टी- अत एव तद्विभागमाह । स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्था इति द्विधा । विमुक्ताः दुःखात् । दुःखसंस्थाः वर्तमानढःखाः । चशब्दो दुःख संस्था इत्यतःपरं योज्यः । अत्र प्राधान्यक्रमेणोद्देशः । दुःखसंस्थानां प्रभेदमाह । दुःखसंस्थाः मुक्तियोग्या अयोग्या इति च द्विधा ॥४॥ अयोग्याः मुक्तेः । अयोग्या इत्यतःपरं चशब्दो ज्ञातव्यः । अत्रापि तदेवोद्देशक्रमे निमित्तम् । ननु च प्राधान्याद्विमुक्तभेदः प्रथमं न युक्तम् । प्रकारत्वस्य स्वाश्रयव्यक्तिभेदं विनानुपपत्तेः । तथा चव दुःखास्पृष्टस्यापि भेदवत्वं प्राप्तमत आह । अत एवेति । तदेवविवृणोति। ॥ दुःखास्पृष्ट इति । रा-अत्रापि तदेवेति। प्राधान्यमेवेत्यर्थः ।दुःखसंस्थेष्वेवेति। नतु मुत्तेष्विति भावः । योग्यतायाः स्वभावत्वेन मुक्तेष्वपि मुक्तियोग्य तायाः सत्वान्मुक्तियोग्यभेदकथनस्येत्युक्तावविरोधः। यद्वा एवै विमुक्ति ोग्या इत्येतदभिप्रायमिदम् ॥ श्री–अत एव तद्विभागमिति । धाप्रत्ययेन दुःखस्पृष्टेष्व वान्तरभेदस्य झापितत्वादेव । तजिज्ञासायां तद्विभागमाहेत्यर्थः । का-निगडमुक्तवारणायाह । दुःखादिति । आत्यन्तिकदुःख निवृत्तिलाभाय विशब्दः । आत्यन्तिकत्वञ्च दुःखप्रागभावानवच्छिन्न त्वम् । तथा च दुःखप्रागभावानवच्छिन्नदुःखाभावविशिष्टत्वं दुःख विमुक्तत्वमिति निष्कर्षः । वर्तमानदुःखाः । वस्तुतस्तु एतत्कल्पे प्रागभावानधिकरण कालवृत्तिदुःखोपलक्षितत्वं वर्तमानदुःखत्वम् । सृज्यजीवसंग्रहायैतत्क ल्पवृत्तित्वमुपेक्षितम् । तेषामेवतत्कल्पीयदुःखशून्यत्वेऽपि एतत्कल्प प्रागभावानधिकरणीभूतोत्तरकल्पीयदुःखवत्वात्सङ्ग्रहः । सुप्तानामपि दुःखोपलक्षितत्वान्नोक्तदोषः।
पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१२०
दिखावट