आभूतसम्प्लवं स्थानममृतत्वं हि भष्यते ” इति । अत एव च श्रुतिः" न कमेण न प्रजया धनेन त्या गेनैके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां वि-
एतदपि युक्तिसौकर्य्यादुक्तम् । “अपाम सौमम्" इत्यनेन कर्म प्राशस्त्यमेत्व लक्ष्यते न फडं विधीयते वाक्यभेदप्रसङ्गादिति । नच प्रवाहानादित्वपरैवापामेति भवतु ।
इमं मानवमावर्त्तं न पुनरावर्तन्ते,
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ॥
एकया यात्यनावृत्तिमन्ययाऽऽवर्त्तते पुनः ॥
इत्यादिविरोधापत्तेः । भूतसंप्लवः प्रलयः । यतः कर्मजन्य- ममृतत्वं न भवति, अत एत्र श्रुतिः कर्मणाममृत्वसाधनस्वं निषेध- तीत्याह-अत एवच श्रुतिरिति । एके संसारविरक्ता अमृत- त्वमानशुरानशिरे प्राप्ता इयर्थः । केन ? कर्मादित्यागेन, नतु कर्मादिनेति योजना । न त्वेके त्यागेनपरे त्वन्यथाऽपीति ।
‘नान्यत्र सर्वे सन्त्यागान्मोक्षं विन्दन्ति, मानवः’ ।
इत्यादिविरोधप्रसङ्गात् । त्यागरूपसंन्यासस्य च विज्ञानद्वारैव मोक्षकारणताऽभिमतेति “ज्ञानादेव तु कैवल्यम्’इत्यादे- रविरोध एवेति । किं तदमृतमित्याकाङ्क्षायां तद्धकश्रुतिमुप- न्यस्यति परेणेति। अत्राभेदे तृतीया । नाकं सुखम् । तथाचोत्कर्षा-. वधिभूताभिन्नं सुखमित्यर्थः ॥
केचित्तु कं सुखं तद्भिन्नमकं दुःखं तदनविकरणं स्वरैस्ततः परेण परमित्याहुः ।
ननु यत् प्राप्यं तद् देशकालव्यवहितं परिच्छिन्नमनित्यं गु- दृष्टं यथा ग्रामादि तद्वदिदमपि स्यादत आह निहितं गु हायामिति । अत्र परतो नीरन्ध्रावरणसंकुचितद्वारगमनगम-