योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः १२

विकिस्रोतः तः


द्वादशः सर्गः १२
काल उवाच ।
सुरासुरनराकारा इमा याः संविदो मुने ।
ब्रह्मार्णवादभिन्नास्ताः सत्यमेतन्मृषेतरत् ।। १
मिथ्याभावनया ब्रह्मन्स्वविकल्पकलङ्किताः ।
न ब्रह्म वयमित्यन्तर्निंश्चयेन ह्यधोगताः ।। २
ब्रह्मणो व्यतिरिक्तत्वं ब्रह्मार्णवगता अपि ।
भावयन्त्यो विमुह्यन्ति भीमासु भवभूमिषु ।। ३
या एताः संविदो ब्राह्म्यो मननैककलङ्किताः ।
एतत्तत्कर्मणां बीजमप्यकर्मैव विद्धि ताः ।। ४
संकल्परूपयैवान्तर्मुने कलनयैतया ।
कर्मजालकरञ्जानां बीजमुष्ट्या करालया ।। ५
इमा जगति विस्तीर्णाः शरीरोपलपङ्क्तयः ।
तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति च ।। ६
आब्रह्मस्तम्बपर्यन्तं स्पन्दनैः पवनो यथा ।
उल्लसन्ति निलीयन्ते म्लायन्ति विहसन्ति च ।। ७
ता एताः काश्चिदत्यच्छा यथा हरिहरादयः ।
काश्चिदल्पविमोहस्था यथोरगनरामराः ।। ८
काश्चिदत्यन्तमोहस्था यथा तरुतृणादयः ।
काश्चिदज्ञानसंमूढाः कृमिकीटत्वमागताः ।। ९
काश्चिचत्तृणवदुह्यन्ते दूरे ब्रह्ममहोदधेः ।
अप्राप्तभूमिका एता यथोरगनगादयः ।। १०
सत्त्वमात्रं समालोक्य काश्चिदेवमुपागताः ।
जाताजाता निखन्यन्ते कृतान्तजरठाखुना ।। ११

काश्चिदन्तरमासाद्य ब्रह्मतत्त्वमहाम्बुधेः ।
गतास्तत्तां समं कार्यैर्हरिब्रह्महरादिकाः ।। १२
अल्पमोहात्मिकाः काश्चित्तमेव ब्रह्मवारिधिम् ।
अदृष्टपारभूम्यौघमवलम्ब्य व्यवस्थिताः ।। १३
काश्चिद्भोक्तव्यजन्मौघभुक्तजन्मौघकोटयः ।
वन्ध्याः प्रकाशतामस्यः संस्थिता भूतजातयः ।। १४
काश्चिदूर्ध्वादधो यान्ति यथा हस्तान्महत्फलम् ।
ऊध्वादूर्ध्वतरं काश्चिदधस्तात्काश्चिदप्यधः ।। १५
बहुसुखदुःखकराकराक्षयेयं
परमपदास्मरणात्समागतेह ।
परमपदावगमात्प्रयाति नाशं
विहगपतिस्मरणाद्विषव्यथेव ।। १६

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे भार्गवोपाख्याने संसारोत्पत्तिविस्तारवर्णनं नाम द्वादशः सर्गः ।। १२ ।।