श्री प्रह्लाद चरित्र
दिखावट
प्रह्लाद कथा
श्री विष्णु पुराण में कथित प्रह्लाद जी के चरित्र का व्यख्यान ।
मैत्रय श्रूयतां सम्यक चरितं तस्य धीमतः । प्रह्लादस्य सदोदारचरितस्य महात्मनः ॥ दिते पुत्रो महावीर्यो हिरण्यकशिपुः पुरा । त्रैलोक्यं वशमानिन्ये ब्राह्मणो वरदर्पितः ॥ इन्द्रत्वमकरोद्दैत्यः स चासीत्सविता स्वयम् । वायुरग्निरपां नाथः सोमश्चाभून्महासुरः ॥ धनानामधिपः सोऽभूत्स एवासीत्स्वयं यमः । यज्ञभागानशेषांस्तु स स्वयं बुभुजेऽसुरः ॥ देवाः स्वर्ग परित्यज्य तत्त्रासान्मुनिसत्तम । विचेरूरवनौ सर्वे बिभ्राणा मानुषीं तनुम् ॥ जित्वा त्रिभुवनं सर्वं त्रैलोक्यैश्वर्यदर्पितः । उपगीयमानो गन्धर्वबुभुजे विषयान्प्रियान् ॥ पानासक्तं महात्मानं हिरण्यकशिपुं तदा । उपासाञ्चक्रिरे सर्वे सिद्धगन्धर्वपन्नगाः ॥ अवादयन् जगुश्चान्ये जयशब्दं तथापरे । दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदान्विताः ॥ तत्र प्रनृत्ताप्सरसि स्फाटिकाभ्रमयेऽसुरः । पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे ॥ तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः । पपाठ बालपाठयानि गुरुगेहङ्गतोऽर्भकः ॥ एकदा तु स धर्मात्मा जगाम गुरुणा सह । पानासक्तस्य पुरतः पितुर्दैत्यपतेस्तदा ॥ पादप्रणामावनतं तमुत्थाप्य पिता सुतम । हिरण्यकशिपुः प्राह प्रह्लादममितौजसम् ॥ हिरण्यकशिपुरुवाच पठयतां भवता वत्य सारभूतं सुभाषितम् । कालेनैतावता यत्ते सदोद्युक्तेन शिक्षितम् ॥ प्रह्लाद उवाच श्रूयतां तात वक्ष्यामि सारभूतं तवाज्ञया । समाहितमना भूत्वा यन्मे चेतस्यवस्थितम् ॥ अनादिमध्यान्तमजमवृद्धिक्षयमच्युतम् । प्रणतोऽस्म्यन्तसन्तानं सर्वकारणकारणम् ॥ श्रीपराशर उवाच एतन्निशम्य दैत्येन्द्रः सकोपो रक्तलोचनः । विलोक्य तदगुरुं प्राह स्फुरिताधरपल्लवः ॥ हिरण्यकशिपुरुवाच ब्रह्मबन्धो किमेतत्ते विपक्षस्तुतिसंहितम् । असारं ग्राहितो बालो मामवज्ञाय दुर्मते ॥ गुरुरुवाच दैत्येश्वर न कोपस्य वशमागन्तुमर्हसि । ममोपदेशजनितं नायं वदति ते सुतः ॥ हिरण्यकशिपुरुवाच अनुशिष्टोऽसि केनेदृग्वत्स प्रह्लाद कथ्यताम् । मयोपदिष्टं नेत्येष प्रब्रवीति गुरुस्तव ॥ प्रह्लाद उवाच शास्ता विष्णुरशेषस्य जगतो यो हृदि स्थितः । तमृते परमात्मानै तात कः केन शास्यते ॥ हिरण्यकशिपुरुवाच कोऽयं विष्णुः सुदुर्बुद्धे यं ब्रवीषि पुनः पुनः । जगतामीश्वरस्येह पुरतः प्रसभं मम ॥ प्रह्लाद उवाच न शब्दगोचरं यस्य योगिध्येयं परं पदम् । यतो यश्च स्वयं विश्वं स विष्णुः परमेश्वरः ॥ हिरण्यकशिपुरुवाच परमेश्वरसंज्ञोऽज्ञ किमन्यो मय्यवस्थिते । तथापि मर्तुकामस्त्वं प्रब्रवीषि पुनः पुनः ॥ प्रह्लाद उवाच न केवलं तात मम प्रजानां स ब्रह्मभूतो भवतश्व विष्णुः । धाता विधाता परमेश्वरश्च प्रसीद कोपं कुरुषे किमर्थम् ॥ हिरण्यकशिपुरुवाच प्रविष्टः कोऽस्य हृदये दुर्बुद्धेरतिपापकृत् । येनेदृशान्यसाधूनि वदत्याविष्टमानसः ॥ प्रह्लाद उवाच न केवलं पद्हृदयं स विष्णुराक्रम्य लोकानखिलानवस्थितः । स मां त्वदादींश्च पितस्समस्तान्समस्तचेष्टासु युनक्ति सर्वगः ॥ हिरण्यकशिपुरुवाच निष्कास्यतामयं पापः शास्यतां च गुरोर्गृहे । योजितो दुर्मतिः केन विपक्षविषयस्तुतौ ॥ श्रीपराशर उवाच इत्युक्तोऽसौ तदा दैत्यैर्नीतो गुरुगृहे पुनः । जग्राह विद्यामनिशं गुरुशुश्रूषणोद्यतः ॥ कालेऽतीतेऽति महति पर्ह्लादमसुरेश्वरः । समाहूयाब्रवीद्गाथा काचित्पुत्रक गीयताम् ॥ प्रह्लाद उवाच यतः प्रधानपुरुषौ यतश्चैतच्चराचरम् । कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु ॥ हिरण्यकशिपुरुवाच दुरात्मा वध्यतामेष नानेनार्थोऽस्ति जीवता । स्वपक्षहानिकर्तृत्वाद्यः कुलाङ्गारतां गतः ॥ श्रीपराशर उवाच इत्याज्ञप्तास्ततस्तेन प्रगृहीतमहायुधाः । उद्यतास्तस्य नाशाय दैत्याः शतसहस्रशः ॥ प्रह्लाद उवाच विष्णुः शस्त्रेषु युष्मासु मयि चासौ व्यवस्थितः । दैतेयास्तेन सत्येन माक्रमन्त्वायुधानि मे ॥ श्रीपराशर उवाच ततस्तैश्शतशो दैत्यैः शस्त्रौघैराहतोऽपि सन् । नावाप वेदनामल्पामभूच्चैव पुनर्नवः ॥ हिरण्यकशिपुरुवाच दुर्बुद्धे विनिवर्तस्व वैरिपक्षस्तवार्दतः । अभयं ते प्रयच्छामि मातिमूढमतिर्भव ॥ प्रह्लाद उवाच भयं भयानामपहारिणि स्थिते मनस्यनन्ते मम कुत्र तिष्ठति । यस्मिन्स्मृते जन्मजरान्तकादिभयानि सर्वाण्यपयान्ति तात ॥ हरिण्यकशिपुरुवाच भो भोः सर्पा दुराचारमेनमत्यन्तदुर्मतिम । विषज्वालाकुलैर्वक्त्रैः सद्यो नयत सङ्क्षयम् ॥ श्रीपराशर उवाच इत्युक्तास्ते ततः सर्पाः कुहकास्तक्षकादयः । अदशन्त समस्तेषु गात्रेष्वतिविषोल्बणाः ॥ स त्वासक्तमतिः कृष्णे दश्यमानो महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसुस्थितः ॥ सर्पा ऊचुः द्रंष्ट्रा विशीर्णा मणयः स्फुतन्ति फणेषु तापो हृदयेषु कम्पः । नास्य त्वचः स्वल्पमपीह भिन्नं प्रशाधि दैत्येश्वर कार्यमन्यत् ॥ हिरण्यकशिपुरुवाच हे दिग्गजाः सङ्कटदन्तमिश्रा घ्नतैनमस्मद्रिपुपक्षभीन्नम् तज्जा विनाशाय भवन्ति तस्य यथाहणेः प्रज्वलितो हुताशः ॥ श्री पराशर उवाच ततः स दिग्गजैर्बालो भूभृच्छिखरसन्निभैः । पातितो धरणीपृष्ठे विषाणैर्वावपीडितः ॥ स्मरस्तस्य गोविन्दमिभदन्ताः सहस्त्रशः । शीर्णा वक्षःस्थलं प्राप्य स प्राह पितरं ततः ॥ दन्ता गजानां कुलिशाग्रनिष्ठुराः शीर्णा यदैते न बलं ममैतत् । महीविपत्तापविनाशनोऽयं जनार्दनानुस्मरणानुभावः ॥ हिरण्यकशिपुरुवाच ज्वाल्यतामसुरा वह्निरपसर्पत दिग्गजाः । वायो समेधयाग्नि त्वं दह्यतामेष पापकृत् ॥ श्रीपराशर उवाच पहाकाष्ठचयस्थं तमसुरेन्द्रसुतं ततः । प्रज्वाल्य दानवा वह्निं ददहुः स्वामिनोदिताः ॥ प्रह्लाद उवाच तातैष वह्निः पवनेरितोऽपि न मां दहत्यत्र समन्ततौऽहम् । पश्यामि पद्मास्तरणास्तृताति शीतानि सर्वाणि दिशाम्मुखानि ॥ श्रीपराशर उवाच अथ दैत्येश्वर प्रोचुर्भार्गवस्यात्मजा द्विजाः । पुरोहिता महात्मानः साम्ना संस्तूय वाग्मिनः ॥ पुरोहिता ऊचुः राजन्नियम्यतां कोपो बालेऽपि तनये निजे । कोपो देवनिकायेषु तेषु ते सफलो यतः ॥ ततः परोहितैरुक्तो हिरणयकशिपुः स्वकैः तथातथैनं बालं ते शासितारो वयं नृप । यथा बिलक्षनाशाय विनीतस्ते भविष्यति ॥ बालत्वं सर्वदोषाणां दैत्यराजास्पदं यतः । ततोऽत्र कोपमत्यर्थं योक्तुमर्हसि नार्भके ॥ न त्यक्ष्यति हरेः पक्षमस्माकं वचनाद्यदि । ततः कृत्यां वधायास्य करिष्यामोंऽनिवर्त्तिनीम् ॥ श्रीपराशर उवाच एवमभ्यर्थितस्तैस्तु दैत्यराजः पुरोहितैः । दैत्यैर्निष्कासयामास पुत्रं पावकसञ्चयात् ॥ ततो गुरुगृहे बालः स वसन्बालदानवान् । अध्यापयामास मुहुरुपदेशान्तरे गुरोः ॥ प्रह्लाद उवाच श्रूयतां परमार्थो मे दैतेया दितिजात्मजाः । न चान्यथैतन्मन्तव्यं नात्र लोभादिकारणम् ॥ जन्म बाल्यं ततः सर्वो जन्तुः प्राप्नोति यौवनम् । अव्याहतैव भवति ततोऽनुदिवसं जरा ॥ ततश्च मृत्युमभ्येति जन्तुर्दैत्येश्वरात्मजाः । प्रत्यक्षं दृश्यते चैतदस्माकं भवतां तथा ॥ मृतस्य च पुनर्जन्म भवत्येतच्च नान्यथा । आगमोऽयं तथा यच्च नोपादानं विनोद्भवः ॥ गर्भवासादि यावत्तु पुनर्जन्मोपपादनम् । समस्तावस्थकं तावद्दुःखमेवावगम्यताम् ॥ क्षुत्तृष्णोपशमं तद्वच्छीताद्युपशमं सुखम् । मन्यते बालबुद्धित्वाद्दुःखमेव हि तत्पुनः ॥ अत्यन्तस्तिमिताङगानां व्यायामेन सुखैषिणाम् । भ्रान्तिज्ञानावृताक्षाणां दुःखमेव सुखायते ॥ क शरीरमशेषाणां श्लेष्मादीनां महाचयः । क कान्तिशोभासौन्दर्यरमणायादयो गुणाः ॥ मांसासृक्पूयविमूत्रस्नायुमञ्जास्थिसंहतौ । देहे चेत्प्रीतिमान् मूढो भविता नरकेऽप्यसौ ॥ अग्नेःशीतेन तोयस्य तृषा भक्तस्य च क्षुधा । क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥ करोति हे दैत्यसुता यावन्मात्रं परिग्रहम् । तावन्मात्रं स एवास्य दुःखं चेतसि यच्छति ॥ यावतः कुरुते जन्तुःसम्बन्धान्मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते हृदये शोकशङकवः । यद्यदगृहे तन्मनसि यत्र तत्रावतिष्ठतः । नाशादाहोपकरणं तस्य तत्रैव तिष्ठति ॥ जन्मन्यत्र महद्दुःखं म्रियमाणास्य चापि तत् । यातनासु यमस्योग्रं गर्भसङक्रमणेषु च ॥ गर्भेषु सुखलेशोऽपि भवद्भिरनुमीयते । यदि तत्कथ्यतामेवं सर्वं दुःखमयं जगत् ॥ तदेवमतिदुःखानामस्पदेऽत्र भवार्णवे । भवतां कथ्यते सत्यं विष्णुरेकः परायणः ॥ मा जानीत वयं बाला देही देहेषु शाश्वतः । जरायौवनजन्माद्या धर्मा देहस्य नात्मनः ॥ बालोऽहं तावदिच्छातो यतिष्ये श्रेयसे युवा । युवाहं वार्द्धके प्राप्ते करिष्याम्यात्मनो हितम् ॥ वृद्धोऽहं मम कार्याणि समस्तानि न गोचरे । किं करिष्यामि मन्दात्मा समर्थेन न यत्कृतम् ॥ एवं दुराशया क्षिप्तमानसः पुरुषः सदा । श्रेयसोऽभिमुखं याति न कदाचित्पिपासितः ॥ बाल्ये क्रीड़नकासक्ता यौवने विषयोन्मुखाः । अज्ञा नयन्त्यशक्त्या च वार्द्धकं समुपस्थितम् ॥ तस्माद्बाल्ये विवेकात्मा यतेत श्रेयसे सदा । बाल्ययौवनवृद्धाद्यैर्देहभावैरसंयुतः ॥ तदेतद्वो मयाख्यातं यदि जानीत नानृतम् । तदस्मत्प्रीतये विष्णुः स्मर्यतां बन्धमुक्तिदः ॥ प्रयासःस्मरणे कोऽस्य स्मृतो यच्छति शोभनम् । पापक्षयश्च भवति स्मरतां तमहर्निशम् ॥ सर्वभूतस्थिते तस्मिन्मतिर्मैत्री दिवानिशम् । भवतां जायतामेवं सर्वक्लेशान्प्रहास्यथ ॥ तापत्रेयणाभिहतं यदेतदखिलं जगत् । तदा शोच्येषु भूतेषु द्वेषं प्राज्ञः करोति कः ॥ अथ भद्राणि भूतानि हीनशक्तिरहं परम् । मुदं तदापि कुर्वीत हानिद्वेषफलं यतः ॥ बद्धवैराणि भूतानि द्वेषं कुर्वन्ति चेत्ततः । सुशोच्यान्यतिमोहेन व्याप्तानीति मनीषिणाम् ॥ एते भिन्नदृशां दैत्या विकल्पाः कथिता मया । कृत्वाभ्युपगमं तत्र संक्षेप श्रूयतां मम ॥ विस्तारः सर्वभूतस्य विष्णोः सर्वमिदं जगत् । द्रष्टव्यमात्मवत्तस्मादभेदेन विचक्षणैः ॥ समुत्सृज्यासुरं भावं तस्माद्यूयं तथा वयम् । तथा यत्नं करिष्यामो यथा प्राप्स्याम निर्वृतिम् ॥ या नाग्निना न चार्केण नेन्दुना च न वायुना । पर्जन्यवरुणाभ्यां वा न सिद्धैर्न च राक्षसैः ॥ न यक्षैन च दैत्येन्द्रैर्नोरगैर्न च किन्नरैः । न मनुष्यैर्न पशुभिर्दोषैर्नैवात्मसम्भवैः ॥ ज्वाक्षिरोगातीसारप्लीहगुल्मादिकैस्तथा । द्वेषेर्ष्यामत्सराद्यैर्वा रीगलोभादिभिः क्षयम् ॥ न चान्यैर्नीयते कैश्चिन्नित्या यात्यान्तनिर्मला । तामाप्नोत्यमले न्यस्य केशवे हृदयं नरः ॥ असारसंसारविवर्तनेषु मा यात तोषं प्रसभं ब्रवीमि । सर्वत्र दैत्यास्समतामुपेत समत्वमाराधनमच्युतस्य ॥ तस्मिन्प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते । समाश्रिताद्ब्रह्मतरोरनन्तान्निःसंशयं प्राप्स्यथ वै महत्फलम् ॥ ॥ ॐ नमः भगवते वासुदेवाये ॥ श्रीपरीशर उवाच तस्यैतां दानवाश्चेष्टां दृष्ट्वा दैत्यपतेर्भयात् । आचचक्षुः स चोवाच सूदानाहूय सत्वरः ॥ हिरण्यकशिपुरुवाच हे सूदा मम पुत्रोऽसावन्येषामपि दुर्मतिः । कुमार्गदेशिको दुष्टो हन्यतामविलम्बितम् ॥ हालाहलं विषं तस्य सर्वभक्षेषु दीयताम् । अविज्ञातमसौ पापो हन्यतां मा विचार्यताम् ॥ श्री पराशर उवाच ते तथैव ततश्चक्रुः प्रह्लादाय महात्मने । विषदानं यथाज्ञप्तं पित्रा तस्य महात्मनः ॥ हालाहलं विषं घोरमनन्तोच्चारणेन सः । अभिमन्त्र्य सहान्नेन मैत्रेय बुभुजे तदा ॥ अविकारं स तद्भुक्तवा प्रह्लादः स्वस्थमानसः । अनन्तख्यातिनिर्वीर्य जरयामास तद्विषम् ॥ ततः सूदा भयत्रस्ता जीर्णा दृष्ट्वा महद्विषम् । दैत्येश्वरमुपागम्य प्रणिपत्येदमब्रुवन् ॥ सूदा ऊचुः दैत्यराज विषं दत्तमस्माभिरतिभीषणम् । जीर्ण तेन सहान्नेन प्रह्लादेन सुतेन ते ॥ हिरण्यकशिपुरुवाच त्वर्यतां त्वर्यतां हे हे सद्यो दैत्यपुरोहिताः । कृत्यां तस्य विनाशाय उत्पाद्यत मा चिरम् ॥ श्रीपराशर उवाच सकाशमागम्य ततः प्रह्लादस्य पुरोहिताः । सामपूर्वमथोचुस्ते प्रह्लादं विनयान्वितम् ॥ पुरोहिता ऊचुः जातस्त्रैलोक्यविख्यात आयुष्मन्ब्रह्मणःकुले । दैत्यराजस्य तनयो हिरण्यकशिपोर्भवान् ॥ किं देवैः किमनन्तेन किमन्येन तवाश्रयः । पिता ते सर्वलोकानां त्वं तथैव भविष्यसि ॥ तस्मात्परित्यजैनां त्वं विपक्षस्तवसंहिताम् । श्र्लाघ्यः पिता समस्तानां गुरुणां परमो गुरुः ॥ प्रह्लाद उवाच एवमेतन्महाभागाः श्र्लाघ्यमेतन्महाकुलम् । मरीचेःसकलेऽप्यस्मिन् त्रैलोक्ये नान्यथावदेत् ॥ पिता च मम सर्वस्मि़ञ्जगत्युत्कृष्टचेष्टितः । एतदप्यवगच्छामि सत्यमत्रापि नानृतम् ॥ गुरुणामपि सर्वेषां पिता परमको गुरुः । यदुक्तं भ्रान्तिस्तत्रापि स्वल्पापि हि न विद्यते ॥ पिता गुरुर्न सन्देहः पूजनीयः प्रयत्नतः । तत्रापि नापराध्यामीत्येवं मनसि मे स्थितम् ॥ यत्त्वेतत्किमनन्तेनेत्युक्तं युष्माभिरीदृशम् । को ब्रवीति यथान्याय्यं किं तु नैतद्वचोऽर्थवत् ॥ इत्युक्त्वा सोऽभवन्मौनी तेषां गौरवयन्त्रितः । प्रहस्य च पुनः प्राह किमनन्तेन साध्विति ॥ साधु भो किमनन्तेन साधु भो गुरवो मम । श्रूयतां यदनन्तेन यदि खेदं न यास्यथ ॥ धर्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः । चतुष्टयमिदं यस्मात्तस्मात्किं किमिदं वचः ॥ मरीचिमिश्रैर्दक्षाद्यैस्तथैवान्यैरनन्ततः । धर्मः प्राप्तस्तथा चान्यैरर्थः कामस्तथापरैः ॥ तत्तत्त्ववेदिनो भूत्वा ज्ञानध्यानसमाधिभिः । अवापुर्मुक्तिमपरे पुरुषा ध्वस्तबन्धनाः ॥ सम्पदैश्वर्यमाहात्म्यज्ञानसन्ततिकर्मणाम् । विमुक्तेश्चैकतो लभ्यं मूलमाराधनं हरेः ॥ यतो धर्मार्थकामाख्यं मुक्तिश्चापि फलं द्विजाः । तेनापि किं किमित्येवमनन्तेन किमुच्यते ॥ किं चापि बहुनोक्तेन भवन्तो गुरवो मम । वदन्तु साधु वासाधु विवेकोऽस्माकमल्पकः ॥ बहुनात्र किमुक्तेन स एव जगतः पतिः । स कर्ता च विकर्ता स संहर्ता च हृदि स्थितः ॥ स भोक्ता भोज्यमप्येवं स एव जगदीश्वरः । भवद्भिरेतत्क्षन्तव्यं बाल्यादुक्तं तु यन्मया ॥ पुरोहिता ऊचुः दह्यमानस्त्वमस्माभिरग्निना बाल रक्षितः । भूयो न वक्ष्यसीत्येवं नैव ज्ञातोऽस्यबुद्धिमान् ॥ यदास्माद्वचनान्मोहग्राहं न त्यक्ष्यते भवान् । ततः कृत्या विनाशाय तव सृच्याम दुर्मते ॥ प्रह्लाद उवाच कः केन हन्यते जन्तुर्जन्तुः कः केन रक्ष्यते । हन्ति रक्षति चैवात्मा ह्यसत्साधु समाचरन् ॥ कर्मणा जायते सर्वं कर्मैव गतिसाधनम् । तस्मात्सर्वप्रयत्नेन साधुकर्म समाचरत् ॥ श्रीपराशर उवाच इत्युक्तास्तेन ते क्रुद्धा दैत्यराजपुरोहिताः । कृत्यामुत्पादयामासुर्ज्वालामालोज्ज्वलाकृतिम् ॥ अतिभीमा समागम्य पादन्यासक्षतक्षितिः । शूलेन साधु सङ्क्रुद्धा तं जघानाशु वक्षसि ॥ तत्तस्य हृदयं प्राप्य शूलं बालस्य दीप्तिमत् । जगाम खण्डितं भूमौ तत्रापि शतघा गतम् ॥ यत्रानपायी भगवान् हृद्यास्ते हरिरीश्वरः । भङ्गो भवति वज्रस्य तत्र शूलस्य का कथा ॥ अपापे तत्र पापैश्च पातिता दैत्ययाजकैः । तानेव सा जघानाशु कृत्या नाशं जगाम च ॥ कृत्यया दह्यमानांस्तान्विलोक्य स महामतिः । त्राहि कृष्णेत्यनन्तेति वदन्नभ्यवपद्यत ॥ प्रह्लाद उवाच सर्वव्यापिन् जगद्रूप जगत्स्रष्टर्जनार्दन । पाहि विप्रानिमानस्माद्दुःसहान्मन्त्रपावकात् ॥ यथा सर्वेषु भूतेषु सर्वव्यापी जगदगुरुः । विष्णुरेव तथा सर्वे जीवन्त्वेते पुरोहिताः ॥ यथा सर्वगतं विष्णुं मन्यमानोऽनपायिनम् । चिन्तयाम्यरिपक्षेऽपि जीवन्त्वेते पुरोहिता- ॥ ये हन्तुमागता दत्तं यैर्विषं यैर्हुताशनः । यैर्दिग्गजैरहं क्षुण्णो द्रष्टः सर्पश्च यैरपि ॥ तेष्वहं मित्रभावेन समः पापोऽस्मि न क्वचित् । यथा तनाद्य सत्येन जीवन्त्वसुरयाजकाः ॥ श्रीपराशर उवाच इत्युक्तास्तेन ते सर्वे संस्पृष्टाश्च निरामयाः । समुत्तस्थुर्द्विजा भूयस्तमूचुः प्रश्रयान्वितम् ॥ पुरोहिता ऊचुः दीर्घायुरप्रतिहतो बलवीर्यसमन्वितः । पुत्रपौत्रधनैश्वर्यैर्युक्तो वत्स भवोत्तमः ॥ श्रापराशर उवाच इत्युक्त्वा तं ततो गत्वा यथावृत्तं पुरोहिताः । दैत्यराजाय सकलमाचचक्षुर्महामुने ॥ श्रीपराशर उवाच हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम् । आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम् ॥ हिरण्यकशिपुरुवाच प्रह्लाद सुप्रभावोऽसि किमेतत्ते विचेष्टितम् । एतन्मन्त्रादिजनितमुताहो सहजं तव ॥ श्रीपराशर उवाच एवं पृष्टस्तदा पित्रा प्रह्लादोऽसुरबालकः । प्रणिपत्य पितुः पादाविदं वचनमब्रवीत् ॥ न मन्त्रादिकृतं तात न च नैसर्गिको मम । प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि ॥ अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा । तस्य पापागमस्तात हेत्वभावान्न विद्यते ॥ कर्मणा मनसा वाचा परपीड़ां करोति यः । तद्बीजं जन्म फलति प्रभूतं तस्य चाशुभम् ॥ सोऽहं न पापमिच्छामि न करोमि वादामि वा । चिन्तयन्सर्वभूतस्थमात्मन्यपि च केशवम् ॥ शारीरं मानसं दुःखं दैवं भूतभवं तथा । सर्वत्र शुभचित्तस्य तस्य मे जायते कुतः ॥ एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी । कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम् ॥ श्रीपराशर उवाच इति श्रुत्वा स दैत्येन्द्रः प्रासादशिखरे स्थितः । क्रोधान्धकारितमुखः प्राह दैतेयकिङ्करान् ॥ हिरण्यकशिपुरुवाच दुरात्मा क्षिप्यतामस्मात्प्रसादाच्छतयोजनात् । गिरिपृष्ठे पतत्वस्मिन् शिलाभिन्नाङ्गसंहति ॥ श्रीपराशर उवाच ततस्तं चिक्षिपुः सर्वे बालं दैतेयदानवाः । पपात सोऽप्यघः क्षिपातो हृदयेनोहन्हरिम् ॥ पतमानं जगद्धात्री जगद्धातरि केशवे । भक्तियुक्तं दधारैनमुपसङ्गम्य मेदिनी ॥ ततो विलोक्य तं स्वस्थमविशीर्णास्थिपञ्जरम् । हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम् ॥ हिरण्यकशिपुरुवाच नास्माभिः शक्यते हन्तुमसौ दुर्बुद्धिबालकः । मायां वेत्ति भवांस्तस्मान्माययैनं निषूदय ॥ शम्बर उवाच सूदयामायेव दैत्येन्द्र पश्य मायाबलं मम । सहस्त्रमत्र मायानां पश्य कोटिशतं तथा ॥ श्रीपराशर उवाच ततः स ससृजे मायां प्रह्लादे शम्बरोऽसुरः । विनाशमिच्छन्दुर्बुद्धिः सर्वत्र समदर्शिनि ॥ समाहितमतिर्भूत्या शम्बरेऽपि विमत्सरः । मैत्रेय सोऽपि प्रह्लादः सस्मार मधुसूदनम् ॥ ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम् । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् ॥ तेन मायासहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहमेकैकं च विशोधितम् ॥ संशोषकं तथा वायुं दैत्येन्द्रस्त्विदमब्रवीत् । शीघ्रमेष ममादेशाद् दुरात्मा नीयतां क्षयम् ॥ तथेत्युक्त्वा तु सोऽप्येनं विवेश पवनो लघु । शीतोऽतिरूक्षः शोषाय तद्देहस्यातिदुःसहः ॥ तेनाविष्टमथात्मानं स बुद्ध्वा दैत्यबालकः । हृदयेन महात्मानं दधार धरणीधरम् ॥ हृदयस्थस्ततस्तस्य तं वायुमति भीषणम् । पपौ जनार्दनः क्रुद्धः स ययौ पवनः क्षयम् ॥ क्षीणासु सर्वमायासु पवने च क्षयं गते । जगाम सोऽपि भवनं गुरोरेव महामतिः ॥ अहन्यहन्यथाचार्यो नीतिं राज्यफलप्रदाम् । ग्राहयामास तं बालं राज्ञामुशनसा कृताम् ॥ गृहीतनीतिशास्त्रं तं विनीतं च यदा गुरुः । मेने तदैनं तत्पित्रे कथयामास शिक्षितम् ॥ आचार्य उवाच गृहीतनीतिशास्त्रस्ते पुत्रो दैत्यपते कृतः । प्रह्लादस्तत्त्वतो वेत्ति भार्गवेण यदीरितम् ॥ हिरण्यकशिपुरुवाच मुत्रेषु वर्तेत कथमरिवर्गेषु भूपतिः । प्रह्लाद त्रिषु लोकेषु मध्यस्थेषु कथं चदेत् ॥ कथं मन्त्रिष्वमात्येषु बाह्येष्वाभ्यन्तरेषु च । चारेषु पौरवर्गेषु शङ्कितेष्वितरेषु च ॥ कृत्याकृत्यविधानश्च दुर्गाटविकसाधनम् । प्रह्लाद कथ्यतां सम्यक् तथा कण्टकशोधनम् ॥ एतच्चान्यच्च सकलमधीतं भवता यथा । कथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम् ॥ श्रीपराशर उवाच प्रणिपत्य पितुः पादौ तदा प्रश्रयभूषणः । प्रह्लादः प्राह दैत्येन्द्रं कृताञ्जलिपुटस्तथा ॥ प्रह्लाद उवाच ममोपदिष्टं सकलं गुरुणा नात्र संशयः । गृहीतन्तु मया किन्तु न सदेतन्मतम्मम ॥ साम चोपप्रदानं च भेददण्डौ तथापरौ । उपायाः कथिताः सर्वे मित्रादीनां च साधने ॥ तानेवाहं न पश्यामि मित्रादींस्तात मा क्रुधः । साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ॥ सर्वभूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥ त्वय्यस्ति भगवान् विष्णुर्मति चान्यत्र चास्ति सः । यतस्ततोऽयं मित्र मे शत्रुश्चेति पृथक्कुतः ॥ तदेभिरलमत्यर्थं दुष्टारम्भोक्तिविस्तरैः । अविद्यान्तर्गतैर्यत्नः कर्त्तव्यस्तात शोभने ॥ विद्याबुद्धिरविद्यायामज्ञानात्तात जायते । बालोऽग्नि किं न खद्योतमसुरेश्वर मन्यते ॥ तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ तदेतदवगम्याहमसारं सारमुत्तमम् । निशामय महाभाग प्रणिपत्य ब्रवीमि ते ॥ न चिन्तयति को राज्यं को धनं नाभिवाञ्छति । तथापि भावमेवैतदुभयं प्राप्यते नरैः ॥ सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः । तथापि पुंसां भाग्याति नोद्यमा भूतिहेतवः ॥ जड़ानामविवेकानामशूराणामपि प्रभो । भाग्यभोच्यानि राज्यानि सन्त्यनीतिमतामपि ॥ तस्माद्यतेत पुण्येषु य इच्छेन्महतीं श्रियम् । यतितव्यं समत्वे च निर्वाणमपि चेच्छता ॥ देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः । रुपमेतदनन्तस्य विष्णोर्भिन्नमिव स्थितम् ॥ एतद्विजानता सर्व जगत्स्थावरजङ्गमम् । द्रष्टव्यमात्मवद्विष्णुर्यतोऽयं विश्वरुपधृक् ॥ एवं ज्ञाते स भगवाननादिः परमेश्वरः । प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने क्लेशसंक्षयः ॥ श्रीपराशर उवाच एतच्छ्रुत्वा तु कोपेन समुत्थाय वरासनात् । हिरण्यकशिपुः पुत्रं पदा वक्षस्यताङयत् ॥ उवाच च स कोपेन सामर्षः प्रज्वलन्निव । निष्पिष्य पाणिना पाणि हन्तुकामो जगद्यथा ॥ हिरण्यकशिपुरुवाच हे विप्रचित्ते हे रारो हे बलैष महार्णवे । नागपाशैर्दृढैर्बद्ध्वा क्षिप्यतां मा विलम्ब्यताम् ॥ अन्यथा सकला लोकास्तथा दैतेयदानवाः । अनुयास्यन्ति मूढस्य मतमस्य दुरात्मनः ॥ बहुशो वारितोऽस्माभिरयं पापस्तथाप्यरेः । स्तुतिं करोति दुष्टानां वध एवोपकारकः ॥ श्रीपराशर उवाच ततस्ते सत्वरा दैत्या बद्ध्वातं नागबन्धनैः । भर्तुराज्ञां पुरस्कृत्य चिक्षिपुः सलिलार्णवे ॥ ततश्चचाल चलता प्रह्लादेन महार्णवः । उद्वेलोऽभूत्परं क्षोभमुपेत्य च समन्ततः ॥ भूर्लोकमखिलं दृष्ट्वा प्लाव्यमानो महाम्भसा । हिरण्यकशिपुर्दैत्यानिदमाह महामते ॥ हिरण्यकशिपुरुवाच दैतेयाः सकलैः शैलैरत्रैव वरुणालये । निश्छिद्रैः सर्वशः सर्वैश्चीयतामेष दुर्मतिः ॥ नाग्निर्दहति नैवायं शस्त्रैश्छिन्नो न चोरगैः । क्षयं नीतो न वातेन न विषेण न कृत्यया ॥ न मायाभिर्न चैवोच्चात्पातितो न च दिग्गजैः । बालोऽतिदुष्टचित्तोऽयं नानेनार्तोऽस्ति जीवता ॥ तदेष तोयमध्ये तु समाक्रान्तो महीधरैः । तिष्ठत्वब्दसहस्रान्तं प्राणान्हास्यति दुर्मतिः ॥ ततो दैत्या दानवाश्च पर्वतैस्तं महोदधौ । आक्रम्य चयनो चक्रुर्योजनानि सहस्रशः ॥ स चितः पर्वतैरन्तः समुद्रस्य महामतिः तुष्टावाह्निकवेलायामेकाग्रमतिरच्युतम् ॥ प्रह्लाद उवाच नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम । नमस्ते सर्वलोकात्मन्नमस्ते तिग्मचक्रिणे ॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः । रूद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥ देवा यक्षासुराः सिद्धा नागा गन्धर्वकिन्नराः । पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा ॥ पक्षिणः स्थावराश्चैव पिपीलिकसरीसृपाः । भूस्यापोऽग्निर्नभो वायुः शब्दः स्पर्शस्तथा रसः ॥ रूपं गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः । एतेषां परमार्थश्च सर्वमेतत्त्वमच्युत ॥ विद्याविद्ये भवान्सत्यमसत्यं त्वं विषामृते । प्रवृत्तं च नुवृत्तं च कर्म वेदोदितं भवान् ॥ समस्तकर्मभोक्ता च कर्मोपकरणानि च । त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत् ॥ मय्यन्यत्र तथान्येषु भूतेषु भुवनेषु च । तवैव व्याप्तिरैश्वर्यगुणसंसूचिकी प्रभो ॥ त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च याजकाः । हव्यकव्यभिगेकस्त्वं पितृदेवस्वरूपधृक् ॥ रूपं महत्त स्थितमत्र विश्वं ततश्च सूक्ष्मं जगदेतदीश । रूपाणि सर्वाणि चाभूतभेदास्तेष्वन्तरात्माख्यमतीव सूक्ष्मम् ॥ तस्माच्च सूक्ष्मादि विशेषणानामगोचरे यत्परमात्मरूपम् । किमप्यचिन्त्यं तव रूपमस्ति तस्मै नमसते पुरुषोत्तमाय ॥ सर्वभूतेषु सर्वात्मन्या शक्तिरपरा तव । गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर ॥ यातीतगोचरा वाचां मनसां चाविशेषणा । ज्ञानिज्ञानपरिच्छेद्या तां वन्दे स्वेश्वरीं पराम् ॥ ॐ नमो वासुदेवाय तस्मै भगवते सदा । व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोऽखिलस्य यः ॥ नमस्तस्मै नमसतस्मै नमस्तस्मै महात्मने । नाम रूपं न यस्यैको योऽस्तित्वेनोपलभ्यते ॥ यस्यावतारूपाणि समर्चन्ति दिवौकसः । अपश्यन्तः परं रूपं नमस्तस्मै महात्मने ॥ योऽन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम् । तं सर्वसाक्षिणं विश्वं नमस्ये परमेश्वरम् ॥ नमोऽस्तु विष्णवे तस्मै यस्याभिन्नमिदं जगत् । ध्येयः स जगतामाद्यः स प्रसीदतु मेऽव्ययः ॥ यत्रोतमेतत्प्रोतं च विश्वमक्षरमव्ययम् । आधारभूतः सर्वस्य स प्रसीदतु मे हरिः ॥ ॐ नमो विष्णवे तस्मै नमस्तस्मै पुनः पुनः । यत्र सर्वं यतः सर्वं यः सर्वं सर्वसंश्रयः ॥ सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तः सर्वमहं सर्वं मयि सर्वं सनातने ॥ अहमेवाक्षयो नित्यः परमात्मात्मसंश्रयः छ ब्रह्मसंज्ञोऽहमेवाग्रे तथान्ते च परः पुमान् ॥ श्री पराशर उवाच एवं सञ्चिन्तयन्विष्णुमभेदेनात्मनो द्विज । तन्मयत्वमवाप्यग्रूयं मेने चात्मानमच्युतम् ॥ विसस्मार तथात्मानं नान्यत्किञ्चिदजानत । अहमेवाव्ययोऽनन्तः परमात्मेत्यचिन्तयत् ॥ तस्य तद्भावनायोगात्क्षीणपापस्य वै क्रमात् । शुद्धेऽन्तःकरणे विष्णुस्तस्थौ ज्ञानमयोऽच्युतः ॥ योगप्रभावात्प्रह्लादे जाते विष्णुमयेऽसुरे । चलत्युरगलन्धैस्तैस्तैर्मैत्रेय त्रुटितं क्षणात् ॥ भ्रान्तग्राहगणः सोर्मिर्ययौ क्षोभं महार्णवः । चचाल च मही सर्वा सशैलवनकानना ॥ स च तं शैलसङ्गातं दैत्यैर्न्यस्तमथोपरि । उत्क्षिप्य तस्मात्सलिलान्निश्चक्राम महामतिः ॥ दृष्ट्वा च स जगद्भूयो गगनाद्युपलक्षणम् । प्रह्लादोऽस्मीति सस्मार पुनरात्मानमात्मनि ॥ तुष्टाव च पुनर्धीमाननादिं पुरुषोत्तमम् । एकाग्रमतिरव्यग्रो यतवाक्कायमानसः ॥ प्रह्लाद उवाच ॐ नमः परमार्थार्थ स्थूलसूक्ष्म क्षराक्षर । व्यक्ताव्यक्त कलातीत सकलेश निरञ्जन ॥ गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थित । मूर्तामूर्तमहामूर्ते सूक्ष्ममूर्ते स्फुटास्फुट ॥ करालसोम्यरुपात्मन्विद्याविद्यामयाच्युत । सदसद्रूपसद्भाव सदसद्भावभावन ॥ नित्यानित्यप्रपञ्चात्मन्निष्प्रपञ्चामलाश्रित । एकानेक नमस्तुभ्यं वासुदेवादिकारण ॥ यः स्थूलसूक्ष्मः प्रकटप्रकाशो यः सर्वभूतो न च सर्वभूतः । विश्वं यतश्चैतदविश्वहेतोर्नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ श्रीपराशर उवाच तस्य तच्चेतसो देवः स्तुतिमित्थं प्रकुर्वतः । आविर्बभूव भगवान् पीताम्बरधरो हरिः ॥ ससम्भ्रमस्तमालोक्य समुत्थायाकुलाक्षरम् । नमोऽस्तु विष्मवेत्येतद् व्याजाहारासकृद् द्विज ॥ प्रह्लाद उवाच देव प्रपन्नार्तिहर प्रसादं कुरु केशव । अवलोकनदानेन भूयो मां पावयाच्युत ॥ श्रीभगवानुवाच कुर्वतस्ते प्रसन्नोऽहं भक्तिमव्याभिचारिणीम् । यथाभिलषितो मत्तः प्रह्लाद व्रियतां वरः ॥ प्रह्लाद उवाच नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि ॥ या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥ श्रीभगवानुवार मयि भक्तिस्तवास्त्येव भूयोऽप्येवं भविष्यति । वरस्तु मत्तः प्रह्लाद व्रियतां यस्तवेप्सितः ॥ प्रह्लाद उवाच मयि द्वेषानुबन्धोऽभूत्संस्तुतावुद्यते तव । मत्पितुस्तत्कृतं पापं देव तस्य प्रणश्यतु ॥ शस्त्राणि पातितान्यङ्गे क्षिप्तो यच्चाग्निसंहतौ । दंशितश्चोरगैर्दत्तं यद्विषं मम भोजने ॥ बद्ध्वा समुद्रे यत्क्षिप्तो यच्चितोऽस्मि शिलोच्चयैः । अन्यानि चाप्यसाधूनि यानि पित्रा कृतानि मे ॥ त्वयि भक्तिमतो द्वेषादघं तत्सम्भवं च यत् । त्वत्प्रसादात्प्रभो सद्यस्तेन मुच्येत मे पिता ॥ श्रीभगवानुवाच प्रह्लाद सर्वमेतत्ते मत्प्रसादाद्भविष्यति । अन्यच्च ते वरं दद्मि व्रियतामसुरात्मज ॥ प्रह्लाद उवाच कृतकृक्योऽस्मि भगवन्वेणानेन यत्त्वयि । भवित्री त्वत्प्रसादेव भक्तिरव्यभिचारिणी ॥ धर्मार्थकामैः किं तस्य मुक्तिस्तस्य करे स्थिता । समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि ॥ श्रीभगवानुवाच यथा ते निश्चलं चेतो मयि भक्तिसमन्वितम् । तथा त्वं मत्प्रसादेन निर्वाणम्परमाप्स्यसि ॥ श्रीपराशर उवाच इत्युक्त्वान्तर्दधे विष्णुस्तस्य मैत्रेय पश्यतः । स चापि पुनरागम्य ववन्दे चरणौ पितुः ॥ तं पिता मूर्ध्न्युपाघ्राय परष्विज्य च पीड़ितम् । जीवसीत्याह वत्येति बाष्पार्द्रनयने द्विज ॥ प्रीतिमांश्चाभवत्तस्मिन्ननुतापी महासुरः । गुरुपित्रोश्चकारैवं शुश्रूषां सोऽपि धर्मवित् ॥ पितर्युपरतिं नीते नरसिंहस्वरूपिणा । विष्णुना सोऽपि दैत्यानां मैत्रेयाभूत्पतिस्ततः ॥ ततो राज्यद्युतिं प्राप्य कर्मशुद्धिकरीं द्विज । पुत्रपौत्रांश्च सुबुहूनवाप्यैश्वर्यमेव च ॥ क्षीणाधिकारः स यदा पुण्यपापविवर्जितः । तदा स भगनद्धयानात्परं निर्वाणमाप्तवान् ॥ एवंप्रभावो दैत्योऽसौ मैत्रेयासिन्महामतिः । प्रह्लादो भगवद्भक्तो यं त्वं मामनुपृच्छसि ॥ यस्त्वेतच्चरितं तस्य प्रह्लादस्य महात्मनः । शृणोति तस्य पापानि सद्यो गच्छन्ति सङ्क्षयम् ॥ अहोरात्रकृतं पापं प्रह्लादचरितं नरः । शृणवन् पठंश्च मैत्रेय व्यपोहति न संशयः ॥ पौर्णमास्याममावास्यामष्टम्यामथ वा पठन् । द्वादश्यां वा तदाप्नोत गोप्रदानफलं द्विज ॥ प्रह्लादं सकलापत्सु यथा रक्षितवान्हरिः । तथा रक्षति यस्तस्य शृणोति चरितं सदा ॥ ॥ ॐ नमः भगवते वासुदेवाये ॥