पृष्ठम्:नवरात्रप्रदीपः.djvu/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
नवरात्रपदीपे-

विद्धा तु सूर्योपलक्षिते काले त्रिमुहूर्त्ततिथ्यन्तर युक्ता साऽपि द्विविधा पूर्वोत्तरतिथियोगात् । तदाह

पैठीनसिः--

 पक्षद्वयेऽपि तेिथयस्तिथिं पूर्वां तथोत्तराम् ।
 त्रिभिर्मुहूर्त्तैविध्यन्ति सामान्योऽयं विधिः स्मृतः ।।इति

तेनाऽयमर्थः--यदोदयोत्तरकालं पूर्वेद्युस्त्रिमुहूर्ता अमावस्या उपरिष्टात्सर्वाऽपि प्रतिपत्, तदा सा अमाविद्धेत्युच्यते । यदा पुनः परेद्युरस्तमयात्प्राक् त्रिमुहूर्त्तात् द्वितीया तदधस्ताच्च प्रतिपदेव सा द्वितीयाविद्धेत्युच्यते। एवममाद्वितीयाविद्धयोर्द्दिनद्वयवर्तिन्योःप्रतिपदोर्मध्ये कतरा ग्राह्येति तत्र सामान्यविशेषाभ्यां निर्णयः । सामान्यतस्तावन्निगमवाक्येन प्रतिपद्यप्यमावास्यातिथ्योर्युग्मं महाफलम् ।इति । पैठीनसिस्कन्दव्यासा अप्याहुः--

प्रतिपन्नवमी चैत्र कर्तव्या सम्मुखी तिथिः ।
सम्मुखी नाम सायाह्नव्यापिनी दृश्यते यदा ।
प्रतिपत्सम्मुखी कार्या या भवेदापराह्णिकी ।