'सुखादिगतप्रतिबिम्बत्वं भोगत्वम्' इति पक्षे तु प्रतिबिम्ब- स्यानित्यत्वान्न स्मृत्यनुपपत्तिः । पक्षोऽयम् “अध्यवसायो बुद्धिः” (सां० त० कौ० का० २३) इत्यत्र व्युन्पादयिष्यते ।
भुक्तभोगामिति विशेषणेन हेयत्वे दुःखसम्बन्धप्रयोजकत्वरूषं बीजं सूचितम् । अत एव जहतीत्युक्तम् । जहति त्यजन्ति । उक्तदुःखजनकसंयोगविरोधिाविभागानुकूलव्यापारवन्त इत्यर्थः । अत्र व्यापारस्तु सत्त्वपुरुषान्यताख्यातिरूपः ।
ननु प्रकृतिपुरुषयोरपरिचच्छिन्नतया नित्यत्वेन च संयोगासम्भवः
तत्सम्भवेऽपि मुक्तामुक्तपुरुषसाधरणतया कथं बन्धहेतुत्वम्,
कथं वा तस्य निवृतिः , सम्बन्धिनोर्नित्यत्वे तस्यापि नि
त्यत्वादिति चेत्, न । प्रकृतेः परिच्छिन्नापरिच्छिन्नत्रिविधगुणसमु-
दायरूपतया परिच्छिन्नगुणावच्छेदेन पुरुषसंयोगोत्त्पत्तिसम्भवात् ।
स्वस्वबुद्धिभावापन्नप्रकृतिसंयोगविशेषस्यैवात्र संयोगशब्दार्थत्वाच्च ।
वैशेषिकादिवदेव भोगजनकतावच्छेदकत्वेन सिद्धस्यान्तःकरणसंयोगे वैजात्यस्याङ्गीकार्रेण च सुषुप्त्यादौ न बन्धप्रसङ्गः । पुरुषम्य बुद्धौ स्वत्वं च स्वभुक्तवृत्तिवासनावत्त्वम्। तच्चानादि । तादृशसंयोगश्चाविवे- कहेतुकः, अविवेकस्तु मुक्त्तेषु नास्तीति न पुनस्तेषां संयोगभावना, नवा संयोगस्य नित्यत्वम् ।
न चाजसंयेोग मानाभाव इति वाच्यम्। आकाशादिकमात्मना संयुज्यते संयोगित्वात् घटवदित्यस्यैव मानत्वात् । नच मूर्त्तत्वा- दिरत्रोपाधिः । व्यतिरेकासिद्धेः । यदमूर्तं तदात्मना न संयुज्यते यथा रूपमिति व्यतिरेकस्तत्र चासंयोगित्वस्यैवोपाधितया व्यतिरे- कासिद्धेः । मूर्त्तत्वं चावच्छिन्नपरिमाणाधिकरणत्वम् । ततश्च परि- माणाधिकरणत्वेनैव व्याप्तिसिद्धेरवच्छिन्नविशेषणस्य पक्षमात्र व्यावृत्तिप्रयेोजनस्य पक्षेतरंता ।
न चान्यतरकर्मोभयकर्मसंयोगरूपकारणत्रितयजन्यत्वं संयो-