मेकान्तमत्यन्तश्चापनेष्यति । श्रुतिश्च-“स्वर्गकामो यजेत'इति ।
स्वर्गश्च--
सर्वत्सरः’ इति दर्शनाद् मासेषु संवत्सरत्वमाश्रित्य सुखेनायं मनुष्याधिकारः, उत “संवत्सरप्रतिमा वै द्वादशरात्रयः' इति प्रयोगाद्वादशरात्रेिषु संवत्सरशब्दः, उत दिवसेषु इति पक्षाः ॥
नाद्यः । “शतायुः पुरुषः'इति विरोधात् । रसायनस्यैतावदा- युःसम्पादनासामर्थ्र्यात् । न द्वितीयः । “शास्रफलं प्रयोक्तरि" इतिन्यायात्समग्रकर्मानुष्ठायिनामेव फलनिर्णये तेषां प्रवृत्य सम्भवात् । न तृतीयः । प्रत्यक्षादिविरोधात् । चतुर्थपक्षे "पश्वपञ्चाशतः" इतेियजमानाभिप्राया संख्या एकोऽपि त्रिवृत्स्तोम- कयागयुक्तः संवत्सरः पञ्चपञ्चाशत्संख्यैः प्रत्येकं कर्तृभूतैः संबश्यमानस्तत्सैख्यो भवति तथा पञ्चदशादयोऽपीते तेन चतुःसंवत्सरमिदं सत्रमर्द्धतृतीयैर्यजमानशतैः क्रियमाणं सहस्रसं- वत्सरमिति कथ्यत इति “चतुर्विंशातपरमाः सलमासीरन्" इति वचनविरोधापत्तिः । न पञ्चमः । आधानादूध्वं सहस्रमासजी- वनासम्भवेनाशक्तितादवस्थ्यात् । न षष्ठः । संवत्सरशब्दस्य प्र तिमाविशेषणत्वेन द्वादशरात्रिष्वप्रयोगात्तस्मात्रिवृदादिमामञ्ज- स्याद्दिवसेषु संवत्सरशब्दः । त्रिवृदादिपदैस्तोमविशिष्टमहरुच्यते नाहःसङ्कस्ततोऽहःसु गौणी संवत्सराभिधेति ।
ननु ज्योतिष्टोमस्य पूर्णमासादिजन्यस्वर्गे व्यभिचारवारणाय विजातीयस्वर्गं प्रत्येव हेतुत्वावश्यकत्वे कृतज्योतिष्टोमस्यापि परोत्कर्षॉसहनजन्यदुःखसम्भवात्कथमात्यन्तिकदुःखनिवृत्तिरेित्या- शङ्क्याह कर्मकलापइति । तथा च निखिलकाम्यकर्मानुष्ठाने परोत्कर्षासम्भवेन न दुःखोत्पत्तिरिति भावः ।