निश्चयविशिष्टनिरालोकत्वविधेयकापत्तित्वादीना प्रतिबन्धकतेति फलितम् । निर्घूमत्वव्याप्यनिर्वह्निन्ववान् गुणत्वव्याप्यरूपत्ववांश्च पर्वतः,' इतिसमूहालम्बनपरामर्शजन्यस्य निर्घूमत्वबाधविरहवशा- पर्वतो रूपत्ववान्स्यात्, गुणत्वमात्रविधेयकस्यापि तर्कस्य तादृश- निश्चयविशिष्टतया निदूर्धूमासत्ववोशिष्टबुद्धिप्रतिबन्धकत्ववारणाय विशेषतो निदर्धूमत्वादिविधेयक्त्वमापत्तिविशेषणम् । अपाद्य भेदेनैकस्यैवापादकस्य विशिष्टबुद्धौ प्रतिबन्धकत्वस्य स्वीकारात् इति ।
यत्तु 'तके आत्माश्रयान्योन्याश्रयचक्रकानवस्थाप्रमाणबाधि- तार्थप्रसङ्गभेदेन पञ्चविध' इतिनिबन्धकृदुदयनाचार्याः । तत्र ॥ अपाद्यभेदेन भेदे आपाद्यानन्त्येन तर्कस्यानन्स्यात् । तर्के आपा- द्यस्य सर्वत्र बाध्यत्वे नियमेनात्माश्रयादिचतुष्टयस्यापि चरमेण ग्रहणसम्भवाञ्च ।
यतु अनाहार्यसन्देहस्य तर्ककारणीभूतापाद्यव्याप्यापादक- वत्ताज्ञानेनैव निरासादहर्यसन्देह एव तक्रेण निवर्त्तत इति भवा- नन्दभट्टाचार्यः । तन्न । प्रमाणेन फले जननीये जनिते च ता- दृशशङ्कानिवृत्तेरनुपयोगित्वेन तर्कस्य प्रमाणानुग्राहकतानुपपत्तेः । तत्वनिर्णयार्थमितिपुत्रविरोधाञ्च । नच पदर्थतत्त्वविचारे सूत्रविरोधप्रमाणानुग्राहकतानुपपत्ती न दोषायेति वाच्यम् ॥ अ- प्रयोजकत्वशङ्काकलङ्कितानुमानेन श्रुतिबाधसम्भावनाविरहेऽना- यासेन खण्डनकृतां विजयापत्तेः ।
नचैवं तर्ककारणीभूतज्ञानेनैवानाहार्यशङ्कानिराससम्भवात्तव मतेऽपि तर्कवैयर्थ्यमेवेति वाच्यम् । तेन निरासासम्भवात् । तथाहि ’तर्केण पक्षधर्मतांशे आहार्य्यापाद्यव्याप्यापादकवत्तानिश्चयो हेतुः’ इति मते, निर्वाह्नित्वव्यापकनिर्धूमत्वाभावव्यापकनिर्वाह्नित्वाभा- वप्रतियोगिनिर्वह्नित्ववानित्याकारस्य व्यतिरेकिव्याप्तिविशिष्टव-