एव दुःखास्पृष्ट प्रभेदाभावात् दुःखस्पृष्टापेक्ष्यैव धाग्रत्ययः पूर्वोक्तो ज्ञातव्यः । श्री-ननु रमायाः अस्वतन्त्रवेतनस्य दुःखास्पृष्टत्वलाभेऽपि ईश्वरस्य दुःखास्पृष्टत्वमलब्धमित्यपेक्षायामाह । परमेश्वरस्येति । स्व तन्त्रमस्वतन्त्रञ्चेति आदौ स्वातन्त्र्येण उद्देशादेव दुःखास्पृष्टत्वं सिद्ध मित्यर्थः । स्वातन्त्र्यस्य दुःखाभावोपपादकत्वादिति भावः । तथाचवायं प्रयोगः ईश्वरः-न दुःखवान्-तजिहासुत्वे सति स्वतन्त्रत्वात् । यो यज्जिहासुत्वे सति स्वतन्त्रः सः तदभाववान् । यथा सम्मत इति । उक्तञ्चानुव्याख्याने । “ यद्धीना गुणाश्चैव दोषा अपि हि सर्वशः । गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः' इति । अत्र दुःखस्यापि दोषकार्यत्वात् दोषशब्देन दुःखस्यापि ग्रहणमिति ज्ञातव्यम् । अनयोः दुःखस्पृष्टतदस्पृष्टयोर्मध्ये । प्रधानमिति । तथाचव तदेव प्रथममुद्देष्ट व्यमिति भावः । तर्हि उद्देशानुसारेणैव निर्देशोऽपि कस्मादादौ नक्रियत इत्यत आह । तथापि प्राधान्यक्रमस्येति । नन्वेवं प्राधान्यक्रमस्य मुख्यत्वादेव प्रथममुद्देशोऽपि तथैव कस्मान्नकृत इति चेन्न । प्रतियोगि ज्ञाने विना प्रथमं दुःखास्पृष्टस्य ज्ञातुमशक्यत्वात् । न चैवं निर्देशोऽपि तथैव स्यादिति वाच्यम् । उद्देशेनोभयोझने निर्देशे प्राधान्यक्रमस्या दर्तुमुचितत्वादिति भावः ॥ द्वे । चेतने । निर्दिशतीति । शृङ्गिग्राहि कया दर्शयतीत्यर्थः । चेतना रमाव्यतिरिक्ताः । एके रामानुजाः ।।व्यष्टि समष्टिभेदेनेति । व्यष्टयो मुक्ताः। समष्टयः संसारिणः। अनन्तः शेषः। ॥ अत्रवेति । श्रीश्रीपतिभ्यां अन्ये जीवाः दुःखस्पृष्टा इत्यत्र 'जीवा एवतु दुःखिनः' इत्याद्यागमानां प्रामाण्यमिति राघवेन्द्रीये । समष्टि जीवत्वेन परपरिकल्पितानामपि गरुडादीनां दुःखस्पृष्टत्व इत्यर्थः ॥ आगमानामिति । ते चान्यत्र द्रष्टव्याः । ननु दुःखस्पृष्टं तद्स्पृष्ट मिति द्वेधैव चेतनमिति धाप्रत्ययेन चेतनस्य प्रकारद्धयवत्वमुक्तम् । दुःखस्पृष्टतद्स्पृष्टयोः प्रकारत्वञ्च तद्भाश्रयप्रकारिरूपव्यक्तिबाहुल्यं विना
पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/११९
दिखावट