पृष्ठम्:तन्त्रवार्तिकम्.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय: पाद: ॥ १५१ भिन्नाभिर्विप्रकीर्णत्वान्नास्मृताभिः प्रवर्तनम्। नेकप्रपाठकनेव ह्याचाराणां विधिस्थितिः ।। क चित्प्रकरणे कश्चित् कथं चिदुपलभ्यते तद्यथा ऽग्प्रिकरणे यत्सप्तदशावतीमुपदधात्यन्नमेवोभयतो दधाति तस्मादुभाभ्यां इस्ताभ्यां परिगृह्वा पुरुषो ऽन्नमतीति सत्यपि हेतुवनिगदत्वे प्रसिद्विरचिते चेत्वसंभवात्। विधयिष्यते तु वेद वचनेनेत्यनेन न्यायन विध्यनमानं न चैतन्नियोगती प्रजायन्ते तस्मादश्यत्यये प्रजा इति वत् स्वभावप्राप्तत्वेनार्थप्राप्त त्यन्यार्था(१)त्पुरुषधर्मविधिः। एवमन्नमेव तद्दक्षिणतो दधाति तस्माद्दक्षिणेन इस्तेन पुरुषोन्नमत्तीति तथा दीठितो नयनं द क्षिणां प्रथममङते सव्यं हि मनुष्याः पूर्वमञ्जते विधृत्याइति , तथा यूपैकादशिन्यां द्वे द्वे रशने यूपम्सृच्छतस्तस्मात् स्त्रियः पुंसी ऽतिरिक्तास्तस्मादुतैको बीज्जया विन्दते नैका बन् पतीनि ति । तथा दर्शपूर्णमासप्रकरणे ऽमीषोमीयविधिसंबन्धस्लङ्घनेन त्वाष्ट्रवधनिमित्तेन्द्रगतब्रह्महत्यात्रीयविभागप्रतिग्रहप्रस्तावा गतरजस्वलात्रतानां भूमिशयनास्तानामांसभक्षणानभ्यङ्गानञ्ज नाविलेखनाकर्त्तनादन्तधावनानखच्छेदनारज्जुसंसर्जनादीनां त्रिरात्रविषयाणां प्रकरणातिरिक्तस्रीधम्र्मत्वावधारणम् । एवं च विप्रकीर्णानामशक्यैकत्र संहृतिः । स्मृतिमेव दृढां मुवा तस्मादख्यन्तंरा मृतिः ॥ तेनाचारः सृतिं यावदनुमातुं प्रवर्तते । (१) अनूतेत्यतो न्यायादिति पाठान्तरम् ।