पञ्चसायकः
दिखावट
- कविशेखरेतिबिरुदवता ज्योतिरीश्वरेण विरचितः
- पञ्चसायकः ।
प्रथमः सायकः
[सम्पाद्यताम्]- मङ्गलाचरणम् ।
- रतिपरिमलसिन्धुः कामिनीकेलिबन्धु-
- र्विहितभुवनमोदः सेव्यमानप्रमोदः ।
- जयति मकरकेतुर्मोहनस्यैकहेतु-
- र्विरचितबहुसेवः कामिभिः कामदेवः ॥ १ ॥
- ग्रन्थकर्तुरात्मपरिचयप्रदर्शनम् ।
- अस्ति प्रत्यहमर्थितापहरणप्रीत्यैकदीक्षागुरुः
- श्रीकण्ठार्चनतत्परो भुवि चतुःषष्टेः कलानां निधिः ।
- सङ्गीतागमसत्प्रमेयरचनाचातुर्यचिन्तामणिः
- प्रख्यातः कविशेखराङ्कितपदः श्रीज्योतिरीशः कृती ॥ २ ॥
- दृष्ट्वा मन्मथतन्त्रमीश्वरकृतं वात्स्यायनीयं मतं
- गोणीपुत्रकमूलदेवरचितं बाभ्रव्यवाक्यामृतम् ।
- श्रीनन्दीश्वररन्तिदेवभणितं क्षेमेन्द्रविद्यागमं
- तेनाकल्प्यत पञ्चसायक इति प्रीतिप्रदः कामिनाम् ॥ ३ ॥
- नायकलक्षणम् ।
- साचारः करुणामयः कृतमतिर्दाताऽवदाताशयः
- काम्यः कामकलानिधिः सुवचनः स्त्रीणां मतः सुन्दरः ।
- आढ्यो नीतिपटुः क्षमी च कुतुकी शूरः कुलीनो युवा
- सङ्क्षेपादिह नायको निगदितः सङ्गीतशिक्षान्वितः ॥ ४ ॥
- पीठमर्दलक्षणम् ।
- आचारे विनये नये च सुकृतौ तौर्यत्रिकेऽकृत्रिमः
- शास्त्रे कौतुकशिल्पनाटकविधौ नानाकलाकौशले ।
- ऊहापोहसमस्तनर्मघटने भावेङ्गितज्ञः पटु-
- र्मन्त्रज्ञः स्थिरसौहृदः सुवचनः स्यात्पीठमर्दः सदा ॥ ५ ॥
- पद्मिनीलक्षणम् ।
- सम्पूर्णेन्दुमुखी विलोलनयना पीनस्तनी दक्षिणा
- मृद्वङ्गी विकचारविन्दसुरभिः श्यामाऽथ गौरद्युतिः ।
- अल्पाहाररता विलासकुशला हंसस्वना मानिनी
- लज्जालुर्गुरुदेवपूजनरता सा नायिका पद्मिनी ॥। ६ ॥
- चित्रिणीलक्षणम् ।
- श्यामा पद्ममुखी कुरङ्गनयना क्षामोदरी वत्सला
- सङ्गीतागमवेदिनी वरतनुस्तुङ्गस्तनी शिल्पिनी ।
- विद्यालापरता मतङ्गजगतिर्माद्यन्मयूरस्वना
- विज्ञेया कविशेखरप्रणयिनी चित्रस्वना चित्रिणी ॥ ७ ॥
- शङ्खिनीलक्षणम् ।
- तन्वङ्गी कुटीलेक्षणा लघुकुचाभोगा मदावेशिनी
- प्रायो दीर्घकचा स्वभावपिशुना कष्टोपभोग्या रते ।
- पिङ्गा लोलगतिश्च घर्घररवा रक्ताम्बाराह्लादिनी
- नानास्थाननखप्रदानरसिका सेयं मता शङ्खिनी ॥ ८ ॥
- हस्तिनीलक्षणम् ।
- पीनस्वल्पतनुर्भृशं मृदुगतिः क्रूरा नमत्कन्धरा
- स्तोकापिङ्गलकुन्तला पृथुकुचा लज्जाविहीनानना ।
- बिम्बोष्ठी बहुभोज्यभोजनरुचिः कष्टैकसाध्या रते
- गौराङ्गी करिदानगन्धिमदनस्रावा मता हस्तिनी ॥ ९ ॥
- पद्मिन्यादीनां रतौ सुखकरास्थितयः ।
- ब्रह्मास्येन्दुशराक्षिसङ्ख्यतिथयः ख्याता नलिन्या रते
- पौलस्त्यास्यरसाष्टभास्करतिथौ प्रीता भवेच्चित्रिणी ।
- रुद्रानगतुरङ्गशम्भुतिथिषु स्याच्छङ्खिनी मोदिता
- शेषाः स्युः सुरतोत्सवेषु करिणीजातेः स्त्रियाः प्रीतये ॥ १० ॥
- इति जातिसमुद्देशः ।
- चन्द्रकलानिरूपणम् ।
- अङ्गुष्ठे चरणे नितम्बनिलये जानुद्वये जङ्घयो-
- र्नाभौ वक्षसि कक्षयोर्निगदिता कण्ठे कपोलेऽधरे ।
- नेत्रे कर्णयुगे ललाटफलके मौलौ च वामभ्रुवा-
- मूर्ध्वाधश्चलनक्रमेण कथिता चान्द्री कला पक्षयोः ॥ ११ ॥
- सीमन्ते नयनेऽधरे च गलके कक्षातटे चूचुके
- नाभौ श्रोणितटे मनोभवगृहे जङ्घातटोरुद्वये ।
- गुल्फे पादतले तदङ्गुलितलेऽङ्गुष्ठे च तिष्ठत्यसौ
- वृद्धिक्षीणतया समं शशिकला लीलाकरी योषिताम् ॥ १२ ॥
- चन्द्रकलायाः प्रदीपनविधिः ।
- मौलौ कुन्तलकर्षणं नयनयोराचुम्बनं गण्डयो-
- र्दन्तेनाधरपीडनं हृदि हतिर्मुष्ट्या च नाभौ शनैः ।
- कक्षाकण्ठकपोलमण्डलकुचश्रोणीषु देया नखाः
- सीमन्ते लिखनं नखैरुरसिजौ गृह्णीत गाढं ततः ॥ १३ ॥
- कुर्वीताविरतं मनोभवगृहे मातङ्गलीलायितं
- जान्वङ्गुष्ठपदोरुगुल्फकलनं ह्यन्योन्यतः कामिनोः ।
- इत्येवं कथितं प्रदेशकलनादिन्दोः कलादीपनं
- कर्तव्यं च नरैर्न विस्तरभयादुक्तः प्रपञ्चोऽखिलः ॥ १४ ॥
- पद्मिनीचन्द्रकलाप्रदीपनम् ।
- गाढालिङ्गनपूर्वकं कररुहैरालिख्य जङ्घास्थलीं
- दत्त्वा सूक्ष्मनखान्नितम्बफलके पार्श्वे च पृष्ठोदरे ।
- सीत्कारध्वनिजागरूकपुलकामाद्ये दिने पद्मिनी-
- मित्थं चन्द्रकलाविदः स्ववशतां कामं नयेयुः स्त्रियम् ॥ १५ ॥
- आचुम्ब्याधरपल्लवं स्तनमुखे नेत्रालिके पार्श्वयो-
- र्मूर्धान्ते जघनस्थलोरुफलके कृत्वा नखालेखनम् ।
- मर्षन्तो नखरैः पदाम्बुजयुगं सम्यक्कुरङ्गीदृशं
- संसेव्याविरतं प्रबुद्धमदनां कुर्युर्द्वितीयादिने ॥ १६ ॥
- श्लिष्ट्वा गाढतरं निपीड्य च कुचौ पीत्वा च दन्तच्छदं
- वामोरौ करजक्षतं भुजलतामूले विशेषात् पुनः ।
- मायूराङ्घ्रिकमर्धचन्द्रछुरितप्रायान्नखानादरा-
- द्दद्युर्बाह्यरतोपचारचतुराः प्रायश्चतुर्थ्यां तिथौ ॥ १७ ॥
- बिम्बोष्ठं परिचुम्ब्य दक्षिणकरेणाकृष्य केशोच्चयं
- स्वच्छन्देन विमृद्य चूचुकयुगं चुम्बन्प्रियां भावयेत् ।
- आमृश्यात्करजैः सखेलपुलकं भूयो नितम्बस्थलीं
- पञ्चम्यां द्रवतां नयेत्कमलिनीमित्याह वात्स्यायनः ॥ १८ ॥
- चित्रिण्याश्चन्द्रकलाप्रबोधनविधिः ।
- चुम्बित्वाऽलि(ल)कमुन्मदः कररुहैरालिख्य वक्षोजकं
- श्रोणीपृष्ठभुजाङ्घ्रिकर्णजघनस्थानोरुयुग्मस्थलीम् ।
- पाणिभ्यामुपगूहयन् स्वरमणीं कान्तो दशम्यां तिथौ
- कन्दर्पं प्रतिबोध्य चन्द्रकलया कुर्यान्निजां चित्रिणीम् ॥ १९ ॥
- श्लिष्ट्वा कन्धरकन्दलीं भुजलतापाशेन गाढं पुनः
- पायं पायमजस्रमुत्पलदृशां वक्त्रारविन्दसावम् ।
- नाभीकण्ठनितम्बबिम्बनखरव्यापारपारङ्गमैः
- षष्ठ्यां चन्द्रकलाकलापनिपुणैर्देया नखाः सर्वतः ॥ २० ॥
- ग्रीवायां परिरभ्य गाढमसकृन्नाभिं नखैरालिखन्
- दन्तौष्ठेन निपीडयन्कुचतटीं कण्ठे मनाक् ताडयेत् ।
- सानन्दं स्मरमन्दिरे करिकरक्रीडायितं कुर्वता
- नेतव्या तरुणी स्वकीयवशतां चण्डीतिथौ चित्रिणी ॥ २१ ॥
- आलिङ्ग्य प्रसभं कपोलनयनश्रोणीश्रुतीश्चुम्बय-
- न्स्थानेष्वेषु नखप्रदानकुशलो दत्त्वा नखान्निर्दयम् ।
- संदश्याधरपल्लवं क्रमवशादाकृष्य केशान् वशे
- चित्रां संविदधीत सीत्कृतवतीं भानोस्तिथौ नायकः ॥ २२ ॥
- शङ्खिन्याश्चन्द्रकलाप्रदीपनविधिः ।
- कक्षामुल्लसितैर्विलिख्य करजैरालिङ्ग्य दोर्भ्यां मुहु-
- र्गाढं चोरजिसौ निपीड्य सुतरां विष्णोस्तिथौ चन्द्रवित् ।
- आचुम्बेच्च कपोलकण्ठगलकं मृद्गन्नुरोजद्वयं
- कन्दर्पस्य तिथौ नखक्षतिवशाद्द्राक् शङ्खिनीं द्रावयेत् ॥ २३ ॥
- व्यादष्टौष्ठपुटः कपोलनयनश्रोत्रं नखैरालिखन्
- सान्द्रानन्दनिगूढकण्ठवलयां भानोस्तिथौ भामिनीम् ॥ २४ ॥
- आघातं नखरैश्च नाभिचरणग्रीवाकुचोरःस्थले
- कृत्वाऽऽलिख्य च भूतनाथदिवसे कुर्यात्सुधीर्विह्वलाम् ॥ २५ ॥
- हस्तिन्याश्चन्द्रकलाप्रबोधनविधिः ।
- आकण्ठं परिरभ्य दोर्लतिकया निष्पीय वक्त्राम्बुजं
- कक्षान्तःस्तनमण्डलोदरतटीं चञ्चन्नखैरामृशन् ।
- क्षोणीभृत्तनयातिथावथ मुहुः कामालयं संस्पृश-
- न्सन्दश्याधरपल्लवं ग्रहतिथौ कुर्याद्द्रुतां हस्तिनीम् ॥ २६ ॥
- सम्पूर्णेन्दुतिथौ परिक्षयदिने तस्यैव तुल्या तिथि-
- स्तस्यामेव वशीकृता शशिकलासम्बोधनैः कामिनी ।
- कामागारचुचूलिकासु करजैर्दन्तैश्च दन्तच्छदै-
- राश्लेषैः परिचुम्बनैश्च विविधैरित्याह नन्दीश्वरः ॥ २७ ॥
- पद्मिन्यादीनां रतिकालनिरूपणम् ।
- यामिन्याः कथितश्चतुर्थचरणः कालो नलिन्या रते
- प्रारम्भप्रहरे प्रयाति सुखतां चित्रप्रिया चित्रिणी ।
- शङ्खिन्याः समुदीरितः कविवरैर्यामस्तृतीयो रतौ
- मातङ्गी द्रवतामुपैति नितरां नक्तंदिनस्यार्धयोः ॥ २८ ॥
- सुखयति न पुमांसं पद्मिनी क्वापि रात्रौ
- निधुवनमिति तस्यां नैव किञ्चित्प्रयोज्यम् ।
- शिशुरपि यदि कान्तां वासरे तामुपेया-
- द्विकसति रवियोगात्सा हठात्पद्मिनीव ॥ २९ ॥
- नारीणां सत्त्वसमुद्देशः ।
- त्रिवलिवलितमध्या कम्बुकण्ठी विदग्धा
- कमलसुरभिदेहा केतकीगर्भभव्या ।
- शुचिचरितपवित्रा शीलसन्तोषयुक्ता
- सुललितपिकवाणी स्यादियं देवसत्त्वा ॥ ३० ॥
- बहुलचपलदृष्टिर्नृत्यगीतादिदक्षा
- मधुरबहलसुगन्धा पुष्पमालानुरक्ता ।
- शिशिरसुरभिमासक्रीडनप्रेमपात्री
- भवति रुचिरमूर्तिः सैव गन्धर्वसत्त्वा ॥ ३१ ॥
- गुरुकुचयुगभारा गौरदेहा नताङ्गी
- तरुणहरिणनेत्रा कोपना वीतलज्जा ।
- विविधमधुरवाक्या मत्स्यमांसानुरक्ता
- मुनिभिरियमनर्घा यक्षसत्त्वा प्रदिष्टा ॥ ३२ ॥
- गिरिविहरणविज्ञा रात्रिसञ्चारवीरा
- मलिनपिशुनचित्ता कुत्सिताहारचेष्टा ।
- विकृतवदनचन्द्रा कृष्णवर्णाऽतिखर्वा
- मलिनवसनरक्ता कीर्तिता प्रेतसत्त्वा ॥ ३३ ॥
- इति कविशेखरश्रीज्योतिरीश्वरकविरचिते पञ्चसायके जात्यादिसमुद्देशो नाम प्रथमः सायकः ।
द्वितीयः सायकः
[सम्पाद्यताम्]- अथ द्वितीयः सायकः ।
- रतभेदाः ।
- आयामैः परिणाहकैश्च पुरुषाः लिङ्गैर्वराङ्गैः स्त्रियो
- ज्ञातव्याश्च रसगृहारुणसमाख्याताङ्गुलैः सर्वतः ।
- जात्या तेऽपि शशा वृषाश्च तुरगाः प्राज्ञैः स्मृतास्ता पुन-
- र्मृग्यश्चा करिणीति विस्तरभयात्सङ्क्षिप्य निष्कृष्यते ॥ १ ॥
- शशकहरिणपत्न्योर्गोतुरङ्ग्योस्तथैव
- हयगजपतिनार्योरेकरूपं रतं स्यात् ।
- इह भवति नितान्तं प्रीतिरन्योन्ययोगा-
- दनुमरणशक्यं स्त्री कथं स्वीकरोति ॥ २ ॥
- मृगीवृषं चेद्वृषभीतुरङ्गमत्युच्चमेतद्द्वितयं वदन्ति ।
- अश्वाशशं गोकरिणीसमुत्थं नीचद्वयं तुष्टिकरं न यूनोः ॥ ३ ॥
- मृगीहयं हस्तिवधूशशं चेतत्युच्चनीचं सुरतं वदन्ति ।
- प्रमाणभेदेऽपि न द्रवन्ति तस्मिन्न तृप्यन्ति नितम्बवत्यः ॥ ४ ॥
- प्रोक्तरतानामुत्तममध्यमाधमत्वम् ।
- स्त्रीपुंसयोस्तुल्यरतं प्रशस्तं मध्यद्वयं मध्यममामनन्ति ।
- अत्युच्चकं चाप्यतिनीचकं च निन्द्यं रतज्ञैः सुरतं प्रदिष्टम् ॥ ५ ॥
- प्रीतिः समा स्यात्सुरते समाख्ये नीचद्वये योषित एव तुष्टिः ।
- अत्युच्चके वाऽप्यतिनीचके वा तुष्टिर्न पुंसां न च सुन्दरीणाम् ॥ ६ ॥
- वेगभेदात्सुरतभेदाः ।
- प्रचण्डवेगोऽप्यथ मध्यवेगस्तथाऽपरः स्याल्लघुनामधेयः ।
- पुंसस्तरुण्या उभयोरपीह त्रिधा कवीन्द्राः सुरतं वदन्ति ॥ ७ ॥
- इदानीं शशादीनां स्वरूपं निरूप्यते ।
- दीर्घाक्षाः स्थूलदेहा लघुसमदशना लम्बकर्णा सुवाचो
- ग्रीवायां जानुदेशे करकमलतले कालिमानं वहन्तः ।
- अल्पाहाराल्पशौचा दिनमधिशयिनः कान्तिमन्तो बलाढ्याः
- क्रीडावन्तो विनीता लघुतरसुरताः पुण्यभाजः शशाः स्युः ॥ ८ ॥
- सुचारुकेशो मृदुवाक् सुवेशः सुदीर्घकण्ठश्चपलः सुनेत्रः ।
- सुरक्तपाणिः समदन्तपङ्क्तिः सौभाग्ययुक्तः कथितो मृगोऽयम् ॥ ९ ॥
- स्फाराकाराः सदर्पाः सुरतरसकलालम्पटाः सुन्दराङ्गा
- व्यूढोरस्काः सुरूपाः सुसमजठरिणो मांसला लोलनेत्राः ।
- अत्यन्तप्रौढवाचोऽपरिलघुधृतयः क्रोधना मध्यवेगा
- उक्षाणो लिङ्गमीषद्विततनवमितैरङ्गुलीकैर्वहन्ति ॥ १० ॥
- कार्ये धृष्टा बलिष्ठाः सितशमदशनाः पीवरास्या वराक्षा
- ग्रीवाबाहूरुदीर्घाः परहितनिरताः सात्त्विकाः स्निग्धवाचः ।
- निर्लज्जाश्चारुशीलाः पृथुतरगतयश्चण्डसम्भोगरक्ता
- अश्वा लिङ्गं वहन्तो युवतिजनमतं भानुसङ्ख्याङ्गुलीकम् ॥ ११ ॥
- मृग्यादीनां स्वरूपनिरूपणम् ।
- मृद्वङ्गी दीर्घनेत्रा वरबिसलतिकाकोमला दीर्घबाहुः
- शोणाम्भोजाभिरामं वहति करयुगं ह्रस्वमध्या सुकेशी ।
- सुश्रोणीः कम्बुकण्ठी पृथुकुचयुगला या वहत्यङ्गुलीकैः
- षड्भिः कन्दर्पगेहं कथयति हरिणीं तामिह ज्योतिरीशः ॥ १२ ॥
- व्यानिम्नोत्तुङ्गशीर्षा बहुतरकपिशस्थूलकेशप्रचारा
- चञ्चन्नीलाम्बुजाक्षी सुललितवदना तुङ्गवक्षोजभारा ।
- गम्भीरावर्तनाभिर्वलिभिरुपगता श्रोणिभारालसाङ्गी
- सेयं रन्ध्राङ्गुलीकं वहति रतगुहारन्ध्रकं वै तुरङ्गी ॥ १३ ॥
- स्थूलाङ्गी स्थूलगण्डा लघुतरनयना स्थूलनीलाल्पकेशा
- बिम्बौष्ठी पीनबाहुः कठिनगुरुकुचा हीनपर्वाऽतिदुष्टा ।
- निर्लज्जा रासभोक्तिस्तरलितवदना सर्वदा कष्टसाध्या
- निर्दिष्टा हस्तिनीयं वहति रविसमैरङ्गुलैर्गुह्यदेशम् ॥ १४ ॥
- अथ स्त्रीणामवस्थाविशेषाः कथ्यन्ते ।
- षोडशवर्षवयस्कां बालामित्यालपन्ति धीमन्तः ।
- विंशात्तरुणीं त्रिंशात्प्रौढां पञ्चाशतो वृद्धाम् ॥ १५ ॥
- बाला नूतनसङ्गमे रतिकरी सान्द्रान्धकारे भवे-
- दालोके सुखमातनोति तरुणी सम्भोगलीलाविधौ ।
- आलोकेऽपि सुखायते सरभसं प्रौढा तमिस्रेऽङ्गना
- वृद्धा जीवितहारिणी न कुरुते कुत्रापि सौख्यं मनाक् ॥ १६ ॥
- अथ देशविशेषात् स्त्रीस्वरूपं निरूप्यते ।
- रूक्षाङ्गी बहुवर्णिनी चलमतिर्गीतप्रिया चाटुला
- शैलाम्भोनिधिपार्श्वदेशवनिता प्रायो भवेदीदृशी ।
- अम्भोदागमपुष्पमाससमये सेव्या पुनः प्रीणिता
- गुर्वाहारसुगन्धिमाल्यवसनस्निग्धाङ्गरागादिभिः ॥ १७ ॥
- गूढग्रन्थिरहर्निशं हि सकले गात्रे वहप्यच्छता-
- मम्भोजप्रसवारुणोत्तमकरा शीतालयप्रेयसी ।
- सौराष्ट्री च कलिङ्गदेशयुवतिः कामं भवेत्पित्तला
- हेमन्ते शिशिरे नरैरविरतं सेव्या यथाकाङ्क्षया ॥ १८ ॥
- ज्ञेया कोकिलकाकलीकलरवा मेदस्विनी शीतला
- निद्रालुश्च शिरीषकोमलतनुः स्निग्धानना श्लेष्मला ।
- वङ्गश्रीहटकामरूपतरुणी शीतादिना शङ्किता
- गन्तव्या शरदि प्रकृष्टमदना ग्रीष्मे नरैरादृता ॥ १९
- शुचिचरितविचित्रा चित्रसम्भोगमित्रा
- नखदशनविरक्ता शिल्पशिक्षानुरक्ता ।
- स्थिरमतिनिजबन्धुः कामसर्वस्वसिन्धु-
- र्भवति रुचिरवेषा कामिनी मध्यदेशा ॥ २० ॥
- करकुचकरजाताश्लेषविन्यासदक्षा
- सकलसुरतबन्धुर्ज्ञानवैदग्ध्यदक्षा ।
- नलघुनगुरुवेगा प्रायशः कामरक्ता
- रमयति मधुराल्पं सुन्दरी तैरभुक्ती ॥ २१ ॥
- मृदुवचनविभागा कोमलानङ्गभागा
- विगतरमणनी(भी)तिः कोमलानङ्गगीतिः ।
- द्रवति झटिति कान्ता चित्रसम्भोगदक्षा
- रमयति किल कौली कीर्तिता वङ्गीगौडी ॥ २२ ॥
- करतलहतितुष्टा बाह्यसम्भोगहृष्टा
- चिरनिधुवनसाध्या मालवी धूर्तवाक्या ।
- सुखयति सुखवेगा व्यञ्जितानङ्गरागा
- चपलपिशुनशीला स्यादियं चोलबाला ॥ २३ ॥
- कुवलयदलवर्णा चारुताटङ्ककर्णा
- चकितहरिणनेत्रा फुल्लराजीववक्त्रा ।
- लघुनिधुवनरक्ताऽकष्टसम्भोगसक्ता
- सुललितगतिरेषा गुर्जरी चारुवेषा ॥ २४ ॥
- अलसवलितदृष्टिर्दिव्यरूपाङ्गयष्टिः
- कठिनमदनवेगा दुःखसाध्या प्रयोगे ।
- विरमति सुरतान्ते कोपमायाति कान्ते
- विविधपुरुषलोला सैन्धवी दुष्टशीला ॥ २५ ॥
- पुलककरजदात्री दुष्टवाक्याभिधात्री
- विषमसुरतपात्री निश्चितं कालरात्री ।
- इति भवति पुरन्ध्री कोशलावन्तिका स्त्री
- कवलयति रतार्ता श्रूयते पूर्ववार्ता ॥ २६ ॥
- पिकवरमृदुवाचः कोमलाङ्ग्यः सुरम्या
- व्यपगतभयलज्जाः साहसिन्यः स्वतन्त्राः ।
- लघुनिधुवनसाध्याश्चीनसौवीरभेद-
- द्रविडमलयजाताः सुन्दराङ्ग्यस्तरुण्यः ॥ २७ ॥
- सकलसुरतदक्षा सिद्धिसौभाग्यवश्या
- दशनवसनपानप्रीतिभाजः सलज्जाः ।
- करजलिखनदक्षाश्चण्डवेगाभिरम्याः
- कुसुमसुरभयः स्युर्मद्रतैलङ्गनार्यः ॥ २८ ॥
- सुरतसविमर्दप्रेमवत्यः प्रचण्डाः
- करजदशनकेशाश्लेषसञ्ज्ञाविहीनाः ।
- सहजमलिनचित्ताः पौण्ड्रकाम्बोजजाताः
- करतललयतुष्टाः कामरूपाङ्गनाः स्युः ॥ २९ ॥
- गाढं संश्लिष्य कण्ठे लिखति कररुहैः सर्वतः कान्तदेहं
- केशेष्वाकृष्य चुम्बत्यधरमविरतं मुष्टिघातं ददाति ।
- तृप्तिं नो याति शीघ्रं द्रवति न च रते चण्डवेगा प्रगल्भा
- ज्ञातव्या पण्डितेन्द्रैरतिकलितरतिर्लाटकर्णाटनारी ॥ ३० ॥
- दुष्टा दुर्गन्धदेहाः पशुसमसुरताश्चुम्बनश्लेषहीनाः
- सेर्ष्या म्लेच्छाङ्गनाः स्युर्लघुरतनिरताः पार्वतीयाश्च नार्यः ।
- काश्मीराभीरगन्ध्याः सकलरसकलामोददक्षा नितान्तं
- साध्या देशानुसारादिह पटुमतिभिर्योषितः सर्वदैव ॥ ३१ ॥
- जातेस्तत्त्वं समस्तं निखिलशशिकलाबोधनं सत्त्ववृत्तिं
- मृग्यादीनां वशत्वं मदनरसकलाकौतुकं चाप्यशेषम् ।
- इत्थं यः कामिनीनां कलयति चरितं देशसात्म्येन सम्य-
- ग्यावज्जीवं स तस्याः प्रभवति हृदये प्राणनाथः सुखाय ॥ ३२ ॥
- योनिभेदनिरूपणम् ।
- स्पर्शेन पङ्कजसमा तरुणीजनाना-
- मभ्यन्तरे च गुटिकासमदेशका च ।
- योनिर्भवेदथ वलिप्रकारावकीर्णा
- गोजिह्विकासुखरकर्कशगर्भदेशा ॥ ३३ ॥
- अत्युत्तमा प्रकथिता प्रथमा कवीन्द्रै-
- र्मध्या च मध्यमविधा किल सम्प्रदिष्टा ।
- शेषद्वयं मदनकेलिकलारसज्ञै-
- र्निन्द्यं सदैव कथितं सुरतोत्सवेषु ॥ ३४ ॥
- वह्निर्न शान्तिमुपयाति कदाऽपि काष्ठै-
- र्नाम्भोनिधिर्विरमति प्रचुरैः पयोभिः ।
- नाप्यन्तको जगति जन्तुभिरेति तोषं
- वामाऽपि नैव पुरुषैः खलु याति तृप्तिम् ॥ ३५ ॥
- तस्मान्नरेण रतिरङ्गविचक्षणेन
- मायामुपास्य सकलां स्वशरीरसाध्याम् ।
- तासां मनोहरणमेव परं विधेयं
- नो वेद कोऽपि हृदयं खलु कामिनीनाम् ॥ ३६ ॥
- प्रीतिभेदनिरूपणम् ।
- स्रक्चन्दनाम्बरमनोहरभक्ष्यभोज्यै-
- र्नानाविधैरुपचिता विषयैः सदैव ।
- प्रीतिः स्मृता विषयजेति कविप्रवीरैः
- सादृश्ययोगसुभगा कथिता सदैव ॥ ३७ ॥
- आखेटशिल्पसुरपूजनकेलिरङ्ग-
- सङ्गीतसेवनविधावुपचीयते या ।
- अभ्यासकौशलवशेन कृशोदरीणा-
- माभ्यासकी निगदिता कविभिः पुराणैः ॥ ३८ ॥
- स्त्रीणां रागविनाशहेतवः ।
- दारिद्रदुःखभयविक्लवमानरोगै-
- रुद्वेगकोपतनुतादिभिरीश्वराणाम् ।
- रागं त्यजन्ति वनिता इह विस्तरस्य
- भीत्या न चास्य कथितः सकलो विवर्तः ॥ ३९ ॥
- इति श्रीकविशेखरज्योतीश्वरविरचिते पञ्चसायके द्वितीयः सायकः ।
तृतीयः सायकः
[सम्पाद्यताम्]- अथ तृतीयः सायकः ।
- देहदौर्गन्ध्यहरणयोगाः ।
- प्रागङ्गरागः पुरुषेण कार्यः स्रिया च सम्भोगसुखाय गात्रे ।
- तस्मादहं गन्धविधानमादौ विलासिनः सर्वमुदीरयामि ॥ १ ॥
- हरीतकीलोध्रमरिष्टपत्रं सप्तच्छदो दाडिमकल्कलं च ।
- एषोऽङ्गनायाः कथितः कवीन्द्रैः शरीरदौर्गन्ध्यहरः प्रलेपः ॥ २ ॥
- हरीतकीचन्दनमुस्तनागैरुशीरलोध्रामयरात्रितुल्यैः ।
- स्त्रीपुंसयोर्घर्मजगात्रगन्धं विनाशयत्याशु विलेपनं च ॥ ३ ॥
- हरीतईश्रीफलमुस्तयुक्तैर्बिम्बीफलैः पूतकरञ्जबीजैः ।
- कक्षादिदौर्गन्ध्यमतिप्रभूतं विनाशयत्याशु हठेन योगः ॥ ४ ॥
- (सचन्दनोशीरकबिल्वपत्रैः कोलाक्षमज्जागुरुनागपुष्पैः ।
- लिप्त्वा शरीरं प्रमदा जवेन चिरप्ररूढं विनिहन्ति गन्धम् ॥ ५ ॥
- सकेसरोशीरशिरीषलोघ्रैश्चूर्णीकृतैरङ्गविलेपनेन ।
- ग्रीष्मे नराणां कदाचिदेव घर्मस्रुतिः स्यादिति भोजराजः ॥ ६ ॥
- महापरिमलं तैलम् ।
- आदौ बिल्वदलं ततो मरुवकं पुष्पाण्यशोकस्य तु
- प्रत्यादित्यमजस्रमेव तिलजे तैले घटे निःक्षिपेत् ।
- केतक्यां कुसुमानि चेह मुहुशः शेषे क्षिपेदादरा-
- दित्थं कार्यमिदं महापरिमलं तैलं नरैः सिद्धये ॥ ७ ॥
- स्नानीयसुगन्धिनिरूपणम् ।
- स्वर्णाम्बुदोशीरमिशीयुतानां पथ्यान्वितानां च विलेपनेन ।
- स्नात्वा नरः सौरभमेव मासाच्चैकण्यमाप्नोति शिरोरुहाणाम् ॥ ८ ॥
- पथ्यारसालामलकीफलानां सजम्बुजीमूतदलामयानाम् ।
- मांसीयुतानां परिलेपनेन स्नायान्नरः सौरभकान्तिवृद्ध्यै ॥ ९ ॥
- देहसौरभ्यकरा योगाः ।
- हरीतकीतोयदतुल्यभागौ वनेचरस्यापि चतुर्थभागः ।
- तदर्थभागः कथितो नखस्य स्यादेष गन्धो मदनप्रकाशः ॥ १० ॥
- एलाशटीपत्रकचन्दनानि तोयाभयाचन्द्रघनामयानि ।
- सुसौरभोऽयं सुरराजयोग्यः ख्यातः सुगन्धो नरमोहनार्थः ॥ ११ ॥
- ऐणेयकाश्मीरघनाम्बुलोहनिशाकरोशीरसमानि पिष्ट्वा ।
- लेपः प्रियोऽयं सुरमानवानामुदीरितः पूर्वकवीन्द्रवर्यैः ॥ १२ ॥
- उशीरकृष्णागुरुचन्दनानि पत्राम्बुतुल्यानि समानि पिष्ट्वा ।
- एतानि गात्रेषु विलासिनीनां श्रीखण्डतुल्यं प्रथयन्ति गन्धम् ॥ १३ ॥
- सर्वोत्तमसुगन्धयोगाः ।
- जातीकर्कटरक्तचन्दनघनश्रीवासशैलेयकं
- कस्तूरीकनकामतङ्गकुसुमैः स्थौणेयकैः संयुतम् ।
- एतानीन्दुयुतानि पर्णजरसैः पिष्टोऽङ्गरागः शुभः
- कार्यो गन्धकलाकलापकुशलैः क्षोणीन्द्रयोग्यः सदा ॥ १४ ॥
- पथ्या भागचतुष्टयं जलमुचो भागैकमात्रं मतं
- व्याधेर्भागचतुष्टयं च शशिनण स्थौणेयभागद्वयम् ।
- भागाः पञ्च शिलोद्भवस्य कथिता भागो नखस्यापि च
- कस्तूरीदलसञ्ज्ञकं निगदितं सौरभ्यविज्ञैरिदम् ॥ १५ ॥
- पथ्याभागचतुष्टयं जलमुचो भागैकमात्रं सदा
- श्रीखण्डागुरुजातिकामृगमदस्योक्ताश्च भागास्त्रयः ।
- मांसीपद्मतुषारवालकसमैः सम्यक्तया पेषितः
- सर्वैरेभिरिहोत्तमः प्रकथितः सौरभ्यगर्भाभिधः ॥ १६ ॥
- मुखवासयोगाः ।
- रसालजम्बूफलगर्भसारः सकर्कटो माक्षिकसंयुतश्च ।
- स्थितो मुखान्तः पुरुषस्य रात्रौ करोति सौरभ्यसुखं मुखस्य ॥ १७ ॥
- गुडत्वगेलानखजातिकाह्वैः स्वर्णान्वितैः क्षुद्रवटी विधेया ।
- ताम्बूलगर्भा दिवसे च रात्रौ करोति पुंसां मुखवासमिष्टम् ॥ १८ ॥
- यः कुष्ठचूर्णं मधुना घृतेन पीकाक्षबीजान्वितमत्ति नित्यम् ।
- मासैकमात्रेण मुखं तदीयं गन्धायते केतकिपुष्पतुल्यम् ॥ १९ ॥
- वाजीकरणसमुद्देशः ।
- बलेन नारी परितोषमेति न हीनवीर्यस्य कदाऽपि सौख्यम् ।
- अतो बलार्थं रतिलम्पटस्य बीजाभिवृद्धिं प्रथमं विदध्यात् ॥ २० ॥
- चूर्णं विदार्याः स्वरसेन तस्याः सुभावितं भास्कररश्मिजालैः ।
- मध्वाज्यसम्मिश्रितमाशु लीढ्वा दश स्त्रियो गच्छति निर्विशङ्कः ॥ २१ ॥
- भूयो विभाव्यामलकस्य चूर्णं रसेन तस्यैव सिताज्यमिश्रम् ।
- सक्षौद्रमालेढि निशामुखे यो नूनं स वृद्धस्तरुणत्वमेति ॥ २२ ॥
- शतावरीगोक्षुरवानरीणां गोरक्षामातङ्गबलाबलानाम् ।
- क्षीरेण चूर्णानि निपीय रात्रौ मथ्नाति दर्पं तरुणीजनस्य ॥ २३ ॥
- यो वर्तकीलावकपिञ्जलानां मांसं तथा वेश्मविहङ्गमस्य ।
- घृतेन सिद्धं सह सैन्धवेन महाबलः स्यादुपभुज्य नूनम् ॥ २४ ॥
- शतावरीगर्भमिदं ससर्पिः पचेत्पयोभिर्दशभागयुक्तैः ।
- सितोपलाभ्यां मधुसम्प्रयुक्तं नास्माद्द्वितीयं भुवि दृष्टमन्यत् ॥ २५ ॥
- सितपिकतरुबीजं तण्डुलाः षष्टिकानां
- सघृतमधुसमेतं प्रत्यहं योऽवलेढि ।
- जठरकुहरमध्ये याति यावन्न पाकं
- रमयति कृशदेहोऽप्यङ्गनानां समूहम् ॥ २६ ॥
- मांसीं विदारीं च तथोच्चटां च क्षीरे गवां क्षौद्रघृतोपपन्नाम् ।
- पीत्वा नरः शर्करया सुयुक्तां कुलिङ्गवद्धृष्यति सर्वरात्रम् ॥ २७ ॥
- लघुशाल्मलिमूलेन तालमूलीं सुचूर्णिताम् ।
- सर्पिषा पयसा पीत्वा रतौ चटकवद्भवेत् ॥ २८ ॥
- वृद्धशाल्मलिमूलस्य रसं शर्करया पिबेत् ।
- एतत्प्रयोगात्सप्ताहाज्जायते रेतसोऽम्बुधिः ॥ २९ ॥
- योनिगाढीकरणसमुद्देशः ।
- प्रौढाङ्गनाया नवसूतिकायाः श्लथं वराङ्गं न सुखाय यूनाम् ।
- तस्मान्नरैर्भेषजतो विधेया गाढक्रिया मन्मथमन्दिरस्य ॥ ३० ॥
- निशाद्वयं पङ्कजकेसरं च निष्पिष्य देवद्रुतमतुल्यभागम् ।
- अनेन लिप्तं मदनातपत्रं प्रयाति सङ्कोचमलं युवत्याः ॥ ३१ ॥
- सधातुकीपुष्पफलत्रिकेण जम्बुत्वचा सारघसंयुतेन ।
- लिप्त्वा वराङ्गं मधुकेन तुल्यं वृद्धाऽपि कन्येव भवत्पुरन्ध्री ॥ ३२ ॥
- पिकाक्षबीजेन मनोजगेहं विलिप्य योषा नियमं चरन्ती ।
- हठेन गाढं लभते वराङ्गं दृष्टो नरैरेष सदैव योगः ॥ ३३ ॥
- या शक्रगोपं स्वयमेव पिष्ट्वा विलिम्पति स्त्री कुसुमेषुवेश्म ।
- आह स्म तस्याः कठिनं च गाढं भवेच्च नात्रास्ति विकल्पशङ्का ॥ ३४ ॥
- इन्दीवरव्याधिवचाकणानां तुरङ्गगन्धायुगयामिनीणाम् ।
- लेपेन नार्याः स्मरवेश्मरन्ध्रं सङ्कोचयत्याशु हठेन योगः ॥ ३५ ॥
- मदनकघनसारैः क्षौद्रतुल्यैर्वराङ्गं
- शिथिलितमपि यस्याः पूरितं भूय एव ।
- भवति कठिनमुच्चैः कर्कशं कामिनीना-
- मिति निगदति योगं रन्तिदेवो नरेन्द्रः ॥ ३६ ॥
- द्रावणसमुद्देशः ।
- यद्यप्यष्टगुणाधिको निगदितः कामोऽङ्गनानां सदा
- नो याति द्रवतां तथाऽपि झटिति व्यायामिनां सङ्गमे ।
- तस्माद्भेषजसम्प्रयोगविधिना सङ्क्षेपतो द्रावणं
- किञ्चित्पल्लवयामि पङ्कजदृशां प्रत्यायकं कामिनोः ॥ ३७ ॥
- सिन्दूरचिञ्चाफलमाक्षिकाणि तुल्यानि यस्या मदनातपत्रे ।
- क्षिप्तानि वै सा पुरुषप्रसङ्गात्प्रागेव रेतःस्रुतिमातनोति ॥ ३८ ॥
- घोषारजः क्षौद्रसमन्वितं तु क्षिप्तं यदीये स्मरयन्त्रगेहे ।
- द्रुता भवेत्सा हठतो हि नारी दृष्टः सदाऽयं किल योगराजः ॥ ३९ ॥
- अगस्तिपत्रद्रवसंयुतेन मध्वाज्यसम्मिश्रितटङ्कणेन ।
- लिप्त्वा ध्वजं यो रमतेऽङ्गनां यां सा शुक्रमावर्षति शीघ्रमेव ॥ ४० ॥
- सरोध्रधत्तूरकपिप्पलीनां क्षुद्रोषणक्षौद्रविमिश्रितानाम् ।
- लेपेन लिङ्गस्य करोति रेतःस्रुतिं विपक्षप्रमदाजनस्य ॥ ४१ ॥
- तुषजलपरिमिश्रैर्बीजपूरस्य मूलै-
- र्दिवसकरमयूखैर्मर्दितैः कामवेश्म ।
- द्रवति झटिति लिप्तं भेषजस्यास्य योगा-
- दिति वदति नरेन्द्रो रन्तिदेवः कवीन्द्रः ॥ ४२ ॥
- लिङ्गस्थूलीकरणसमुद्देशः ।
- सकुष्ठमातङ्गबलाबलानां वचाश्वगन्धागजपिप्पलीनाम् ।
- तुरङ्गशत्रोर्नवनीतयोगाल्लेपेन लिङ्गं मुशलत्वमेति ॥ ४३ ॥
- सरोध्रकाशीशतुरङ्गगन्धामातङ्गगन्धापरिपाचितेन ।
- तैलेन वृद्धिं खलु यान्ति शीघ्रं वराङ्गकर्णस्तनमेहनानि ॥ ४४ ॥
- अथ ध्वजदृढीकरणसमुद्देशः ।
- हयारिपत्रं नवनीतपिष्टं वचाबलानागबलामयैश्च ।
- लेपेन लिङ्गं सहसैव पुंसां लोहोपमं स्यादिति दृष्टमेतत् ॥ ४५ ॥
- अथ वीर्यस्तम्भनसमुद्देशः ।
- क्षीरेण बस्तस्य च बद्धमूलं लज्जालुमूलं स्वयमेव पिष्ट्वा ।
- यस्तु स्वपादौ परिलिप्य शेते रेतो न तस्य स्रवते कदाचित् ॥ ४६ ॥
- श्वेतेषुपुङ्खाख्यतरोः फलानि क्षीरेण पिष्ट्वा वटपादपस्य ।
- करञ्जबीजोदरमध्यगानि बध्नन्ति वीर्यं वदने धृतानि ॥ ४७ ॥
- श्वेतेषुपुङ्खाचरणं गृहीत्वा पुष्यार्कयोगे पुरुषस्य कट्याम् ।
- कुमारिकाकर्तितसूत्रकेण बद्धं न यात्याशु मनोजजीरम् ॥ ४८ ॥
- आदाय कृष्णेतरकाकजङ्घामूलं सिताम्भोरुहकेशरं च ।
- क्षौद्रेन पिष्ट्वा परिलिप्तनाभेः स्तम्भं प्रयात्याशु नरस्य बीजम् ॥ ४९ ॥
- अथ वशीकरणतिलकसमुद्देशः ।
- मञ्जिष्ठतोयदवचासितभानुमूलैः
- स्वीयाङ्गशोणितयुतैः समकुष्ठकैश्च ।
- कृत्वा ललाटफलके तिलकं कृतज्ञो
- लोकत्रयं वशयति क्षणमात्रकेण ॥ ५० ॥
- अथ वशीकरणाञ्जनसमुद्देशः ।
- देवीमहोत्सवदिने किल कज्जलं यत्
- सिद्धार्थकस्य सुरसेन नरोत्तमाङ्गे ।
- निष्पातितं नरवरेण निशि श्मशाने
- तन्नेत्रगं भुवनमेव वशं करोति ॥ ५१ ॥
- अथ वशीकरणचूर्णसमुद्देशः ।
- कुष्ठोत्पलं मधुकरस्य च पत्रयुग्मं
- मूलं तथा तगरजं सितकाकजङ्घा ।
- यस्याः शिरोगतमिदं विहितं तु चूर्णं
- दासीभवेज्झटिति सा तरुणी न चित्रम् ॥ ५२ ॥
- अथ वशीकरणलेपनसमुद्देशः ।
- सव्येन पाणिकमलेन रतावसाने
- यो रेतसा निजभवेन विलासदक्षः ।
- वामं विलिम्पति पदं सहसैव यस्या-
- स्तस्यैव सा भवति नात्र विकल्पभावः ॥ ५३ ॥
- सम्भोगशेषसमये निजकान्तमेढ्रं
- या कामिनी स्पृशति वामपदाम्बुजेन ।
- तस्याः पतिः सपदि विन्दति दासभावं
- गोणीसुतेन कथितः किल यागराजः ॥ ५४ ॥
- सिन्धूत्थमाक्षिककपोतमलानि पिष्ट्वा
- लिङ्गं विलिप्य तरुणीं रमते नरो यः ।
- साऽन्यं प्रयाति पुरुषं न कदाऽपि कामं
- दासीभवेदतिमनोहरदिव्यमूर्तिः ॥ ५५ ॥
- भल्लूकमेढ्रघनसारमधूनि पिष्ट्वा
- लिप्तध्वजो निधुवनं विदधीत यस्याः ।
- साऽऽह्लादिनी कुसुमसायकसन्नताङ्गी
- वश्या भवेच्चिरतरं न हि संशयोऽत्र ॥ ५६ ॥
- गोरोचनाशिशिरदीधितिशम्भुबीज-
- काश्मीरचन्दनयुतैः कनकद्रवेण ।
- लिप्तध्वजः परिरमत्यबलां नरो य-
- स्तस्याः स एव हृदये मुकुटत्वमेति ॥ ५७ ॥
- अथ वशीकरणधूपसमुद्देशः ।
- शृङ्गीवचायुवतिसर्जरसं समानं
- कृत्वा त्रुटिं मलयजं च षडेव मिश्रम् ।
- यो धूपयेन्निजगृहं वसनं शरीरं
- तस्यापि दास इव मोहमुपैति लोकः ॥ ५८ ॥
- अथ वशीकरणमन्त्रसमुद्देशः ।
- मदमदपदमादौ मादयेति द्विवारं
- तदनु च लिखनीयं सौख्यदं ह्रीं च तस्मात् ।
- अथ च पदमुपान्ते नामरूपादिसञ्ज्ञो
- भवति मदनमन्त्रः स्वाहया संयुतोऽयम् ॥ ५९ ॥
- 'ॐ मद मद मादय मादय ह्रीं अमुकीं वशमानय स्वाहा'
- शतशतपरिजापात् स्यादयं सिद्धिदाता
- दशदशकुसुमानां लोहितानां च होमात् ।
- इह तु सकलकार्यं वामहस्तेन कार्य-
- मुपदिशति समासाज्ज्योतिरीशः स्वरूपम् ॥ ६० ॥
- अस्य मन्त्रस्य दशसहस्त्रसङ्ख्याकोन्मितो जपः, रक्तवर्णैः प्रसूनैर्मधुना घृतेन च होमः करणीयः । सर्वं वामहस्तेन कर्तव्यम् । अथ ध्यानम्-
- कनकरुचिरमूर्तिः कुण्डलाकृष्टचापो
- युवतिहृदयमध्ये निश्चलारोपिताक्षः ।
- इति मनसि मनोजं ध्याययेद्यो जपस्थो
- वशयति स समस्तं भूतलं मन्त्रशक्त्या ॥ ६१ ॥
- अथ चामुण्डमन्त्रः ।
- चामुण्डे प्रथमं जयेति कथितं सम्बोधनं मोहय
- ज्ञातव्यं वशमानयेति च पदं साध्यं द्वितीयायुतम् ।
- स्वाहान्तः प्रणवादिरेष प्रथितस्तन्त्रे महामोहनः
- सन्मन्त्रः कविशेखरेण कथितो नास्माद्द्वितीयो भुवि ॥ ६२ ।
- 'ॐ चामुण्डे जय चामुण्डे मोहय अमुकीं वशमानय स्वाहा' इति मन्त्रः । अस्य मन्त्रस्य जप एकलक्षमितः, पलाशकुसुमैर्होमः दशांशं, सर्वं वामहस्तेन कर्तव्यम् । अथ चामुण्डाया ध्यानम्-
- दंष्ट्राकोटिविसङ्कटा सुवदना सान्द्रान्धकारे स्थिता
- खट्वाङ्गासिनिगूढदक्षिणकरा वामे सपाशं शिरः ।
- श्यामा पिङ्गलमूर्धजा भयकरी शार्दूलचर्माम्बरा
- चामुण्डा शववाहिनी जपविधौ ध्येया सदा साधकैः ॥ ६३ ॥
- अथ विश्वेश्वरीमन्त्रः ।
- ओङ्कारः प्रथमं नमो नम इति प्रोक्तं च तस्मात्पदं
- चामुण्डे परिकीर्तितं हिलि हिलि ज्ञेया च सञ्ज्ञा ततः ।
- ज्ञातव्यं तु समानयेति च पदं सन्मन्त्रिणां सम्मतो
- मन्त्रोऽयं कविशेखरेण कथितः ख्यातः सदा सिद्धिदः ॥ ६४ ॥
- 'ॐ नमो नमश्चामुण्डे हिली हिलि अमुकीं वशमानय स्वाहा'
- अस्य मन्त्रस्य जप एकलक्षपरिमितः, तद्दशांशः पलाशकुसुमैर्होमः करणीयः, सर्वं वामहस्तेन कर्तव्यम् ॥
- अथविश्वेश्वरीध्यानम् ।
- वज्रासक्तशरासना त्रिनयना सव्येतरेणाङ्कुशं
- वामेनापि करेण पाशमुरसि न्यस्तोत्तमाङ्गस्रजा ।
- व्यामुक्तोरुकचा करालवदना वह्निप्रभा मध्यगा
- ध्येया जापविधौ नरैरिति सदा विश्वेश्वरी सिद्धये ॥ ६५ ॥
- अथ पद्मिनीवशीकरणमन्त्रः ।
- 'ॐ कामेश्वर ! मोहय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण मधुमिश्रितजातिकुसुमसहितं ताम्बूलमादित्यदिने सहस्रवारमभिमन्त्रितं पद्मिन्यै दातव्यम् । पद्मिनी वश्या भवति ॥
- अथ चित्रिणीवशीकरणमन्त्रः ।
- 'ॐ पच पच ॐ विहङ्गम विहङ्गम ॐ कामदेवाय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण रम्भामूलजलभावितजातीफलमिलितताम्बूलमादित्यदिने पञ्चशतवारमभिमन्त्रितं चित्रिण्यै दातव्यम् । चित्रिणी वश्या भवति ॥
- अथ शङ्खिनीवशीकरणमन्त्रः ।
- 'ॐ हर हर ॐ पच पच कामदेवाय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण तरगमूलं श्रीफलञ्चादित्यवारे अष्टोत्तरशतवारमभिमन्त्रितं शङ्खिन्यै दातव्यम् । सा वश्या भवति ॥
- अथ हस्तिनीवशीकरणमन्त्रः ।
- 'ॐ चिरि चिरि वशं कुरु कामदेवाय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण आदित्यदिने क्षौद्राक्तौ कपोतभ्रमरपक्षौ ताम्बूलदले विन्यस्य अष्टोत्तरशतमभिमन्त्रितं कृत्वा हस्तिन्यै देयम् । हस्तिनी वश्या भवति ॥
- अथ अनिच्छाहरणोपायनिरूपणम् ।
- क्षीरोदनं द्विजवराय पुरा प्रदद्यात्
- पुष्योद्धृतं सितबलाचरणं कुमार्या ।
- पिष्टं प्रदत्तमिति वैरकृतामनिच्छां
- निःसारयेदिह मुहुर्विदितप्रभावः ॥ ६६ ॥
- अथ स्तनोत्थापनसमुद्देशः ।
- मातङ्गकृष्णामयवाजिगन्धा वचायुताः पर्युषिताम्बुमिश्राः ।
- हयारिपत्रीनवनीतयोगात् कुर्वन्ति पीनं कुचकुम्भयुग्मम् ॥ ६७ ॥
- वसा भुजङ्गस्य हयारिपत्रं कोलस्य मेदः समभागयुक्ताः ।
- वक्षोजकुम्भं मदिरायताक्ष्याः कुर्वन्ति पीनं सकलं हठेन ॥ ६८ ॥
- तैलं हठाद्दाडिमकल्कसिद्धं सिद्धार्थजं लेपनतो नितान्तम् ।
- नारीस्तनौ चारुतरौ सुपीनौ कुर्यादसौ योगवरः सदैव ॥ ६९ ॥
- श्रीपर्णिकाया रसकल्कसिद्धं तिलोद्भवं तैलवरं प्रदिष्टम् ।
- प्लोतेन वक्षोजयुगे प्रदेयं प्रयाति वृद्धिं पतितोऽपि नार्याः ॥ ७० ॥
- योनिसंस्कारसमुद्देशः ।
- प्रक्षालयेन्निम्बकषायनीरैर्निशाज्यकृष्णागुरुगुग्गुलूनाम् ।
- धूपेन योनिं निशि धूपयित्वा नारी प्रमोदं विदधाति भर्तुः ॥ ७१ ॥
- जातीप्रसूनैः सितसर्षपस्य तैलं पचेल्लघ्वनले प्रकामम् ।
- अभ्यङ्गयोगेन सदैव योनौ सौभाग्यमाप्नोति रते पुरन्ध्री ॥ ७२ ॥
- अथ रोमशातनसमुद्देशः ।
- भुजङ्गचूर्णं कटुतैलमध्ये सप्ताहमादित्यकरे निधेयम् ।
- तत्तैलयोगेन विलासिनीनां नश्यन्ति रोमाणि समूलमेव ॥ ७३ ॥
- पलाशभस्मान्विततालचूर्णैः रम्भाम्बुमिश्रैरुपलिप्य भूयः ।
- कन्दर्पगेहे मृगलोचनानां रोमाणि रोहन्ति कदापि नैव ॥ ७४ ॥
- रम्भाजले सप्तदिनं विभाव्य भस्मेह कम्बोर्मसृणं च पश्चात्
- तालेन युक्तं च विलेपनेन रोमाणि निर्मूलयति क्षणेन ॥ ७५ ॥
- अथ पुष्पजननसमुद्देशः ।
- ज्योतिष्मतीकोमलपत्रमग्नौ भृष्टं जपायाः कुसुमेन पिष्टम् ।
- गृहाम्बुना पीतमिदं युवत्या करोति पुष्पं स्मरमन्दिरस्य ॥ ७६ ॥
- अथ गर्भसाधारणसमुद्देशः ।
- तुरङ्गगन्धाश्रुतवारिसिद्धमाजं पयः स्नानदिने निपीय ।
- प्राप्नोति गर्भं नियमं चरन्ती वन्ध्याऽपि नूनं पुरुषप्रसङ्गात् ॥ ७७ ॥
- पुष्योद्धृतं लाक्ष्मणमेव मूलं भर्त्रा निपिष्टं सघृतं च पीतम् ।
- क्षीरौदनं प्राश्य पतिप्रसङ्गाद्गर्भं विधत्ते तरुणी न चित्रम् ॥ ७८ ॥
- या बीजपूरद्रुममूलमेकं क्षीरेण सिद्धं हविषा विमिश्रम् ।
- ऋतौ निपीय स्वपतिं प्रयाति दीर्घायुषं सा तनयं प्रसूते ॥ ७९ ॥
- अथ गर्भसंस्थापनसमुद्देशः ।
- कशेरुशृङ्गाटकजीवनाख्यपयोधरैरण्डशतावरीभिः ।
- सिद्धं पयः शर्करया विमिश्रं संस्थापयेद्गर्भमुदीर्णशूलम् ॥ ८० ॥
- अथ सुखप्रसवसमुद्देशः । अथ सुखप्रसवमन्त्रः -
- ॐ इहामृतञ्च सोमश्च चित्रभानुश्च भामिनि ।
- उच्चैःश्रवा तुरङ्गाणां मन्दिरे निवसन्तु ते ॥ ८१ ॥
- ॐ इदमममृतमपां समुद्धृतं वै तव लघु गर्भमिमं विमुञ्चतु स्त्रि ।
- तदनलपवनार्कवासरास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिम् ॥ ८२ ॥
- ॐ मुक्ताः पाशा विपाशाश्च मुक्ताः सूर्येण रश्मयः ।
- मुक्तः सर्वभयाद्गर्भ एह्येहि मा चिर स्वाहा ॥ ८३ ॥
- एभिर्जलं च्यावनमन्त्रराजैर्जप्त्वा प्रदेयं किल गर्भवत्यै ।
- सद्यः प्रसूते नवमूढगर्भा योगोऽयमात्रेयमुनिप्रदिष्टः ॥ ८४ ॥
- एभिर्मन्त्रैः सप्तवारमभिमन्त्रितं जलं गर्भवत्यै पातुं दातव्यम् ।
- "ॐ मन्मथ मन्मथ मन्मथवाहिनि ! लम्बोदरं मुञ्च मुञ्च लघु स्वाहा" इति मन्त्रः । अनेन मन्त्रेण सप्तवारमभिमन्त्रितं जलं गर्भवत्यै पातुं दातव्यम् । सुखात् प्रसवो भवति ॥
- अथ वन्ध्याकरणसमुद्देशः ।
- पलाशक्षीरिद्रुमयोः फलानि पुष्पाण्यथो शाल्मलिपादपस्य ।
- मद्येन मासार्धदिनं निपीय वन्ध्या भवेन्निश्चितमेव नारी ॥ ८५ ॥
- फलं कदम्बस्य च माक्षिकं हि तुषोदकेन त्रिदिनं निपीय ।
- स्नानावसाने नियमेन चापि वन्ध्यामवश्यं कुरुते हठेन ॥ ८६ ॥
- कर्षद्वयं राक्षसवृक्षबीजं सप्ताहमात्रं सितशालिवारा ।
- ऋतौ निपीतं मृगशावकाक्ष्या वन्ध्यात्वमेतन्नियतं करोति ॥ ८७ ॥
- अथ केशसंस्कारसमुद्देशः ।
- तिलप्रसूनं सह गोक्षुरेण ससारघं गव्यघृतेन पिष्टम् ।
- सप्ताहमात्रेण शिरःप्रलेपाद्भवन्ति दीर्घाः प्रचुराश्च केशाः ॥ ८८ ॥
- कर्षार्धमात्रं प्रसवं फलेन निम्बस्य तैलं नियमेन पीतम् ।
- क्रमेण कुन्देन्दुतुषारगौरं शिरोरुहं मेचकतामुपैति ॥ ८९ ॥
- अथ इन्द्रलुप्तसमुद्देशः ।
- गुञ्जाफलैः क्षौद्रयुतैर्विलिप्य केशप्रदेशे सकलेन्द्रलुप्तम् ।
- अनेन योगेन सदैव केशा रोहन्ति कृष्णाः कुटिला विशालाः ॥ ९० ॥
- इति श्रीकविशेखरज्योतिरीशविरचिते पञ्चसायके तृतीयः सायकः ।
चतुर्थः सायकः
[सम्पाद्यताम्]- अथ चतुर्थः सायकः ।
- अथ कन्यालक्षणसमुद्देशः ।
- प्रख्याते महति प्रभूतविभवे चारित्रशीलान्विते
- विद्याधैर्यविवेकशौर्यविभवश्लाघ्ये कुलीने कुले ।
- कन्या भ्रातृयुता सुशीलविनया रूपोज्ज्वला दक्षिणा
- त्रैवर्गाश्रितशुद्धवंशनिलया सद्भिर्विवाह्या नरैः ॥ १ ॥
- अम्भोजास्या बहलनयना भूरिकेशप्रचारा
- तुल्या स्निग्धा सुसमदशना पद्मरागाधरौष्ठी ।
- रम्यश्रोत्रा मधुरवचना कम्बुकण्ठी शुभाङ्गी
- मध्ये क्षीणा सुललितकरा दक्षिणावर्तनाभिः ॥ २ ॥
- पीनश्रोणी कनककदलीस्तम्भजङ्घाभिरामा
- रक्ताशोकप्रसवचरणा स्निग्धशाखाङ्गुलीका ।
- इत्थं युक्ता सुललिततनुर्लक्षणैरुत्तमैर्या
- कन्या सद्भिश्चटुलचरिता सा विवाह्या गुणज्ञैः ॥ ३ ॥
- अथ कन्यादूषणसमुद्देशः ।
- खर्वा पिङ्गलकुन्तला कृशतनुर्दीर्घाऽतिरोमाकुला
- कृष्णा सौकरलोचना पृथुगला कृष्णाधरा दन्तुरा ।
- रुक्षाङ्गी विकटस्तनी च सबला बभ्रूरवीरात्मजा
- वाचाला बहुभोजना च गदिनी प्रौढा च दुःखान्विता ॥ ४ ॥
- पुष्पक्ष्माधरवृक्षदेशतटिनीनक्षत्रसञ्ज्ञा च या
- हास्ये कूपयुगं कपोलयुगले यस्या भवेत् सत्वरम् ।
- अङ्गुष्ठाधिकपर्वणी चरणयोर्यस्याश्च जाताऽङ्गुलिः
- पादस्यापि कनीनिका न पतति क्ष्मायां तदन्यैव वा ॥ ५ ॥
- अज्ञातान्वयजा स्वभावपिशुना लम्बाधरा चञ्चला
- कुष्ठिश्चित्रिकुलोद्भवा च वितता यस्याः कटिर्नासिका ।
- निन्द्या पल्लवजिह्विका द्रुतगतिर्न्यूनाधिकाङ्गी पुन-
- स्त्याज्या कामकलाकलापकुशलैः कन्या विवाहे सदा ॥ ६ ॥
- अथ वरलक्षणसमुद्देशः ।
- प्रख्यातोऽमलवंशजो नववयाः शूरस्सुशीलश्च यः
- स्वाचारः स्थिरसौहृदो गुणनिधिर्नानाकुटुम्बी बली ।
- अर्थी भोगरतो विशिष्टवचनो दाक्षिण्यधैर्याश्रयो
- जामाता जगतीतले कविवरैरेवंविधो वर्णितः ॥ ७ ॥
- अथ वरदूषणसमुद्देशः ।
- पापिष्ठो व्यसनी ऋणैरुपहतो द्यूतप्रियो भिक्षुको
- रोगी पुंस्त्वविवर्जितश्चलमतिर्वैदेशिकः कातरः ।
- मूर्खो दुष्टकुलोद्भवश्च कृपणो वृद्धोऽतिदीनः खलः
- कर्तव्यो न वरः कदाऽपि पुरुषैरेवंविधो भूतले ॥ ८ ॥
- अथ विवाहभेदसमुद्देशः ।
- चातुर्वर्ण्यसमाहिता मुनिवरैरष्टौ विवाहाः स्त्रियो
- ब्राह्मो दैवतकस्ततो निगदितौ गान्धर्वपैशाचकौ ।
- आर्षो राक्षसकस्तथाऽऽसुर इति ख्यातोऽपरश्चाष्टमः
- प्राजापत्यसमाभिधः पृथगमी प्रोक्ता मया नामतः ॥ ९ ॥
- आर्षो दैवतकः प्रजापतिभवो ब्राह्मो द्विजानां मतो
- गान्धर्वः सह राक्षसेन कथितः क्षात्रस्य तज्ज्ञैरसौ ।
- एकश्चासुरसञ्ज्ञको निगदितो वैश्यस्य शूद्रस्य च
- सङ्क्षेपादुपवर्णितं क्रमवशात्पौराणिकं लक्षणम् । १० ॥
- विद्यावान् गुणपूजितः सुचरितः सद्वंशजातो मुनिः
- सौम्यो मानरतः सुशीलविनयो गेहागतः प्रार्थकः ।
- कन्याया गृहनायकः सपुलकस्तस्मै ददात्यादरा-
- दार्षो गोयुगदक्षिणो निगदितस्तज्ज्ञैर्विवाहो वरः ॥ ११ ॥
- ऋत्विग्भिः परिमण्डिते बहुविधे यज्ञोत्सवे चोत्तमे
- नानावर्णसुवर्णवस्त्रकुसुमैराभूषिताङ्गी शुभा ।
- कन्या दक्षिणया द्विजाय विधिना यद्दीयते चादरा-
- द्दैवः सोऽयमुदीरितः कविवरैरित्थं विवाहो वरः ॥ १२ ॥
- कन्या बान्ध्वसन्निधौ सुललिता विप्रोत्तमायादरा-
- दुक्त्वा- तुभ्यमियं मया स्वतनया दत्तेति हर्षान्वितौ ।
- धर्मं सञ्चरतां यथासुखमुभौ दाम्पत्ययोगात्सदा
- प्राजापत्यकरग्रह कविवरैरेषः प्रमाणीकृतः ॥ १३ ॥
- आहूयार्चनपूर्वकं द्विजवरायाच्छाद्य वासोवरै-
- र्विद्याशीलविवेकवंशविनयाचारान्विताय स्वयम् ।
- कन्या प्रीतिमते वराय विधिना यद्दीयते सादरं
- ब्राह्मोऽसौ मुनिपुङ्गवैर्निगदितः श्रेष्ठो विवाहोऽपरः ॥ १४ ॥
- कन्या यौवनशालिनी पतिममुं या स्वीकरोति स्वयं
- गान्धर्वः स हि कथ्यते भुजबलादाकृष्यते यत्पुनः ।
- ज्ञेयो राक्षस एष पण्डितवरैश्चौर्याद्विवाहोऽपरः
- पैशाचः कविशेखरेण कथितस्त्याज्यः सदा यत्नतः ॥ १५ ॥
- आदाय प्रथमं वराद्बहुतरं शुल्कं यथाकाङ्क्षया
- वस्त्रालङ्कृतिवैभवेन तनयासन्तोषमुत्पाद्य च ।
- पश्चाद्दुष्कुलसम्भवाय मलिनं कन्याप्रदानं वृथा
- प्रख्यातोऽधमवंशजापरिणयस्तज्ज्ञैरसावासुरः ॥ १६ ॥
- अथ परदारत्यागसमुद्देशः ।
- अश्रद्धामुपहस्यतां मलिनतामर्थक्षयं लाघवं
- गर्हां ग्लानिमधोगतिं विकलतामायुःक्षतिं दुर्गतिम् ।
- इत्थं ये परदारकर्मणि रता लोकत्रये निन्दिता
- विन्दन्ते परमापदः सुखधिया दुःखं नरास्ते सदा ॥ १७ ॥
- पौलस्त्यः सुरदैत्यमर्त्यमुकुटव्याघृष्टपादाम्बुजो
- मैथिल्याहरणादवाप मरणं वालिश्च्युतो राज्यतः ।
- पाञ्चालीप्रतिकाङ्क्षित्वेन निधनं भीमाद्गतः कीचक-
- स्तस्मादन्यवधूर्नरैर्न मनसाऽप्यालापनीया भुवि ॥ १८ ॥
- अथ दूतीसमुद्देशः ।
- चक्षुःप्रीतिरुदीरिता प्रथमतश्चित्तभ्रमः स्यात्ततः
- सङ्कल्पस्तदनन्तरं निगदितो निद्राविनाशस्तथा ।
- वैराग्यं विषयेषु कार्श्यमथ च व्रीडानिवृत्तिस्ततो
- ह्युन्मादो मरणं दश(नव) प्रकटिताः कन्दर्पचेष्टा इति ॥ १९ ॥
- कामिन्या नवयौवने न मिलति स्वेच्छाविहारो नृणा-
- मुन्मादो मरणं तदा मनसिजव्यामोहतो जायते ।
- तस्मात्तद्विनिवारणाय पुरुषैरन्याङ्गना कामिभि-
- र्गन्तव्येति वदन्ति काश्यपमुनिक्षेमेन्द्रवात्स्यायनाः ॥ २० ॥
- तारापीडसुतो विनाशमगमत्कादम्बरीकाङ्क्षया
- व्यामुक्तः किल पुण्डरीकमुनिरप्युच्चैर्महाश्वेतया ।
- उर्वश्या च पुरूरवा नरपतिः सन्त्याजितो जीवितं
- तस्माज्जीवितरक्षणाय हि विनिर्गम्या परप्रेयसी ॥ २१ ॥
- दासी वारवधूर्नटी च विधवा बाला च धात्री तथा
- कन्या प्रव्रजिता च भिक्षुवनिता सम्बन्धिनी शिल्पिनी ।
- मालाकारनितम्बिनी प्रतिसखी दौत्ये स्मृता योषिता-
- मालापे कविभिः सदैव मदनव्यापारलीलाविधौ ॥ २२ ॥
- अथ सुखसाध्यासमुद्देशः ।
- प्रौढा कान्तविमानिता बहुगुणा रम्याऽनपत्या तथा
- रण्डा स्वैरपरा स्वतन्त्रगमना शिल्पप्रिया गायिका ।
- षण्ढोन्मत्तदरिद्रसेवकमहारोगार्तडिम्भाङ्गना
- नूनं सिद्ध्यति दूतिकानिगदिता रम्याभिसारोत्सवे ॥ २३ ॥
- अथ कष्टसाध्यासमुद्देशः ।
- एका वल्लभरक्षिता परजनालापे विरक्ता दृढा
- निःस्नेहा धनयौवने गुरुजनाद्भीता च लज्जावती ।
- स्वस्था सुन्दरनायका पतिरता शिष्यादिकान्ता तथा
- दुःसाध्या कविशेखरेण रमणी प्रोक्ता रतिप्रार्थने ॥ २४ ॥
- अथ त्याज्यस्त्रीसमुद्देशः ।
- अज्ञाता द्विजवल्लभा गुरुवधूर्मित्राङ्गना रोगिणी
- चेटी प्रव्रजिता सती रिपुवधूः शिष्या च गर्भान्विता ।
- भ्रूणघ्नी मृतसन्ततिः खलजना चास्पृश्यजा गोत्रजा
- गन्तव्या न कदाचिदेव पुरुषैरेताः स्त्रियः कामिभिः ॥ २५ ॥
- सुरतत्याज्यस्थानसमयसमुद्देशः ।
- नद्यां देवगृहे चतुष्पथवटे शैलस्य सानौ जले
- गुर्वग्निद्विजसन्निधौ परगृहे दुर्गे श्मशाने वने ।
- सन्ध्यायां दिवसे कदाऽपि सुरतं पुम्भिर्विवेकान्वितै-
- र्दृष्ट्वा धर्मविरोधसङ्कटमिति त्याज्यं सदा यत्नतः ॥ २६ ॥
- अष्टम्यां हिमरश्मिशेखरतिथौ बाणे च पूर्णातिथौ
- भानोः सङ्क्रमणे व्रते च शरदि ग्रीष्मे क्षपायामपि ।
- यातायातपरिश्रमे ज्वरगदे सम्भोगचेष्टां नरः
- कुर्यान्नैव कदाचिदेव सुकृतीत्याहुर्मुनीन्द्राः स्फुटम् ॥ २७ ॥
- अथ सुरतयोग्यस्थानसमुद्देशः ।
- स्फूर्ज्जद्दीपशिखोज्ज्वले सुललिते रम्योन्नते विस्तरे
- धूपोद्गारमनोहरे कुसुमस्रग्दामोपशोभान्विते ।
- वीणातालरवाकुले मनसिजप्रस्तावनानन्दिते
- सम्भोगः कुशलैः स्वकीयभवने कार्यो यथाकाङ्क्षया ॥ २८ ॥
- अथाभिलाषसमुद्देशः ।
- उक्ता गच्छति लज्जिता विरमति प्रेम्णा मनागीक्षते
- केशाँल्लुञ्चति जृम्भणं रचयति प्रस्तौति गाथां मुहुः ।
- आलिङ्गत्यपरां विरौति परुषं चुम्बत्यसौ बालकं
- गात्रं भञ्जति जृम्भते विहसति प्रत्युत्तरं याचते ॥ २९ ॥
- दोर्मूलं खलु दर्शयेत् स्तनयुगे वस्त्रं समालम्बते
- अङ्गुष्ठेन लिखेन्महीं स्मितमुखी व्रीडां विधत्ते मृषा ।
- दन्तेनाधरपल्लवं विदशति व्यक्तं तथा भाषते
- भावैरेभिरिह स्फुटं मृगदृशां ज्ञेयोऽभिलाषः सदा ॥ ३० ॥
- अथालिङ्गनसमुद्देशः ।
- माल्यापूरितकुन्तलः सुवसनः स्निग्धाङ्गरागोज्ज्वलो
- नानाभूषणसुन्दरः स्मरवशस्ताम्बूलपूर्णाननः ।
- स्फूर्ज्जद्दीपमनोज्ञवासभवने शय्यातले नायको
- रागार्थं परिरम्भणं प्रथमतः कुर्यात्समं योषिता ॥ ३१ ॥
- वृक्षारूढकसञ्ज्ञकं प्रथमतस्तस्माल्लतावेष्टितं
- तस्माज्जाघनविद्धकावपि मतावूरूपगूढं पुनः ।
- ज्ञातव्यं तिलतण्डुलं रसविदामालिङ्गनं योषितां
- क्षीरं नीरपुरःसरं निगदितं तस्माच्च लालाटिकम् ॥ ३२ ॥
- एकेन पादेन पदं स्वभर्तुरन्येन चाक्रम्य तदूरुभागम् ।
- आपीड्य दोर्भ्यामपि कान्तपृष्ठं वृक्षाधिरूढं प्रवदन्ति तज्ज्ञाः ॥ ३३ ॥
- ऊर्ध्वं भुजाभ्यां सरलाङ्गयष्टी क्षोणीरुहं वल्लिरिवाधिरुद्य ।
- नारी प्रियं चुम्बति निस्तरङ्गा भवेल्लतावेष्टितसञ्ज्ञकं तत् ॥ ३४ ॥
- श्रोणीतटे बाहुयुगेन कान्तमापीड्य मुक्ताम्बरकेशभारा ।
- वक्त्रासवं स्वादयति प्रहृष्टा तज्ज्ञैः स्फुटं जाघनमेतदुक्तम् ॥ ३५ ॥
- सुखोपविष्टं पुरुषं पुरन्ध्री सम्मीलिताक्षं स्वकरप्रबन्धात् ।
- आविध्यति प्रेमलसत्कुचाभ्यामालिङ्गनं विद्धकमेतदाहुः ॥ ३६ ॥
- कान्तो मनोजव्यथिताङ्गयष्ट्या आपीडयेदूरुयुगं युवत्याः ।
- ऊरूपघातेन कविप्रवीरैरूरूपगूढं तदिदं प्रदिष्टम् ॥ ३७ ॥
- बाहूरुवक्षोजघनेन गाढमन्योन्यसंसक्तशरीरयष्ट्योः ।
- आनन्दभावाद्यदुदीर्णभावमालिङ्गनं तत्तिलतण्डुलाख्यम् ॥ ३८ ॥
- गात्रोपरिष्ठादथ तल्पमध्ये संलीयते यन्मिथुनं शरीरे ।
- कामातिरेकात् कृतपूर्णचेष्टमालिङ्गनं क्षीरजलं प्रदिष्टम् ॥ ३९ ॥
- अन्योन्यसंसक्तमुखं च बाहू नेत्रं ललाटं हृदयं कपोलम् ।
- आनन्दभावश्रममीलिताक्षं लालाटिकं तत्त्वविदो वदन्ति ॥ ४० ॥
- अथ चुम्बनसमुद्देशः ।
- गण्डस्थलीमस्तकदन्तवासोग्रीवाकुचोरःस्तनचूचुकानि ।
- आलिङ्गनानन्तरमेव यूनोः स्थानानि चुम्बस्य वदन्ति तज्ज्ञाः ॥ ४१ ॥
- कक्षायुगं चापि नितम्बिनीनां कन्दर्पगेहं च रतिप्रवीणाः ।
- चुम्बन्ति कामं तरलायताक्ष्या देशस्य सात्म्येन सदैव लाटाः ॥ ४२ ॥
- कान्तोऽङ्गनाया वदने स्वकीयं वक्त्रं समारोप्य बलेन यत्र ।
- न चुम्बति क्रोधवशेन नारी स्याच्चुम्बनं तन्निमिताभिदानम् ॥ ४३ ॥
- पत्युर्मुखे स्वीयमुखं निवेश्य प्रेम्णा मनागञ्चति दन्तवासः ।
- उच्चेन गृह्णात्यपि कम्पितोष्ठी प्रोक्तं मुनीन्द्रैः स्फुरितं विनोदात् ॥ ४४ ॥
- हस्तेन नेत्रं परिमील्य भर्तुः सम्मीलिताक्षी वदने स्वजिह्वाम् ।
- निक्षिप्य च क्रीडति यत्र लोला ख्यातं रसज्ञैः खलु घृष्टसञ्ज्ञम् ॥ ४५ ॥
- हस्ताङ्गुलीसम्पुटकेन यत्र कान्तोष्ठमादाय रसज्ञया च ।
- आस्वादयेन्निर्दशनं विनोदात् स्याच्चुम्बनं पीडितमेतदेव ॥ ४६ ॥
- कान्ताधरं स्वाधरसम्पुटेन पीत्वा मुहुः स्वादयति क्रमेण ।
- नारी च तेनैव विधानकेन ज्ञेयं मुनीन्द्रैरिति सम्पुटाख्यम् ॥ ४७ ॥
- ओष्ठेन कान्तोष्ठयुगं निपीय जिह्वां निधायाप्यथ तालुभागे ।
- चुम्बोत्सवे नृत्यति यत्र नारी प्रोक्तं समौष्ठं मुनिभिः पुराणैः ॥ ४८ ॥
- अथ नखाघातसमुद्देशः ।
- कक्षाकुचोरःस्थलकुक्षिनाभिश्रोणीललाटाङ्घ्रिकरेषु सद्यः ।
- साङ्गुष्ठसर्वाङ्गुलिकैश्च सर्वैः सुव्यक्त एषः स्तनकन्धरादौ ॥ ४९ ॥
- सञ्ज्ञापकं मन्मथरागराशेरुक्तं मुनीन्द्रैश्छुरिताभिधानम् ।
- वक्षोजकन्दर्पगृहाधरेषु देयं नवोढाप्रमदाजनानाम् ॥ ५० ॥
- कण्डूयनेनैव शिरोरुहाणामस्योपयोगं परिकीर्तयन्ति ।
- अर्धेन्दुशङ्काशमिदं नखज्ञैरर्धेन्दुसञ्ज्ञं कथितं समासात् ॥ ५१ ॥
- कक्षानितम्बस्तनपार्श्वकेषु दातव्यमेतत् करजं सदैव ।
- अर्धेन्दुसञ्ज्ञद्वितयं प्रयुक्तं स्यान्मण्डलाख्यं मदनावतंसम् ॥ ५२ ॥
- ऊरूतटे कामगृहे नितम्बे प्रोचुर्मुनीन्द्रा विनियोगमस्य ।
- समैश्च सर्वैर्नखरैः सुलग्नैस्तज्ज्ञैः किलोक्तं शशकप्लुताख्यम् ॥ ५३ ॥
- सीमन्तपार्श्वे हृधि चूचुकादावेतत् प्रयोज्यं सुरतप्रयोगे ।
- सर्वैर्नखैर्वै स्तनमध्यभागे पश्चादधोऽङ्गुष्ठभवा हि रेखा ॥ ५४ ॥
- व्यक्तीकृता रागकरी तदेतन्मयूरपदं समुदीरयन्ति ।
- अलम्बमेवं स्फुरितार्धरेखं प्राहुः क्षतं पङ्कजपत्रसञ्ज्ञम् ॥ ५५ ॥
- दोर्मूलवक्षःस्थलनाभिसन्धावस्योपयोगं वदते महेशः ।
- रेखायुगं गण्डयुगे प्रदत्तं स्तनान्तकक्षाजघनस्थलेषु ।
- देशान्तरं गच्छति कामिनीनां संस्मारकं दर्दुरकं वदन्ति ॥ ५६ ॥
- पुंसः शरीरे युवतीकुचे वा क्षतं नखस्य प्रतिवीक्ष्य सद्यः ।
- कन्दर्परागाकुलचित्तवृत्तिर्मुनेरपि स्यात् किमुतेतरस्य ॥ ५७ ॥
- सर्वस्वमेवास्ति मनोभवस्य प्रेम्णा प्रयुक्तं करजं रतज्ञैः ।
- नास्माद्द्वितीयं भुवि रागबीजमित्याह शीतांशुकलाकिरीटः ॥ ५८ ॥
- अथ दशनघातसमुद्देशः ।
- दन्तप्रकाराश्च नखप्रकारैर्ज्ञेयाः समा एव समैश्च सद्भिः ।
- शीत्कारहुङ्कारविचेष्टिताद्याः प्रायो विशेषाः पुनरत्र कार्याः ॥ ५९ ॥
- श्लथा घनास्तीव्रमुखाः समाङ्गा रागस्पृशो निर्मलदीप्तिभाजः ।
- दन्ता प्रदेया नखदानदेशे वक्त्रान्तराक्षिद्वितयं विहाय ॥ ६० ॥
- दन्तौष्ठसंयोगवशेन गण्डे दन्तप्रकारः किल विद्रुमोऽयम् ।
- अभ्यासयोगाद्युवतीजनानां स्यान्नान्यथा क्वापि विनोदतस्तु ॥ ६१ ॥
- ऊरूस्थले कण्ठकपोलयुग्मे खण्डाभ्रकं मण्डलतुल्यरूपम् ।
- संशोभते दन्तमिदं युवत्याः प्रायो मुनीन्द्राः समुदीरयन्ति ॥ ६२ ॥
- दीर्घा सुरक्ता क्षतकुञ्चिता च रेखा स्थले चूचुकयोः प्रदेया ।
- विशेषकाले स्मरणे च तज्ज्ञैर्दन्तोऽयमुक्तः किल कोलचर्चः(र्वः) ॥ ६३ ॥
- अथ केशाकर्षणसमुद्देशः ।
- द्वाभ्यां कराभ्यां शिरसि प्रकामं कृष्ट्वा कचांश्चुम्बन्ति वल्लभश्चेत् ।
- तदेव दिष्टं समहस्तसञ्ज्ञं स्यादेकहस्तेन तरङ्गरङ्गः ॥ ६४ ॥
- कर्णप्रदेशे च कचं निपीड्य प्रेम्णा पतिश्चुम्बति वल्लभास्यम् ।
- अन्योन्यहस्तग्रहविस्तरेण कामावतंसं मुनयो वदन्ति ॥ ६५ ॥
- संवेष्ट्य सर्वाङ्गुलिभिः कचौघं यस्याः पतिर्धारयति स्मरार्ताम् ।
- भुजङ्गवल्ली परिकीर्तितेयं रतोत्सवे केशकलाविधिज्ञैः ॥ ६६ ॥
- भव्या घना रौक्ष्यविवर्जिताश्च श्यामा विशाला बहुलाः कचाः स्युः ।
- चुम्बप्रदानावसरे प्रकर्ष्या रागोदयार्थं तरुणीजनानाम् ॥ ६७ ॥
- इत्यादयो बाह्यरतप्रकाराः पूर्वं रतज्ञैः परिकल्पनीयाः ।
- अन्येऽपि ये सन्ति बहुप्रभेदा नोक्ता मया विस्तरभीतितस्ते ॥ ६८ ॥
- इति श्रीकविशेखरज्योतिरीश्वरविरचिते पञ्चसायके चतुर्थः सायकः ।
पञ्चमः सायकः
[सम्पाद्यताम्]- अथ पञ्चमः सायकः ।
- अथ नाडीसमुद्देशः ।
- मनोभवागारमुखे तु नाड्यस्तिस्रो भवन्ति प्रमदाजनानाम् ।
- समीरणा चान्द्रमसी च गौरी विशेषमासामुपवर्णयामि ॥ १ ॥
- प्रधानभूता मदनातपत्रे समीरणा नाम विशेषनाडी ।
- तस्या मुखे यत्पतितं नृवीर्यं तन्निष्फलं स्यादिति चन्द्रमौलिः ॥ २ ॥
- या चापरा चान्द्रमसी च नाडी कन्दर्पगेहे भवति प्रधाना ।
- सा सुन्दरी योषितमेव सूते साध्या भवेदल्परतोत्सवेन ॥ ३ ॥
- गौरीति नाडी यदुपस्थदेशे प्रधानभूता भवति स्वभावात् ।
- पुत्रं प्रसूते बहुधाऽङ्गना सा कष्टोपभोग्या सुरते प्रदिष्टा ॥ ४ ॥
- अथोत्तानबन्धसमुद्देशः ।
- प्रसारितोरूद्वयमध्ययोगाद्गाढाऽपि नारी श्लथतामुपैति ।
- संलग्नजानुद्वयबन्धयुक्ता श्लथाऽपि सङ्कोचमलं प्रयाति ॥ ५ ॥
- तस्या युवत्याः प्रकृतिं च सत्त्वं देशं च भावं मदनातपत्रम् ।
- आलोक्य बन्धाः परिकल्पनीयाः सम्भोगकाले पुरुषै रसज्ञैः ॥ ६ ॥
- उत्तानसुप्तप्रमदोरूमध्ये स्थितः पतिः कामयते प्रकामम् ।
- तयोर्द्वयोः प्रीतिकरः प्रदिष्टो बन्धो नराणामतिदुर्लभोऽयम् ॥ ७ ॥
- उत्तानसुप्ता युवतिः स्वपादौ स्कन्धे समारोप्य रमेन्नरस्य ।
- बन्धोऽयमुक्तः समपादसञ्ज्ञः प्रयोजनीयः करिणीरतेषु ॥ ८ ॥
- एवंविधायाः स्त्रिय एव जङ्घां कान्तः स्वजङ्घोपरि सन्निवेश्य ।
- उद्भ्रम्य भूयः कटिमारमन्त्याः स्यादेष बन्धः किल नागराख्यः ॥ ९ ॥
- धृत्वा स्वजानुं गगने स्वपादौ शय्यातले स्त्री प्रथमं प्रसुप्ता ।
- कुचौ पतिः पाणियुगेन धृत्वा रमेत्तदा व्योमपदाभिधानम् ॥ १० ॥
- एकं युवत्याश्चरणं पृथिव्यामूर्ध्वं तथाऽन्यं परिकल्य कान्तः ।
- पद्भ्यां स्थितो हस्तयुगं च भूमौ त्रैविक्रमः स्यादिति वन्धराजः ॥ ११ ॥
- नितम्बबिम्बं किल नायकेन
- नार्यास्त्रिकं हस्तयुगेन धृत्वा ।
- गुल्फौ निधाय स्थित एव तस्या
- बन्धोऽप्यसौ चाटुककेलिकः स्यात् ॥ १२ ॥
- कान्तस्य वक्षःस्थलगौ च (स्व)पादा-
- वालिङ्ग्य गाढं प्रमदा कराभ्याम् ।
- किञ्चिन्नतोरुद्वययोगतश्च
- ज्ञेयो बुधैरित्यवदारितोऽयम् ॥ १३ ॥
- अथ पार्श्वबन्धसमुद्देशः ।
- एकं युवत्या हृदये स्वपादं तथाऽर्पितं तल्पगतं तदन्यम् ।
- प्रौढाङ्गनावल्लभ एष बन्धः ख्यातः पृथिव्यामुपवीतिकाख्यः ॥ १४ ॥
- ऊर्वोः पतिर्मध्यगतो युवत्याः पार्श्वस्थितायाः परिरभ्य देहम् ।
- यूनोस्त्रिकालोलनतो रसज्ञैरत्यादृतः सम्पुटनामधेयः ॥ १५ ॥
- पार्श्वस्थितायाः मृगशावकाक्ष्याः पृष्ठावलम्बी रमणः प्रसुप्तः ।
- लिङ्गस्मरागारनिवेशयोगादिहोपदिष्टः खलु नागबन्धः ॥ १६ ॥
- अथोपविष्टबन्धसमुद्देशः ।
- पद्मासनं सम्परिकल्प्य भर्ता क्रोडोपविष्टां युवतिं रमेच्च ।
- अन्योन्यकण्ठार्पितबाहुयोगात् पद्मासनाख्यं प्रवदन्ति सन्तः ॥ १७ ॥
- कान्तो नितम्बस्थित एव नार्याः श्रोणीं कराभ्यां यदि याति धृत्वा ।
- आस्फालयेद्वाऽपि कटिप्रबन्धात् प्रोक्तो मुनीण्द्रैरिति कीर्तिबन्धः ॥ १८ ॥
- अथाधोमुखबन्धसमुद्देशः ।
- अधोमुखस्थां रमयेच्च नारीं तत्पृष्ठवर्ती पशुतुल्यरूपः ।
- भर्ता परिक्रीडति भावहीनो निर्दिश्यते हारिणबन्ध एषः ॥ १९ ॥
- दन्तावलच्छागतुरङ्गमाणां क्रीडाप्रकारैश्च भवन्ति बन्धाः ।
- इत्थं रसज्ञैरनुलापनीया नोदाहृता विस्तरभीतितस्ते ॥ २० ॥
- ऊर्ध्वबन्धसमुद्देशः ।
- अन्योन्यदोःपञ्जरमध्यजातः स्तम्भो यदा बाहुयुगेन लग्नः ।
- निष्पीड्य नारी पतिमूर्ध्वसंस्थं रमेत्तदा व्यात्तकरं वदन्ति ॥ २१ ॥
- एको युवत्या यदि कान्तहस्ते जानु स्थितः स्यादपरः पृथिव्याम् ।
- कान्तं कराभ्यामुपगूह्य यत्स्याज्ज्ञेयं रसज्ञैः करणं त्रिपादम् ॥ २२ ॥
- अथ पुरुषायितसमुद्देशः ।
- अधोमुखी कान्तहृदि प्रसुप्ता दोर्भ्यां समालिङ्ग्य यदि प्रयाति ।
- गा(प्रौ)ढाङ्गनावल्लभ एष तज्ज्ञैः बन्धः प्रदिष्टो विपरीतरूपः ॥ २३ ॥
- धूर्त ! त्वमेवं विजितोऽस्यकस्माद्युद्धे मया पञ्चशरस्य नारी ।
- इत्यादिकं भूरिविधं रटन्ती प्रायः सुखं विन्दति केलिरङ्गे ॥ २४ ॥
- विपरीतरतावयोग्यां स्त्रियं दर्शयति ।
- नवप्रसूता ऋतुयोगयुक्ता गर्भालसा स्थूलतनुर्नताङ्गी ।
- क्षीणा नवोढा ज्वरिता च नारी वर्ज्या रतिज्ञैर्विपरीतबन्धे ॥ २५ ॥
- अथ सन्ताडितसमुद्देशः ।
- वामस्वभावान्मदनस्य रागो हस्तप्रहारात्समुपैति वृद्धिम् ।
- तस्माद्यथास्थानमसौ विधेयो वराङ्गनायाः सुरतावसाने ॥ २६ ॥
- यद्यङ्गना कान्तहृदि प्रहारं मुष्ट्या भजन्ती सुरतोपचारैः
- सन्ताडितं नाम वदन्ति तज्ज्ञा विस्तीर्णहस्तेन तदा पताकम् ॥ २७ ॥
- साङ्गुष्ठमध्याङ्गुलसम्प्रहारात् सञ्जायते कुण्डलनामधेयः ।
- यः केवलाङ्गुष्ठभवोऽभिघातः प्रोक्तः कवीन्द्रैः स तु बिन्दुमालः ॥ २८ ॥
- द्रवति यदि न नारी प्रौढरागार्तियुक्ता
- मृदुनिधुवनयोगे दन्तसन्धौ सलीलम् ।
- पिबति दशनवासः किञ्चिदुन्मुच्य भूयः
- कथितमिह रसज्ञैः सीत्कृतं रागकारि ॥ २९ ॥
- पिकशिखिकलहंसप्रायपक्षिवृजानां
- ध्वनितमनुकरोतीत्यङ्गना मन्मथार्ता ।
- मुखदशनविवर्तात्तत्कवीन्द्रा वदन्ति
- स्तनितमिति समासाच्चित्रसम्भोगकाले ॥ ३० ॥
- एवंविधकरणस्य फलं निरूपयति ।
- इत्यादियोगैः पृथुकामभावं सम्पाद्य नारीपुरुषौ चिरेण ।
- जातानुरागौ रहसि प्रकामं सौख्यं समास्वादयतो महीयः ॥ ३१ ॥
- अष्टानायिकासमुद्देशः ।
- यस्याः पतिर्मिलति केलिकथानुरक्तः
- पार्श्वं न मुञ्चति मनोभववेगयुक्तः ।
- स्यात्सुन्दरी सकलसौख्यकलानिधाना
- स्वाधीनपूर्वपतिकेति वदन्ति तज्ज्ञाः ॥ ३२ ॥
- पुष्पाङ्गरागरुचिरा तरुणी प्रियस्य
- तिष्ठत्यनागमनहेतुविचारलोला ।
- एषाऽबला न हि चिरं परिदेवनीया
- सोत्कण्ठितेति कथिता कविभिः पुराणैः ॥ ३३ ॥
- स्रक्चन्दनाम्बरविभूषणभूषिताङ्गी
- या वल्लभागमनमार्गविरूढदृष्टिः ।
- तल्पं गता रुचिरवासगृहेऽवशेते
- सा कीर्तिता जगति वासकसज्जितेति ॥ ३४ ॥
- क्रोधात्प्रयाति चरणे पतितोऽपि कान्तः
- प्रायः प्रचण्डवचनाच्चरणैर्निरस्तः ।
- पश्चात्तदीयविरहक्षरदानताङ्गी
- सा कीर्तितेह कलहान्तरिता कवीन्द्रैः ॥ ३५ ॥
- सङ्केतकं प्रियतमः स्वयमेव दत्त्वा
- नैवागतः समुचिते समये च यस्याः ।
- हृष्टा वचोऽमृतरसैः सकलाङ्गयष्टिः
- सा वर्णिता कविवरैरिह विप्रलब्धा ॥ ३६ ॥
- प्रातर्विनिद्रवदनस्मरभारचौरो
- निद्रालसोऽलसगतिर्नखविक्षताङ्गः ।
- यस्याः प्रयात्यभिमुखं मुहुशो युवत्याः
- सा खण्डितेति कथिता कविभिः पुराणैः ॥ ३७ ॥
- आरम्भभग्नचरिता विकला च नारी
- या निर्मिता हि मदनेन मदेन याति ।
- गुप्ताभिसाररसिका परवेश्म गन्तुं
- सा कीर्तिता कविवरैरभिसारिकेति ॥ ३८ ॥
- देशान्तरं प्रतिवसद्रमणश्च यस्या
- दत्त्वाऽवधिं चिरतरं गुरुकार्ययोगात् ।
- दुर्वारदुःखदहनैः परिदेविताङ्गी
- सा प्रोषितप्रियतमा कथिता मुनीन्द्रैः ॥ ३९ ॥
- ग्रन्थोपसंहारः ।
- यावच्चन्द्रकलाकिरीटहृदये शैलाधिराजात्मजा
- यावद्वक्षसि माधवस्य कमला सानन्दमादीव्यति ।
- यावत्कामकलाविवर्तचटुलं क्षोणीतलं राजते
- तावच्छ्रीकविशेखरस्य कृतिनः काव्यं मुदे दीव्यताम् ॥ ४० ॥
- इति कविशेखरश्रीज्योतीश्वराचार्यविरचिते पञ्चसायके पञ्चमः सायकः ।
- समाप्तश्चायं ग्रन्थः ॥