ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः १७

विकिस्रोतः तः
← अध्यायः १६ ब्रह्मवैवर्तपुराणम्
अध्यायः १७
वेदव्यासः
अध्यायः १८ →

सौतिरुवाच ।।
दृष्ट्वा द्विजं देवसंघः प्रत्युत्थानं चकार च ।।
परस्परं च सम्भाषा बभूव तत्र संसदि ।। १ ।।
मा तं बुबुधिरे देवाः श्रीहरिं विप्ररूपिणम् ।।
पौर्वापर्य्यं विस्मृताश्च मोहिता विष्णुमायया ।। २ ।।
सुरान्सम्बोध्य विप्रश्च वाचा मधुरया द्विज ।।
उवाच सत्यं परमं प्राणिनां यच्छुभावहम् ।। ३ ।।
ब्राह्मण उवाच ।।
उपबर्हणभार्य्येयं कन्या चित्ररथस्य च ।।
ययाचे जीवदानं च स्वामिनः शोककर्षिता ।। ४ ।।
अधुना किमनुष्ठानमस्य कार्यस्य निश्चितम् ।।
तन्मां ब्रूत सुराः सर्वे नित्यं यत्समयोचितम् ।। ५ ।।
शप्तुकामा सुरान्सर्वान्साध्वी तेजस्विनी वरा ।।
अहं क्षेमाय युष्माकमागतो बोधिता सती ।। ६ ।।
स्तुतिः कृता च युष्माभिः श्वेतद्वीपे हरेरपि।।
युष्माकमीशो विष्णुश्च कथमेवात्र नागतः ।। ७ ।।
बभूवाकाशवाणीति पश्चाद्यास्यति केशव ।।
विपरीतं कथं भूतं वाणीवाक्यमचञ्चलम्।। ।। ८ ।।
ब्राह्मणस्य वचः श्रुत्वा स्वयं ब्रह्मा जगद्गुरुः ।।
उवाच वचनं सत्यं हितं परममङ्गलम् ।।९।।
ब्रह्मोवाच ।।
मत्पुत्रो नारदः शप्तो गन्धर्वश्चोपबर्हणः ।।
योगेन प्राणांस्तत्याज पुनः शापान्ममैव हि ।। 1.17.१० ।।
कालं लक्षयुगं व्याप्य स्थितिरस्य महीतले ।।
शूद्रयोनिं ततः प्राप्य भविता मत्सुतः पुनः ।। ११ ।।
अस्य कालावशेषस्य किञ्चिदस्ति द्विजोत्तम ।।
तत्तु वर्षसहस्रं चैवायुरस्यास्ति साम्प्रतम् ।। १२ ।।
दास्यामि जीवदानं च स्वयं विष्णोः प्रसादतः ।।
यथैनं न स्पृशेच्छापस्तत्करिष्यामि निश्चितम् ।। १३ ।।
नागतो हरिरत्रेति त्वया यत्कथितं द्विज ।।
हरिः सर्वत्र सर्वात्मा विग्रहः कुत आत्मनः ।। १४ ।।
स्वेच्छामयः परं ब्रह्म भक्तानुग्रहविग्रहः ।।
सर्वं पश्यति सर्वज्ञः सर्वत्रास्ति सनातनः ।। १५ ।।
विषिश्च व्याप्तिवचनो नुश्च सर्वत्रवाचकः ।।
सर्वव्यापी च सर्वात्मा तेन विष्णुः प्रकीर्त्तितः ।। १६ ।।
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।।१७।।
कर्मारम्भे च मध्ये वा शेषे विष्णुं च यः स्मरेत् ।।
परिपूर्णं तस्य कर्म वैदिकं च भवेद्द्विज ।। १८ ।।
अहं स्रष्टा च जगतां विधाता संहरो हरः ।।
धर्मश्च कर्मणां साक्षी यस्याज्ञापरिपालकः ।। १९ ।।
कालः संहरते लोकान्यमः शास्ता च पापिनाम् ।।
उपैति मृत्युः सर्वांश्च भिया यस्याज्ञया सदा ।। 1.17.२० ।।
सर्वेशा या च सर्वाद्या प्रकृतिः सर्वसूः पुरा ।।
सा भीता यस्य पुरतो यस्याज्ञापरिपालिका ।। २१ ।।
महेश्वर उवाच ।।
पुत्राणां ब्रह्मणस्तेषां कस्य वंशोद्भवो भवान् ।।
वेदानधीत्य भवता ज्ञातः कः सार एव च ।। २२ ।।
शिष्यः कस्य मुनीन्द्रस्य कस्त्वं नाम्ना च भो द्विज ।।
बिभर्त्त्यर्कातिरिक्तं च शिशुरूपोऽसि साम्प्रतम् ।। २३ ।।
विडम्बयसि देवांश्च विष्णुमस्माकमीश्वरम् ।।
हृदिस्थं च न जानासि परमात्मानमीश्वरम् ।। २४ ।।
यस्मिन्गते पतेद्देहो देहिनां परमात्मनि ।।
प्रयान्ति सर्वे तत्पश्चान्नरदेवानुगा इव ।। २५ ।।
जीवस्तत्प्रतिबिम्बश्च मनो ज्ञानं च चेतना ।।
प्राणाश्चेन्द्रियवर्गाश्च बुद्धिर्मेधा धृतिः स्मृतिः ।।२६।।
निद्रा दया च तन्द्रा च क्षुत्तृष्णा पुष्टिरेव च ।।
श्रद्धा संतुष्टिरिच्छा च क्षमा लज्जादिकाः स्मृताः ।। २७ ।।
प्रयाति यत्पुरः शक्तिरीश्वरे गमनोन्मुखे ।।
एते सर्वे च शक्तिश्च यस्याज्ञा परिपालकाः ।।२८।।
ईश्वरे च स्थिते देही क्षमश्च सर्वकर्मसु ।।
गतेऽस्पृश्यः शवस्त्याज्यः कस्तं देही न मन्यते ।। २९ ।।
स्वयं ब्रह्मा च जगतां विधाता सर्वकारकः ।।
पादारविन्दमनिशं ध्यायते द्रष्टुमक्षमः ।। 1.17.३० ।।
युगलक्षं तपस्तप्तं श्रीकृष्णस्य च वेधसा ।।
तदा बभूव ज्ञानी च जगत्स्रष्टुं क्षमस्तदा ।। ३१ ।।
असंख्यकालं सुचिरं तपस्तप्तं हरेर्मया ।।
तृप्तिं जगाम न मनस्तृप्यते केन मङ्गले ।।३२।।
अधुना पञ्चवक्त्रेण यन्नामगुणकीर्तनम् ।।
गायन्भ्रमामि सर्वत्र निस्पृहः सर्वकर्मसु ।। ३३ ।।
मत्तो याति च मृत्युश्च यन्नामगुणकीर्त्तनात् ।।
शश्वजपन्तं तन्नाम दृष्ट्वा मृत्युः पलायते ।। ३४ ।।
सर्वब्रह्माण्डसंहर्त्ताऽप्यहं मृत्युंजयाभिधः ।।
सुचिरं तपसा यस्य गुणनामानुकीर्त्तनात् ।। ३५ ।।
काले तत्र विलीनोऽहमाविर्भूतस्ततः पुनः ।।
न कालो मम संहर्त्ता न मृत्युर्यत्प्रसादतः ।।३६।।
गोलोके यः स वैकुण्ठे श्वेतद्वीपे स एव च ।।
अंशांशिनोर्न भेदश्च ब्रह्मन्वह्निस्फुलिङ्गवत् ।। ३७ ।।
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।।
अष्टाविंशतिमे शक्रे गते च ब्रह्मणो दिनम् ।। ३८ ।।
एतत्संख्याविशिष्टस्य शतवर्षायुषो विधेः ।।
पाते लोचनपातश्च यद्विष्णोः परमात्मनः ।। ३९ ।।
अहं कलानामृषभः कृष्णस्य परमात्मनः ।।
परं महिम्नः को गच्छेन्न जानामि च किञ्चन ।। 1.17.४० ।।
इत्युक्त्वा शङ्करस्तत्र विरराम च शौनक ।।
धर्मश्च वक्तुमारेभे यः साक्षी सर्वकर्मणाम् ।। ४१ ।।
धर्म उवाच ।।
यत्पाणिपादौ सर्वत्र चक्षुश्च सर्वदर्शनम् ।।
सर्वान्तरात्मा प्रत्यक्षोऽप्रत्यक्षश्च दुरात्मनः ।। ४२ ।।
अधुनाऽपि सभां विष्णुर्नायात इति यद्वचः ।।
त्वयोक्तं तत्कया बुद्ध्या मुनीनां च मतिभ्रमः ।। ४३ ।।
महन्निन्दा भवेद्यत्र नैव साधु शृणोति ताम् ।।
निन्दकः श्रोतृभिः सार्द्धं कुम्भीपाकं व्रजेद्युगम् ।। ४४ ।।
श्रुत्वा दैवान्महन्निन्दां श्रीविष्णोः स्मरणाद् बुधः ।।
मुच्यते सर्वपापेभ्यः पुण्यं प्राप्नोति दुर्लभम् ।।४५।।
कामतोऽकामतो वाऽपि विष्णुनिन्दां करोति यः ।।
शृणोति यो हसति वा सभामध्ये नराधमः ।। ४६ ।।
कुम्भीपाके पचति स यावद्धि ब्रह्मणो वयः ।।
स्थलं भवेदपूतं च सुरापात्रं यथा द्विज ।। ४७ ।।
प्राणी च नरकं याति श्रुतं तत्रैव चेद्ध्रुवम् ।।
विष्णुनिन्दा च त्रिविधा ब्रह्मणा कथिता पुरा।। ४८।।
अप्रत्यक्षं च कुरुते किं वा तं च न मन्यते।।।
देवान्यसाम्यं कुरुते ज्ञानहीनो नराधमः।।४९।।
तस्यात्र निष्कृतिर्नास्ति यावद्वै ब्रह्मणः शतम् ।।
गुरोर्निन्दां यः करोति पितुर्निन्दां नराधमः ।।
स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ ।। 1.17.५० ।।
विष्णुर्गुरुश्च सर्वेषां जनको ज्ञानदायकः ।।
पोष्टा पाता भयत्राता वरदाता जगत्त्रये ।। ५१ ।।
एषां च वचनं श्रुत्वा त्रयाणां विप्रपुङ्गव ।।
प्रहस्योवाच तान्देवान्वाचा मधुरया पुनः ।। ५२ ।।
ब्राह्मण उवाच ।।
का कृता विष्णुनिन्दाऽहो हे देवा धर्मशालिनः ।।
नागतो हरिरत्रेति व्यर्थाऽऽकाशसरस्वती ।।५३।।
इति प्रोक्तं मया भद्रं ब्रूत धर्मार्थमीश्वराः ।।
सभायां पाक्षिकाः सन्तो घ्नन्ति स्म शतपूरुषम् ।।५४।।
यूयं च भावुका ब्रूत विष्णुः सर्वत्र सन्ततम् ।।
इति चेत्तत्कथं याताः श्वेतद्वीपं वराय च ।।५५।।
अंशांशिनोर्न भेदश्चेदात्मनश्चेति निश्चितम्।।
कलां हित्वा निषेवन्ते सन्तः पूर्णतमं कथम् ।।५६।।
कोटिजन्मदुराराध्यमसाध्यमसतामपि ।।
आशा बलवती पुंसां कृष्णं सेवितुमिच्छति ।।५७।।
किं क्षुद्राः किं महान्तश्च वाञ्छन्ति परमं पदम् ।।
लब्धुमिच्छति चन्द्रं च बाहुभ्यां वामनो यथा।।५८।।
यो विष्णुर्विषयी विश्वे श्वेतद्वीपनिवासकृत्।।
यूयं ब्रह्मेशधर्माश्च दिक्पालाश्च दिगीश्वराः।।५९।।
ब्रह्मविष्णुशिवाद्याश्च सुरलोकाश्चराचराः ।।
एवं कतिविधाः सन्ति प्रतिविश्वेषु सन्ततम् ।। 1.17.६० ।।
विश्वानां च सुराणां च कः संख्यां कर्तुमीश्वरः ।।
सर्वेषामीश्वरः कृष्णो भक्तानुग्रहविग्रहः ।। ६१ ।।
ऊर्ध्वं च सर्वब्रह्माण्डाद्वैकुण्ठं सत्यमीप्सितम् ।।
तस्मादूर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनम् ।। ६२ ।।
चतुर्भुजश्च वैकुण्ठे लक्ष्मीकान्तः सनातनः ।।
सुनन्दनन्दकुमुदपार्षदादिभिरावृतः ।। ६३ ।।
गोलोके द्विभुजः कृष्णो राधाकान्तः सनातनः ।।
गोपाङ्गनादिभिर्युक्तो द्विभुजैर्वोपपार्षदैः ।। ६४ ।।
परिपूर्णतमं ब्रह्म स चात्मा सर्वदेहिनाम् ।।
स्वेच्छामयश्च विहरेद्रासे वृन्दावने सदा ।। ६९ ।।
तज्ज्योतिर्मण्डलाकारं सूर्य्यकोटिसमप्रभम् ।।
ध्यायन्ते योगिनः सन्तः सन्ततं च निरामयम् ।। ६६ ।।
नवीननीरदश्यामं द्विभुजं पीतवाससम् ।।
कोटिकन्दर्पलावण्यलीलाधाम मनोहरम् ।। ६७ ।।
किशोरनयनं शश्वच्छान्तं सस्मितमी श्वरम् ।।
ध्यायन्ते वैष्णवाः सन्तः सेवन्ते सत्यविग्रहम्।। ६८ ।।
यूयं च वैष्णवा ब्रूत कस्य वंशोद्भवो भवान्।।
शिष्यः कस्य मुनीन्द्रस्येत्येवं मां च पुनः पुनः ।। ६९ ।।
यस्य वंशोद्भवोऽहं च यस्य शिष्यश्च बालकः ।।
तस्येदं वचनं ज्ञानं देवसंघा निबोधत ।। ।। 1.17.७० ।।
शीघ्रं जीवय गन्धर्वं देवेश्वर सुरेश्वर ।।
व्यक्ते विचारे मूर्खः को वाग्युद्धे किं प्रयोजनम् ।। ७१ ।।
इत्युक्त्वा बालकस्तत्र विप्ररूपी जनार्दनः ।।
विरराम सभामध्ये प्रजहास च शौनक ।। ७२ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे विष्णुसुरसंघसंवादे विष्णुप्रशंसाप्रणयने सप्तदशोऽध्यायः ।। १७ ।।