ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ ब्रह्मवैवर्तपुराणम्
अध्यायः १४
वेदव्यासः
अध्यायः १५ →

सौतिरुवाच ।।
तत्र स्थित्वा क्षणं देवा ब्रह्मेशानपुरोगमाः ।।
ययुर्मालावतीमूलं परं मङ्गलदायकाः ।। १ ।।
मालावती सुरान्दृष्ट्वा प्रणनाम प्रतिव्रता ।।
रुरोद कान्तं संस्थाप्य देवानां सन्निधौ मुने ।। २ ।।
एतस्मिन्नन्तरे तत्र कश्चिद्ब्राह्मणबालकः ।।
आजगाम सुराणां च सभामतिमनोहरः ।। ३ ।।
दण्डी छत्री शुक्लवासा बिभ्रत्तिलकमुज्ज्वलम् ।।
दीर्घपुस्तकहस्तश्च सुप्रशान्तश्च सुस्मितः ।। ४ ।।
चन्दनोक्षितसर्वाङ्गः प्रज्वलन्ब्रह्मतेजसा ।।
सुरान्संभाष्य तत्रैव विस्मितान्विष्णुमायया ।।५।।
तत्रोवास सभामध्ये तारामध्ये यथा शशी ।।
उवाच देवान्सर्वांश्च मालतीं च विचक्षणः ।।६।।
ब्राह्मण उवाच।।
कथमत्र सुराः सर्वे ब्रह्मेशानपुरोगमाः ।।
स्वयं विधाता जगतां स्रष्टा वै केन कर्मणा।।७।।
सर्वब्रह्माण्डसंहर्त्ता शम्भुरत्र स्वयं विभुः।।
अहो त्रिजगतां साक्षी धर्मो वै सर्वकर्मणाम्।।८।।
कथं रविः कथं चन्द्रः कथमत्र हुताशनः ।।
कथं कालो मृत्युकन्या कथं वाऽत्र यमादयः।। ।।९।।
हे मालावति ते क्रोडे कोऽतिशुष्कश्शवोऽनघे ।।
जीवितायाः कथं मूले योषितश्च पुमाञ्छवः ।। 1.14.१० ।।
इत्युक्त्वा तांश्च तां विप्रो विरराम सभातले ।।
मालावती तं प्रणम्य समुवाच विचक्षणम् ।। ११ ।।
मालावत्युवाच ।। आनन्दपूर्वकं वन्दे विप्ररूपं जनार्दनम् ।।
तुष्टा देवा हरिस्तुष्टो यस्य पुष्पजलेन च ।।१२।।
अवधानं कुरु विभो शोकार्ताया निवेदने ।।
समा कृपा सतां शश्वद्योग्या योग्ये कृपावताम् ।। १३ ।।
उपबर्हणभार्य्याऽहं कन्या चित्ररथस्य च ।।
सर्वे मालावतीं कृत्वा वदन्ते विप्रपुङ्गव ।। १४ ।।
दिव्यं लक्षयुगं रम्ये स्थाने स्थाने मनोहरे ।।
कृता स्वच्छन्दतः क्रीडा चानेन स्वामिना सह ।। १५ ।।
प्रिये स्नेहो हि साध्वीनां यावान्विप्रेन्द्र योषिताम् ।।
सर्व शास्त्रानुसारेण जानासि त्वं विचक्षण।। १६ ।।
अकस्माद्ब्रह्मणः शापात्प्राणांस्तत्याज मत्पतिः।।
देवानुद्दिश्य विलपे यथा जीवति मत्पतिः ।। १७ ।।
स्वकार्य्यसाधने सर्वे व्यग्राश्च जगतीतले ।।
भावाभावं न जानन्ति केवलं स्वार्थतत्पराः ।। ।। १८ ।।
सुखं दुःखं भयं शोकं सन्तापः कर्मणां नृणाम् ।।
ऐश्वर्य्यं परमानन्दो जन्म मृत्युश्च मोक्षणम् ।। १९ ।।
देवाश्च सर्वज नका दातारः कर्मणां फलम्।।
कर्त्तारः कर्मवृक्षाणां मूलच्छेदं च लीलया।।1.14.२०।।
न हि देवात्परो बन्धुर्न हि देवात्परो बली।।
दयावान्न हि देवाच्च न च दाता ततः परः ।। २१ ।।
सर्वान्देवानहं याचे पतिदानं ममेप्सितम् ।।
धर्मार्थकाममोक्षाणां फलदांश्च सुरद्रुमान् ।। २२ ।।
यदि दास्यन्ति देवा मे कान्तदानं यथेप्सितम् ।।
भद्रं तदाऽन्यथा तेभ्यो दास्यामि स्त्रीवधं ध्रुवम् ।। २३ ।।
शपिष्यामि च सर्वांश्च दारुणं दुर्निवारकम् ।।
दुर्निवार्य्यः सतीशापस्तपसा केन वार्य्यते ।। २४ ।।
इत्युक्त्वा मालती साध्वी शोकार्ता सुरसंसदि ।।
विरराम द्विजश्रेष्ठस्तामुवाच च शौनक ।। २५ ।।
ब्राह्मण उवाच ।।
कर्मणां फलदातारो देवाः सत्यं च मालति ।।
न सद्यः सुचिरेणैव धान्यं कृषकवन्नृणाम् ।। २६ ।।
गृही च कृषकद्वारा क्षत्रे धान्यं वपेत्सति ।।
तदङ्कुरो भवेत्काले काले वृक्षः फलत्यपि।। २७ ।।
काले सुपक्वं भवति काले प्राप्नोति तद्गृही ।।
एवं सर्वं समुन्नेयं चिरेण कर्मणः फलम् ।। २८ ।।
अष्ठी वपति संसारे गृहस्थो विष्णुमायया ।।
काले तदङ्कुरो वृक्षः काले प्राप्नोति तत्फलम् ।। २९ ।।
पुण्यवान्पुण्यभूमौ च करोति सुचिरं तपः ।।
तेषां च फलदातारो देवाः सत्यं न संशयः ।। 1.14.३० ।।
ब्राह्मणानां मुखे क्षेत्रे श्रेष्ठेऽनूषर एव च ।।
यो यज्जुहोति भक्त्या च स तत्प्राप्नोति निश्चितम् ।।३१।।
न बलं न च सौन्दर्यं नैश्वर्यं न धनं सुतः ।।
नैव स्त्री न च सत्कान्तः किं भवेत्तपसा विना ।।३२।।
सेवते प्रकृतिं यो हि भक्त्या जन्मनि जन्मनि।।
स लभेत्सुन्दरीं कान्तां विनीतां च गुणान्विताम् ।। ३३ ।।
श्रियं च निश्चलां पुत्रं पौत्रं भूमिं धनं प्रजाम् ।।
प्रकृतेश्च वरेणैव लभेद्भक्तोऽवलीलया ।। ३४ ।।
शिवं शिवस्वरूपं च शिवदं शिवकारणम् ।।
ज्ञानानन्दं महात्मानं परं मृत्युंजयं परम् ।।३५।।
तमीशं सेवते यो हि भक्त्या जन्मनि जन्मनि ।।
पुमान्प्राप्नोति सत्कान्तां कामिनी चापि सत्पतिम्।। ३६ ।।
विद्यां ज्ञानं सुकवितां पुत्रं पौत्रं परां श्रियम् ।।
बलं धनं विक्रमं च लभेद्धरवरेण सः ।। ३७ ।।
ब्रह्माणं भजते यो हि लभेत्सोऽपि प्रजां श्रियम् ।।
विद्यामैश्वर्य्यमानन्दं वरेण ब्रह्मणो नरः ।। ३८ ।।
यो नरो भजते भक्त्या दीननाथं दिनेश्वरम् ।।
विद्यामारोग्यमानन्दं धनं पुत्रं लभेद् धुवम् ।।३९।।
गणेश्वरं यो भजते देवदेवं सनातनम् ।।
सर्वाग्रपूज्यं सर्वेशं भक्त्या जन्मनि जन्मनि।। 1.14.४० ।।
विघ्ननाशो भवेत्तस्य स्वप्ने जागरणेऽनिशम् ।।
परमानन्दमैश्वर्य्यं पुत्रं पौत्रं धनं प्रजाः ।। ४१ ।।
ज्ञानं विद्यां सुकवितां लभते तद्वरेण च ।।
भजते यो हि विष्णुं च लक्ष्मीकान्तं सुरेश्वरम् ।।४२।।
वरार्थी चेल्लभेत्सर्वं निर्वाणमन्यथा ध्रुवम् ।।
शान्तं निषेव्य पातारं सत्यं सत्यं लभेन्नरः ।। ४३ ।।
सर्वं तपः सर्वधर्मं यशः कीर्तिमनुत्तमाम् ।।
विष्णुं निषेव्य सर्वेशं यो मूढो लभते वरम् ।। ४४ ।।
विडम्बितो विधात्राऽसौ मोहितो विष्णुमायया ।।
माया नारायणीशाना सर्वप्रकृतिरीश्वरी ।। ४५ ।।
सा कृपां कुरुते यं च विष्णुमन्त्रं ददाति तम् ।।
धर्मं यो भजते धर्मी सर्वधर्मं लभेद् ध्रुवम् ।।४६।।
इह लोके सुखं भुक्त्वा याति विष्णोः परं पदम् ।।
यो यं देवं भजेद्भक्त्या स चादौ लभते च तम् ।। ४७ ।।
काले पश्चात्तेन सार्द्धं परं विष्णोः पदं लभेत् ।।
श्रीकृष्णं भजते यो हि निर्गुणं प्रकृतेः परम् ।। ४८ ।।
ब्रह्मविष्णुशिवादीनां सेव्यं बीजं परात्परम् ।।
अक्षरं परमं ब्रह्म भगवन्तं सनातनम् ।। ४९ ।।
साकारं च निराकारं ज्योतिः स्वेच्छामयं विभुम् ।।
सर्वाधारं च सर्वेशं परमानन्दमीश्वरम् ।। 1.14.५० ।।
निर्लिप्तसाक्षिरूपं च भक्तानुग्रहविग्रहम् ।।
जीवन्मुक्तः स सत्यं हि न वरं लभते सुधीः।।५१।।
स सर्वं मन्यते तुच्छं सालोक्यादिचतुष्टयम् ।।
ब्रह्मत्वममरत्वं वा मोक्षं यत्तुच्छवत्सति ।।५२।।
ऐश्वर्यं लोष्टतुल्यं च नश्वरं चैव मन्यते ।।
इन्द्रत्वं च मनुत्वं च चिरजीवित्वमेव वा ।। ९३ ।।
जल बुद्बुदवद् बुद्ध्या चातितुच्छं न गण्यते ।।
स्वप्ने जागरणे वाऽपि शश्वत्सेवां च वाच्छति ।।५४।।
दास्यं विना न याचेत श्रीकृष्णस्य पदं परम् ।।
तत्पादाब्जे दृढां भक्तिं लब्ध्वा पूर्णो निरन्तरम् ।। ५९ ।।
परिपूर्णतमं ब्रह्म निषेव्यं सुस्थिरः सदा ।।
आत्मनः कुलकोटिं च शतं मातामहस्य च ।।५६।।
श्वशुरस्य शतं पूर्वमुद्धृत्य चावलीलया ।।
दासं दासीं प्रसूं भार्यां पुत्रादपि परं शतम्।। ।। ५७ ।।
उद्धरेत्कृष्णभक्तश्च गोलोकं याति निश्चितम् ।।
तावद्गर्भे वसेत्कामी तावती यमयातना ।। ५८ ।।
तावद्गृही च भोगार्थी यावत्कृष्णं न सेवते ।।
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रविश्यति ।। ५९ ।।
यमस्तल्लिखनं दूरं करोति तत्क्षणं भिया ।।
मधुपर्कादिकं ब्रह्मा पुरैव तन्नियोजयेत् ।।1.14.६०।।
अहो विलङ्घ्य मल्लोकं मार्गेणानेन यास्यति।।
तस्य वै निष्कृतिर्नास्ति कल्पकोटिशतैरपि।।६१।।
दुरितानि च भीतानि कोटिजन्मकृतानि च ।।
तं विहाय पलायन्ते वैनतेयं यथोरगाः ।। ६२ ।।
पुरातनं कृतं कर्म यद्यत्तस्य शुभाशुभम् ।।
छिनत्ति कृष्णश्चक्रेण तीक्ष्णधारेण सन्ततम् ।। ६३ ।।
तं विहाय जरा मृत्युर्याति चक्रभिया सति ।।
अन्यथा शतखण्डं तां कुरुते च सुदर्शनः।।६४।।
निःशङ्को याति गोलोकं विहाय मानवीं तनुम् ।।
गत्वा दिव्यां तनुं धृत्वा श्रीकृष्णं सेवते सदा।।६५।।
यावत्कृष्णो हि गोलोके तावद्भक्तो वसेत्सदा ।।
निमेषं मन्यते दासो नश्वरं ब्रह्मणो वयः ।। ६६ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे विष्णुमालावतीसंवादो नाम चतुर्दशोऽध्यायः ।। १४ ।।