पृष्ठम्:भामती.djvu/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भमती]
[अ.२ पा३.४२]
[५०५]

सर्वेषां पुरुषाणां विभुत्वात्प्रधानस्य च साधारण्यादमुं पुरुषं प्रत्यनेनार्थः साधित इत्येतदेव नास्ति । तस्मात्प्रयोजनव शेन विना चेतुं व्यवस्था ऽऽस्थेया । सा चायुक्ता , चत्व भावादित्यर्थः । भवतु सांख्यानामव्यवस्था प्रधानसमवाया ददृष्टस्य प्रधानस्य च साधारण्यात् । काणादादीनां त्वा त्मसमवाय्यदृष्टं प्रत्यात्ममसाधारणं तत्कतश्च मनसा स वामनः खस्वामिभावलक्षणः संबन्धी ऽनादिदृष्टभेदानाम नादित्वा,त्तथा चात्ममनःसंयोगस्य साधारण्येपि खखामि भावस्यासाधारण्यादभिसंध्यादिव्यवस्थोपपद्यतएव । न च संयोगोपि साधारणः । नदि तस्य मनस आत्मान्तरैर्यः संयोगः स एव खमिनाप्यात्मसंयोगस्य प्रतिसंयोगभेदेन भेदात् । तस्मादात्मैकत्वस्यागमसिद्धत्वाद्यवस्थायायैकत्वेपि उपपत्तेननेकात्मक पनागैरवादागमविरोधचन्यविशेषव त्वेन च भेदकल्पनायामन्योन्याश्रयापत्तेः । भेदे च - त्कल्पना ततश्च भेद इति । एतद्व काणादमतदूषणं भाष्यकृता तु प्रढवादितया काणादान्प्रत्ययदृष्टानियमा दित्यादीनि स्त्राणि योजितानि सांख्यमतदूषणपराण्येवेति तु रोचयन्ते के चित्तदास्तां तावन् ॥ इति श्रीवाचस्पतिमिश्रविरचिते भगवत्पादश्शारीरकभाध्य विभागे भामत्यां द्वितीयाध्यायस्य त्वतीयः पादः ॥

तथ प्रणः ॥ १ ॥

यद्यपि ब्रह्मवेदने सर्ववेदनप्रतिज्ञातदुपपादनश्रुतिविरोधा इहुनरावैतद्युतिविरोधाच्च प्राणानां सगदैौसद्भावश्रुतिर्वि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५१०&oldid=141517" इत्यस्माद् प्रतिप्राप्तम्