विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १७६-१८०

विकिस्रोतः तः
← अध्यायाः १७१-१७५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १७६-१८०
वेदव्यासः
अध्यायाः १८१-१८५ →

3.176
मार्कण्डेय उवाच ।।
क्रतुर्दक्षो रिपुः सत्यः कालकामौ ध्वनिस्तथा ।।
कुलवान्मनुजो विश्वो रोचमानश्च ते दश ।। १ ।।
विश्वेदेवा समाख्याता दशात्मा केशवो विभुः ।।
तस्य संपूजनं कार्यं सितपक्षे नराधिप ।। २ ।।
आरभ्य कार्तिकान्मासाद्दशम्यां नृपपुङ्गव ।।
मण्डलेषु च मुख्येषु यदि वार्चासु यादव ।। ३ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ।।
व्रतान्ते कनकं दद्याद्यथाशक्ति द्विजातये ।। ४ ।।
कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति तेषां सुचिरं च लोकान् ।।
तत्रोष्य लोके पुरुषत्वमेत्य राजा भवेद्ब्राह्मणपुङ्गवो वा ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विश्वेदेवदशमीपूजावर्णनो नाम षट्सप्तत्युत्तरशततमोऽध्यायः ।।१७६।।
3.177
मार्कण्डेय उवाच।।
आत्मा ह्यायुर्मनो दक्षो मदः प्राणस्तथैव च ।।
हविष्मांश्च गतीष्टश्च ऋतः सत्यश्च ते दश ।।१।।
देवस्त्वङ्गिरसो नाम दशम्यां पूजयेन्नरः।।
सोपवासः कृष्णपक्षे पूर्वोक्तविधिना नरः ।।२ ।।
कृत्वा व्रतं वत्सरमेतदिष्टान्प्राप्नोति तेषां सुचिरं च लोकान् ।।
तत्रोष्य लोके पुरुषत्वमेत्य राजा भवेद्ब्राह्मण पुङ्गवो वा।।३।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे अङ्गिराव्रतवर्णनो नाम सप्तसप्तत्युत्तरशततमोऽध्यायः।।१७७।।
3.178
मार्कण्डेय उवाच ।।
शुक्लपक्षे दशम्यां तु सोपवासस्तथा नरः ।।
मार्गशीर्षादथारभ्य नित्यमेतदरिन्दम ।। १ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ।।
घृतेन जुहुयाद्वह्निं ब्राह्मणाँश्चात्र च पूजयेत्।।२।
व्रतावसाने दद्याच्च तथा धेनुं पयस्विनीम्।।
व्रतमेतद्विनिर्दिष्टमश्वमेधफलप्रदम्।। ३।।
कृष्णपक्षे तथाप्येतत्कृत्वा संवत्सरं व्रतम्।।
राजसूयमवाप्नोति फलमुद्धरति स्वकम्।।४।।
कृत्वा पक्षद्वयेप्येतद्व्रतं मनुजसत्तम।।
राजसूयाश्वमेधानां फलं प्राप्नोत्यसंशयम्।५।
स्वर्गलोकमवाप्नोति कुलमुद्धरति स्वकम्।।
धर्मे मतिर्भवेत्तस्य धर्ममाप्नोत्यसंशयम्।६।।
यत्रयत्राभिजायेत तत्र धर्मपरो भवेत्।।
प्रधानं तं तया राजन्यत्र धर्मपरो भवेत् ।।७।।
आरोग्यमायुष्यकरं यशस्यं स्थानप्रदं पापविनाशकारि ।।
कर्तव्यमेतत्पुरुषैर्यथावत्पूज्यो हि विष्णुर्भगवान्सधर्मः ।।८।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे धर्मव्रतवर्णनो नामाष्टसप्तत्युत्तरशततमोऽध्यायः ।।१७८।।
3.179
मार्कण्डेय उवाच ।। अङ्गारकं तथा सूर्यं निर्ऋतिं वाद्यशस्तथा ।।
हवनं चेश्वरं मृत्युं कपालिमथ किंकिणम् ।। १ ।।
तत्र चैकादशांशैस्तु देवांस्त्रिभुवनेश्वरान् ।।
एकादश्यां सोपवासः सोमं संपूजयेत्तथा ।। २ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।।
मार्गशीर्षादथारभ्य यावत्संवत्सरं भवेत् ।। ३ ।।
संवत्सरान्ते दद्याच्च तथा धेनुं पयस्विनीम् ।।
कृत्वा व्रतं वत्सरमेतदिष्टं भद्रत्वमाप्नोति नरस्तु राजन् ।।
रुद्रेण सार्ध सुचिरं रमित्वा कामानवाप्याथ मनोभिरामान् ।। ४ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा०व०सं० रुद्रव्रतवर्णनो नामैकोनाशीत्युत्तरशततमोऽध्यायः।।१७९।।
3.180
मार्कण्डेय उवाच ।।
भुवनो भानवश्चैव सुजन्यः सुजनस्तथा ।।
क्रतुः सर्वश्च मूर्धा च त्याजश्च व्यम्नकस्तथा ।। १ ।।
प्रसवश्चाप्ययश्चैव दक्षो द्वादशकस्तथा ।।
भृगवो नाम निर्दिष्टा देवा द्वादश याज्ञियाः ।। २ ।।
तेषां सम्पूजनं कुर्याद्द्वादश्यां नित्यमेव तु ।।
मार्गशीर्षादथारभ्य कृष्णपक्षे सदैव तु ।। ३ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।।
संवत्सरान्ते दद्याच्च ब्राह्मणाय पयस्विनीम् ।। ४ ।।
कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति तेषां च सलोकमेव ।।
तत्रोष्य कालं सुचिरं मनुष्यो राजा भवेद्वा द्विजपुङ्गवो वा ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० भृगुव्रतवर्णनो नामाशीत्युत्तरशततमोऽध्यायः ।।। १८० ।।