्रतिप्राप्तम्