विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १८१-१८५

विकिस्रोतः तः
← अध्यायाः १७६-१८० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १८१-१८५
वेदव्यासः
अध्यायाः १८६-१९० →

3.181
मार्कण्डेय उवाच ।।
मनो मन्तस्तथा प्राणो नरो यानश्च वीर्यवान् ।।
चितिर्हयो नयश्चैव हंसो नारायणस्तथा ।। १ ।।
विभुश्चापि प्रभुश्चैव साध्या द्वादश कीर्तिताः ।।
पूजयेच्छुक्ललपक्षे तान्द्वादश्यां मार्गशीर्षतः ।।२ ।।
कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति तेषां तु सलोकमेव ।।
तत्रोष्य कालं सुचिरं नरेन्द्र राजा भवेद्बाह्मणपुङ्गवो वा ।। ३ ।।
इति श्रीविष्णु०ध० तृतीयखण्डे मा०व०सं० साध्यव्रतवर्णनो नामैकाशीत्युत्तर शततमोऽध्यायः ।। १८१ ।।
3.182
मार्कण्डेय उवाच ।।
धाता मित्रोर्यमा पूषा शक्रेशो वरुणो भगः ।।
त्वष्टा विवस्वान्सविता विष्णुर्द्वादशकस्तथा।। १ ।।
पूजयेद्द्वादशादित्याञ्छुक्लपक्षे ह्युपोषितः ।।
मार्गशीर्षादथारभ्य गन्धमाल्यान्नसम्पदा ।। २ ।।
दत्त्वा व्रतान्ते पुरुषः सुवर्णमाप्नोति लोकान्सवितुर्नृवीर ।।
मानुष्यमासाद्य भवत्यरोगो जितेन्द्रियश्चैव धनान्वितश्च ।। ३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कामदेव व्रतवर्णनो नाम द्व्यशीत्युत्तरशततमोऽध्यायः ।। १८२ ।।
3.183
मार्कण्डेय उवाच ।।
शुक्लपक्षे महाराज त्रयोदश्यामुपोषितः ।।
पूजयेत्कामदेवन्तु वैशाखात्प्रभृति प्रभो ।। १ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।।
दद्याद्व्रतान्ते विप्राय गन्धवस्त्रयुगं तथा ।। २ ।।
कृत्वा व्रतं वत्सरमेतदिष्टमासाद्य लोकं सुचिरं मनुष्यः ।।
मानुष्यमासाद्य भवत्यरोगो सुखान्वितो रूपसरूपता च ।। ३ ।।
इति श्री वि०ध० तु०ख० मा०व०सं० कामदेवव्रतवर्णनो नाम त्र्यशीत्युत्तरशततमोध्यायः ।। १८३ ।।
3.184
मार्कण्डेय उवाच ।।
शुक्लपक्षे महाराज त्रयोदश्यामुपोषितः ।।
फाल्गुनात्तु समारभ्य नित्यं संपूजयेन्नरः ।। १ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।।
सुवर्णं ब्राह्मणेन्द्राय व्रतान्ते प्रतिपादयेत् ।। २ ।।
कृत्वा व्रतं वत्सरमेतदिष्टं यक्षेषु राजन्सुचिरं तथोष्य ।।
मानुष्यमासाद्य धनान्वितः स्यात्सौभाग्ययुक्तश्च तथा विरोगः ।। ३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे धनव्रतवर्णनो नाम चतुरशीत्युत्तरशततमोऽध्यायः ।। १८४ ।।
3.185
शुक्लपक्षचतुर्दश्यां ज्येष्ठा दारभ्य यादव।।
वायुं संपूजयेद्देवं सोपवासो जितेन्द्रियः ।।१।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा।।
संवत्सरान्ते दातव्यं वस्त्रयुग्मं द्विजातये ।। २।।
कृत्वा व्रतं वत्सरमेतदिष्टं चासाद्य लोकं मरुतां मनुष्यः ।
सुखानि भुक्त्वा सुचिरं महीप मानुष्यमासाद्य भवत्यरोगः ।। ३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वायुव्रतवर्णनो नाम पञ्चाशीत्युत्तराशीतितमोऽध्यायः।।१८५।।