पृष्ठम्:नवरात्रप्रदीपः.djvu/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
नवरात्रारम्भदिननिर्णयः-

करकङ्कणन्यायेनाऽपलापकौशलमायुष्मताम्। यत्पुनरेतेन तस्य नक्तव्रतत्वादिति वदन्माधवोऽपि प्रत्यादिष्ट इति, तदपि भ्रान्तप्रलपितमेवेत्युपेक्षणीयम्। यत ऋङ्मात्रा नभिरैराधुनिकैश्चतुर्विंशतिशाखपारदृश्वनामार्याणां माधवाचार्याणामधिक्षेपः कलिकालप्राबल्यमाचष्टे।
 तस्य चाश्विनशुक्लप्रतिपद्यारम्भः । तदुक्तं नार दीयपुराणे

आश्विनस्य सिते पक्षे नवरात्रव्रतं शुभम् ।
आदौ प्रतिपदं प्राप्य तिथिं चण्डीमन.प्रियाम् ॥ इति

तथा रुद्रयामलेपि‌--‌‌

 आश्विने मासि सम्प्राप्ते शुक्लपक्षे विधेस्तिथिम् । प्रारभ्य नवरात्रं स्याद् दुर्गा पूज्या तु तत्र वै ॥ इत्यदि । एवं प्रतिपद्यारम्भे सिद्धे विचार्यते, कस्यां प्रति पदि तदारम्भणीयमिति । तत्र हि प्रतिपद्विविधा । शुद्धा विद्धा च । तत्र शुद्धा तावत्सूर्योदयमारभ्य पुनः सूर्योदयपर्यन्तव्यापिनी । तदुक्तं नारदीये — आदित्योदयवेलया आरभ्य षष्टि नाडिकाः । तिथिस्तु सा हि शुद्धा स्यात्सर्वातिथ्यो ह्ययं विधिः॥ इति।