तत्त्वज्ञानस्यान्यथासिद्धत्वाच्च । नच स्वसमानाधिकरणस्वस- मानकालीनयावत्प्रागभावानामुत्तरसमयसम्बन्धित्वरूपपरिपालनमेव तत्त्वज्ञानस्य फलमस्त्विति वाच्यम् । प्रतिबन्धकाभावविशिष्ट- दुःखसामग्रय दुःखोत्पादसम्भावेन तादृशफलस्यानेन कर्त्तुमशक्यत्वात् । नच दुःखानुत्पाद एव पुरुषार्थो भवत्विति वाचयम् । तत्प्रागभावस्यात्यन्ताभावस्य वा ज्ञानासाध्यत्वा ध्वंसस्य तु निरस्तत्वात् । एतेन चरमदुःखध्वंसो मोक्ष इति परास्तम् । अत्रापि पूर्वोक्तान्यथा- सिद्धत्वदोषानिवृत्तेः । दुःखप्रागभावासहवृत्तिदुःख्ध्वंसरूपचरमदुःखध्वंसर्वस्य नीलघटत्वदार्थसमाजग्रस्ततया कार्यंतानवच्छेदकत्वाच्च । आर्थसमाजग्रस्तत्वं च सामग्रीद्वयायत्तत्वम्। तच्चात्रापि विशेषणांशस्य तत्तत्प्रागभावनाशाकदुःखसाम- ग्रीस्वाव्यवहितक्षणोत्पन्नविशेषगुणोत्पादकसामग्रयोः सत्त्वादक्षतम् । नचार्थसमाजग्रस्तधर्मस्य कार्यंतानवच्छेदकत्वे प्रमाणाभाव एव बीजम्, तच्चात्रपि नास्तीति वाच्यम् । चरमदुःख्ं तत्त्वज्ञानान्नश्यतीति बोधकप्रमाणश्रुतेरन्यस्य वाऽदर्शनात् । न च चपरमदुःखमेव तत्वज्ञानादृते न भवतीति वाच्यम् । यावदुःखभावेषु नष्टेषु तत्कालीनदुःखस्यान्यत्र क्लृप्तकारणत एव निर्वाहे पृथक्कारणत्व- कल्पनाऽसंभवात् । तत्कल्पने तु अहो अतिविलक्षणस्त्वं नैयायिकमुमुक्षुर्यस्त्वं ब्रह्मलोकान्तं सुखं परित्यज्य दुःखार्थमेव यतसे ।
नच यदि दुःखनिवृत्तिर्न पुरुषार्थस्तर्हि कथं मृग्यत इति वाच्यम् । अन्यच्छानधीनेच्छाविषयत्वरूपस्वतः पुरुषार्थत्वाभावेऽपि सुखं दुःखाभावे सत्येव भवतीति सुखसाधनान्तरवत्तस्यापि सुखसाधनत्वेनेच्छाविषयत्वसम्भवात् । नचैवं हि भोजनादिसुखे सत्येव बुभुक्षादुःखें निवर्त्तत इति दुःखनिवृत्त्यर्थमेव भोजनादिसुखं मृग्यते न तु