शब्दकौस्तुभः/अध्यायः १-पादः १/आह्निकम् ८

विकिस्रोतः तः
← आह्निकम् ७ शब्दकौस्तुभः
आह्निकम् ८
[[लेखकः :|]]
आह्निकम् ९ →


स्थानिवदादेशोऽनल्विधौ (पाoसूo1-1-56)।
आदेशः स्थानिवत्कार्यं लबते प्रवर्त्तयति च। तृतीयान्ताद्वतिना स्थानिना तुल्यं वर्त्तते इति वाक्यार्थलाभात्। यद्रूपवैकल्यादुपदेशाप्रवृत्तौ सत्यामतिदेसो मृग्यते तच्चेद्रूपं स्थान्यलोऽसाधारणं न भवेत्। आवधिषीष्ट। अत्र हन्तेर्विधीयमानमात्मनेपदमतिदेशाद्वधेरपि भवति। आवधिषीष्ट। अत्र हन्तेर्विधीयमानमात्मनेपदमतिदेशाद्वधेरपि भवति। ``आङो यमहनः (पाoसूo1-3-28) इत्यत्र हि अल्नाश्रीयते। `रामाय' इत्यादौ ``सुपिच (पाoसूo7-3-102) इति दीर्घे कर्त्तव्ये यद्यपि यञादौ इत्यलाश्रीयते तथापि न तत्र तद्विरहप्रयुक्ता ``सुपिच (पाoसूo7-3-102) इत्यस्याप्रवृत्तिः, यादेशस्य यञादित्वात्। युप्त्ववैकल्यात्तूपदेशस्याप्रवृत्तिः। सुप्त्वञ्चेह यद्यपि ए इत्यस्मिन्नलि वर्त्तते तथापि न तदलोऽसाधारणम्, भ्यामादौ समुदाये विश्रान्तेः। इदं च कार्यकालपक्षाश्रयेणोक्तम्। यथोद्देशपक्षे तु सुप्सञ्ज्ञाया अपि शास्त्रीयत्वात्सैवातिदिश्यते। तत उपदेशेनैव दीर्घ इति न किञ्चित्कष्टम्। एतेन `अरुदिताम्' `अरुदित्म्' इत्यादाविडागमोऽपि व्याक्यातः। तत्रापि सार्वधातकसञ्ज्ञातिदेशसम्भवादिति दिक्।
     अत्र धात्वङ्गकृत्तद्धिताव्ययसुप्तिङ्पदादेशाः प्रयोजनमिति वृत्तिकृतः। उदाहरणदिक् चेयम्, न तु परिगणनमिति भ्रमितव्यम् ``च्लेः सिच् (पाoसूo3-1-44) आर्द्धदातुके विवक्षिते। अत एवाङ्गात्पृथक् धातूपादानम्। धातुत्वाद्धातुप्रत्ययाः--भव्यम्। केन, काभ्यां, कैः। अङ्गत्वादिनादेशदीर्घैस्भावाः। कृत्--प्रकृत्य, कृत्वा। ``ह्रस्वस्य पिति कृति (पाoसूo6-1-71) इति तुक्। अद्यतन्म् तद्दितत्त्वात्तदन्तत्वप्रयक्ता प्रातिपदिकसञ्ज्ञ। `कदश्व' स्थानिवद्भावेनाव्ययत्वादव्ययपूर्वपदप्रकृतिस्वर इत्याहुः। तच्चिन्त्यम्, स्थानेन्तरतमपरिभाषया गतार्थत्वात्। `अधोऽधः' इति तूदाहरणमाष्टमिकद्वित्वस्य स्थानेद्विर्वचनरूपत्वात्सम्भाव्यते, किन्तु तत्रापि फलं दुर्वचम्। तस्माद् `अधोऽधः कामः' इत्युदाहार्यम्। ``अतः कृकमि (पाoसूo8-3-46) इति प्राप्तस्य सत्वस्याव्ययत्वात्पर्युदासः। यत्तु वृत्तौ `प्रस्तुत्य' इत्यव्ययादेशोदाहरणम्। तच्चिन्त्यम्, कक्त्वामात्रस्यानव्ययत्वात्। तदन्तविधेः सर्वैकवाक्यतया सिद्धान्तितत्वात्। न चु जहत्स्वार्थायां वृत्तौ क्त्व आनर्थक्यात्सर्वे सर्वपदादेशा इत्यभिप्रायेेदमिति वाच्यम्, ``ह्रस्वस्य पिति कृति (पाoसूo6-1-71) इति तुगबावापत्तेरिति दिक्। सुप्रामाय। तिङ्--अपचताम्, तिङन्तत्वात्पदत्वम्। वः, नः, पदत्वाद्रुत्वादि। नन्वेवम् `अधोऽधः' इत्यस्यापि पदादेशत्वादेव गतार्थतेति चेत्? सत्यम्, गोबलीवर्दन्यायेनाव्ययग्रहणादिति दिक्। इह `काभ्याम्' इत्यादावादेशः कार्यं लभते `केन' `कैः' इत्यादौ तु परस्य प्रवर्तयतीति विवेकः।
     ननु वत्करणं मास्तु, स्थान्यादेश इत्येतावताऽपि ``असंयोगल्लिट् कित् (पाoसूo1-2-5) इत्यादाविव वत्यर्थलाभात्। यदाहुः--``परत्रपरशब्दः प्रयुज्यमानो विनापि वति वत्यर्थं गमयति इति। न च स्थानी आदेशं प्रतिपद्यते इत्येव वाक्यार्थः किं न स्यादिति वाच्यम्, तत्तदादेशविदायकैरेव गतार्थत्वात्। न चादेशःक स्थानिरूपमापद्यते, वचनद्वयप्रामाण्याच्च विकल्प इति वाच्यम्, ``वा लिटि (पाoसूo2-4-55) इत्यारम्भात्। न च चक्षिङः ख्याञ् आदेशः कस्थानीति वचनद्वयप्रमाण्यात्सर्वत्र विकल्पापत्तौ लिट्येवेति नियमार्थं तत्स्यादिति वाच्यम्, एवमपि ``विभाषा लुङ्लृङोः (पाoसूo2-4-50) इत्याद्यप्राप्तविभाषासु वाग्रहणवैफल्यापत्तेः। अस्तिभूभ्यां रूपद्वयसिद्धौ ``अस्तेर्भूः (पाoसूo2-4-52) इत्यस्य वैयर्थ्यापत्तेश्च।
     अत्राहुः---वत्करणाभावे स्थानी आदेशस्य संज्ञा स्यात्। प्रायेण ह्यस्मिन्पादे संज्ञासूत्राण्येवारभ्यन्ते। ततश्च ``आङो यमहनः (पाoसूo1-3-28) इत्यात्मनेपदं वधेरेव स्यान्नतु हन्तेः। नच ``स्वं रूपम् (पाoसूo 1-1-60) इति हन्तेरपि ग्रहणम्, अशब्दसंज्ञेति निषेधात्। न च स्थानिनः संज्ञिनि विनियोग इति पक्षे संज्ञाया एवोद्देश्यकोटिनिवेशात्। न चैवम् ``आङो वधियमः इत्येव ब्रूयादिति वाच्यम्, ``वध हिंसायाम् इति भौवादिकस्यापि ग्रहणापत्तेः। न चैवम् ``आङो वधयमः इति पठ्यताम्, अकारस्य विवक्षितत्वाच्च न भौवा दिकेऽतिप्रसङ्ग इति वाच्यम्, सकलहन्त्यादेशसंग्रहार्थम् ``आङो यमहनः (पाoसूo1-3-28) इत्यस्यैव वाच्यत्वात्। तथा चावधिष्टवद् `आजघ्ने' इत्यत्राप्यात्मनेपदं सिद्धम्। तथाहि, हन्तोर्लिटि लसामान्यापेक्षत्वादन्तरङ्गत्वात्तिबदिषु परत्वनित्यत्वाभ्यां ``शेषात्कर्त्तरि (पाoसूo1-3-78) इति कबाधित्वा ``लिटि धातोः (पाoसूo6-1-8) इति द्विःप्रयोगे ऽभ्यासस्य चुत्वेऽभ्यासात्परस्य घत्वे एकदेशविकारासम्भवेन समुदायस्य समुदायादेशत्वाद्धन्त्यादेशत्वं, ततो वधिना सहतुल्ययोगक्षेमतैवेति दिक्। अचस्तु वा स्थानिन आदेशः संज्ञा, तथाप्यनिष्टं तुल्यमेव। तथाहि, ``अस्यतिवक्ति (पाoसूo3-1-52) कइत्यत्र ख्यातिपदेन चक्षिङेव गृह्यते, कृत्रिमत्वात्। तथाच `समचक्षिष्ट' इत्यत्राऽङ् स्यात् `आख्यत' इत्यत्र च न स्यात्। न चैवं ``चक्षिङः इत्येव ब्रूयात्, अनुबन्धनिर्देशेनापि यङ्लुग्वारणसम्भवादिति वाच्यम्, एवमपि गाङ्कुटादिसुत्रे गाङा इङ्गलुग्वारणसम्भवादिति वाच्यम्, एवमपि गाङ्कुटादिसुत्रे गाङा इङ्गाङोर्ग्रहणापत्तेः। इङित्यवचनसामर्थ्याद् ह्युभ यगतिः स्यात्। ``गमेरिट् परस्मैपदेषु (पाoसूo7-2-58) इत्यत्र त्विणि ङिकामेव ग्रहणं स्यात्। तस्मात्कर्त्तव्यमेव वत्करणम्। नन्वेवं वत्कर णाभावार्धानलाघवानुरपोधात्संज्ञाप्रकरणादन्यत्रेव स्थानिवद्भावप्रकरणं क्रियतामिति चेत्? न, तथा सत्यादेशग्रहणं विना वाक्यार्थानिर्वाहेबहुगौरवापत्तेः। सिद्धान्ते त्वादेशग्रहणमतिरिच्यमानामानुमानिक*ग्रहार्थं भवतीति तद्वलेन``एकदेशविकृतस्योपसंख्यानम् इतिवार्तिकं प्रत्याख्यास्यते। अपिच ``काममतिदिश्यतां वा (भाoइo) इति वक्ष्यमाणमपिवत्करणायत्तमिति दिक्।
     स्यादेतत्, यदि संज्ञाप्रकरणे वत्करणं विना अतिदेशालाभस्तर्हि कित् ङित् इत्यादौ का गतिरिति चेत्? उच्यते, किदिति न संज्ञा ``न कत्वा सेट् (पाoसूo1-2-18) इति ज्ञापकात्। यहिक्त्वः कित्संज्ञा प्राप्ता या निषिध्यते। ननु ``मृडमृद (पाo1-2-7) िति प्राप्ता सा निषिध्यताम्, वचनद्वयसार्थक्याय च विकल्पोऽस्त्विति चेत्? न, ``मृडमृद (पाoसूo1-2-7) इत्यत्रैव वाग्रहणस्य सम्भवात्। किञ्चैवं ``निष्ठाशीङ् (पाoसूo1-2-19) इत्यादि व्यर्थं स्यात्। न हि शीङादिभ्यो निष्ठायाः केन चित्संज्ञा प्राप्ता। एवं ङिदित्यतिदेशः, कित्साहचर्यात्। किञ्च ङिदित्यस्य संज्ञात्वे ग्रहिज्यादिसूत्रेऽस्यैव ग्रहणं स्यात्, कृत्रिमत्वात्। तथाच ``न वशः (पाoसूo 6-1-20) इति सूत्रं व्यर्थ स्यात्, `वावश्यते' इत्यत्र संप्रसारणाप्राप्तेः । किञ्च ``ङ्किति च (पाoसूo1-1-5) इत्यत्रास्याग्रहणं स्यात्, संज्ञास्वरूपानुच्चारणात्। तथाच ``गाङ्कुटादि (पाoसूo01-2-1) इत्यत्र तु संख्येत्यतिदेशः। अन्यथा टिघुबादिवदेकाक्षराया एव संज्ञायाः कर्त्तव्यतापत्तेः। ``किकिनौ लिट्च (पाoसूoएo3-2-171) इत्यादि तु न संज्ञाप्रकरणं, तेन लिड्वदित्यतिदेशो निर्बाध इति दिक्।
     अथादेशग्रहणं किमर्थम्? स्थानिवदित्येतावतैव सम्बन्धिशब्दमहिम्ना तल्लाभाकत्। यथा `पितृवदधीते' इत्युक्ते पुत्र इति गम्यते इति चेत्? सत्यम्, द्विविध आदेशः-``अस्तेर्भूः (पाoसूo2-4-52) इत्यादिः प्रत्यक्षः, ``तेस्तुः इत्तयादिस्त्वानुमानिकः। अत्र हीकारेणेकारान्तः स्थान्यनुमीयते, उकारेण चोकारान्त आदेशः। तथाच ``तेस्तुः इति फलितार्थः। तत्रासत्यादेशग्रहणे प्रत्यक्षस्यैव ग्रहणं स्यान्नानुमानिकस्य। आदेशग्रहणसामर्थ्यात्तूभयपरिग्रहः तेन `पचत्' इत्यादेस्तिङन्तत्वात्पदसंज्ञा सिद्ध्यति। ननु ``एरुः (पाoसूo3-4-86) इत्यादि यथाशुतमस्तु,एकदेशविकृतस्यानन्यत्वाच्च पदत्वं भविष्यतीति चेत्? न, अर्थवत्येव स्थान्यादेशभावविश्रान्तेर्वाच्यत्वात्तस्यैव प्रसङ्गसम्भवात्। तथाहि, ``षष्ठी स्यानेयोगा (पाoसूo1-1-49) इत्युक्तम्। स्थानं च प्रसह्गः। स चार्थवतः, अर्थप्रत्यायनार्थं शब्दप्रयोगात्। यद्यपि च्लेः सिजादावसम्भवदिम्, तथापि सति सम्भवेऽर्थप्रयुक्तप्रसङ्ग एव ग्राह्य इत्यादेशग्रहणेनैव ज्ञाप्यते। उक्तञ्च--
सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः।
एकदेशविकारे हि नित्यत्वं नोपपद्यते ।।
     पदमिहार्थवत्, पद्यते ऽनेनेति व्युत्पत्तेः। यद्यपि सर्वविकारे सुतरां नित्यत्वानुपपत्तिः, तथापीह विकार एव नास्तीति तात्पर्यम्। तथाच वार्त्तिकम्--``कार्यविपरिणामाद्वा इति। कार्यमिह ज्ञानं योग्यताबलात्। तथाच ज्ञाननिष्ठमुत्पादविनाशादिकं विषये आरोप्यते इति भावः। नन्वेवं बुद्धिविपरिणाममात्रस्य स्थान्यादेशबावत्वेऽपवादेऽप्युत्सर्गकृतं स्यात्। तथाहि, कप्रत्ययान्तादप्यण्णन्तत्वप्रयुक्तो ङीप् स्यात्। अत्राह वार्त्तिककारः--`सिद्धन्तु षष्ठीनिर्दिष्टस्य स्थानिवद्वचनात् इति। ``षष्ठी स्थानेयोगा (पाoसूo1-1-49) इत्यनुवृत्तेरिति भावः। न छापवादः षष्ठीनिर्दिष्टस्य स्थाने विधीयते। ``नाभि नभञ्च (काoवाo) इत्यादौ तु षष्ठ्याः स्थाने प्रथमा बोध्या। विश्रवणरवणेत्यादीनि तु शब्दान्तराणि प्रत्ययविषयाणि बोध्यानि। विश्रवःशब्दात्तु प्रत्ययो न भवति अनभिधानादिति भावः। तथाच ``विदूराञ्ञ्यः (पाoसूo4-3-84) इति सूत्रे भाष्यम्---
बालवायो विदूरं च प्रकृत्यन्तरमेव वा।
न वै तत्रेति च ब्रूयाज्जित्वरीवदुपाचरेत् ।। इति ।।
     अस्मिन्पक्षे षष्ठीनिर्दिष्टस्य स्थाने आदेश विधीयन्ते इति वृद्धिसूत्रस्थं भाष्यं यथाश्रुतमेवेति निर्बाधम्। यत्तु स्थान्यर्थाभिधानसमर्थस्यैवादेशतेत्येवंपरतया कैयटेन भङ्क्त्वा व्याख्यातम्, तदत्रत्यपक्षान्तराभिप्रायेणेत्यवधेयम्। अथ वा श्यनः शित्करणं ज्ञापकम्-अपवादे उत्सर्गकृतं नेति। न च पित्त्वानिवृत्त्यर्थं तदिति वात्यम्, नित्त्वादेव तत्सिद्धेः। नित्त्वं ह्याद्‌युदात्तार्थम्। श्यनः पित्त्वे तु पित्तवादनुदात्तत्वे लसार्वधातुकानुदात्तत्वे च धातुस्वरेणैव सिद्धौ किं नित्त्वेन? न चानेकाक्षु विशेषः, दिवादौ तदबावात्। ``वावृत्तु वर्त्तने (दिo) इत्यस्तीति चेत्? , वाशब्दस्य विकल्पार्थत्वात्। न च भ्वादिपाठेन सिद्धेस्तद्वैयर्थ्यम्, भ्वादिपाठस्य ``वृद्भ्यः स्यसनोः (पाoसूo1-3-92) इत्याद्यन्तर्गणकार्ये उपक्षीणत्वात्। नन्वेवं--
ततो वावृत्त्यमाना सा रामशालां न्यवीक्षत । (भoकाo)
     इति भट्टिप्रयोगानुपपत्तिरिति चेत्? न, तत्र वाशब्दस्येवार्थतया कामयमानेव न तु तथा। किन्तु छलनार्थमागतेत्यर्थात्। अत्र कैयटः। ताच्छील्यादिविषये चानाशि स्यनो नित्त्वं प्रकृतेराद्युदात्तार्थं स्यादिति। तत्र हि लसार्वधातुकाभावानुदात्ताप्राप्त्या ``चितः (पाoसूo6-2-163) इत्यन्तोदात्तत्वमेव प्राप्तमिष्टं च। तत्रानिष्टार्थमेव नित्त्वं किन्न स्यादिति तस्याशयः। न त्वेतद् युक्तम् ``अन्यत्र विकरणेभ्यः इति पर्युदासाच्छ्यन्स्वरस्य दुर्बलत्वात्। न च नित्त्वसामर्थ्यात्तद्वाधः, लसार्वधातुके चरितार्थत्वात्। तत्र स्थानिवद्भावलब्धेन पित्त्वेन गतार्थतेति चेत्? न, इह नित्त्वेनातिदेशपर्युदासयोरन्यतरस्मिन्नवश्यबाध्येऽतिदेशबाधस्यैव न्याय्यत्वात्, ``पूर्वान् बाधन्ते नोत्तरान् (पoभाoएo 61) इति न्याया च्य। यत्तु कैश्चिच्चानशन्तस्याद्युदात्तत्वमिष्टमित्येवंपरतया कैयटग्रन्थं व्याख्याय ``विकरणेभ्योऽन्यत्र इति पर्युदासस्तुक यत्र विकरणः स्वरभाक् तद्विषयः, इ ह तु विकरणो न स्वरभाक् ``सौवर्यःसप्तम्यस्तदन्तसप्तम्यः इति सिद्धान्तादित्युक्तम्। तदेतन्निर्मूलम्, घुसंज्ञ्ासूत्रशेषस्थेन खरसूत्रस्थेन च भाष्येण विरुद्धं चेत्युपेक्ष्यम्। किञ्च ``आतोऽनुपसर्गे कः (पाoसूo3-2-3) इति कापवादस्य ``गापोष्टक् (पाoसूo3-2-8) इति टकः कित्करणं ज्ञापकम् नापवादे उत्सर्गकृतं भवतीति।
     अनल्विधाविति किम्? तेन तस्मात्तस्य तस्मिश्च विधौ मा भूत्। तत्राला विधौ यथा व्यूढोरस्केन। अत्र ``सोपदादौ (पाoसूo8-3-38) इति विसर्जनीयस्य स्थाने विहितस्य सकारस्य स्थानिवत्त्वद्विसर्जनीयस्य अटसूपदेशाद् ``अड्‌व्यवाये इति णत्वं ***। अलः परस्य विधौ यता-द्यौः। पन्थाः सः। अत्र हल्ङ्‌यादिलोपो न भवति। अलो विधौ यथा--``दिव उत् (पाoसूo6-1-39) द्‌युकामः। ``लोपोव्योर्वलि (पाoसूo6-1-66) इति लोपोन भवति। उत्वविधानं तु `अहर्विमलद्‌यु' इत्यादौ चरितार्थम्। अलि विधौ यथा--यजेः क्तः इष्टः। क इष्ट इत्यत्र सम्प्रसारणस्य स्थानिवत्त्वात् `कोयष्टा' इत्यादाविव ``हशि च (पाoसूo6-1-114) इत्युत्वं न भवति। `स इष्टः' इत्यत्र एतत्तदोः सुलोपो न भवति। अनल इत्युक्तेपि सम्बन्धसामान्ये षष्ठ्या प्रागुक्तानेकविभक्त्यर्थसङ्ग्रहो यद्यपि सम्भवति, तथापि विधिशब्दोपादानमप्राधान्येनाप्यल आश्रयणे निषेधार्थम्। तेन `प्रपठ्य' इत्यादि सिद्धम्। अत्र हि वलादेरित्यप्राधान्येनालाश्रितः न तु प्राधान्येन।
     स्यादेतत्। स्थान्यनुबन्धकार्याण्यपि तर्हि निषिध्येरन्। तथाच `प्रदीव्य' इत्यत्र स्थानिवद्बावेन कित्त्वं न लभ्येतेति चेत्? न, ``अनेकान्ता अन्‌बन्धाः (पाoसूo4) इचि पक्षे अनुबन्धानां स्थान्यल्त्वाभावात्। एकान्तपक्षेऽप्यन्तरङ्गेण लोपेनादेशसम्भन्धात्प्रागेवानुबन्धानामपहारात् ``न ल्यपि (पाoसूo6-4-69) इति लिङ्गाच्च। यत्तु ``सेर्ह्यपि च्च (पाoसूo3-4-87) इति ज्ञापकमुच्यते, तत्पाक्षिकम्, अपिद्वचनसामर्थ्यात्स्थानेऽन्तरतमपरिभाषया प्राप्तमनुदात्तत्वं न भवतीत्यस्यापि सुवचत्वात्। यद्यपि `सामान्यातिदेशे विशेषानतिदेशः' इति सिद्धान्तः, उपस्थितसामान्यप्रयुक्तधर्मैस्तदाक्षिप्तव्यापकसामान्यधर्मैश्च विध्याकाङ्क्षापूरणे सत्यनुपस्थितस्य विशेषस्य ग्रहणे प्रमाणाभावात्। अत एव `ब्राह्मणवदस्मिन् क्षत्रिये वर्त्तितव्यम्' इत्युक्ते माठरादिविशेषकार्यं नातिदिश्यते। अत एव च ``आशंसायां भूतवच्च (पाoसूo3-3-132) इत्यत्र भूतसामान्ये विहितयोर्लुङ्निष्ठयोरेवातिदेशो न तु भूतविशेषे विहितयोर्लङ्लिटोरपीति सिद्धान्तः। तथापीह सूत्रे ``न ल्यपि (पाoसूo6-4-69) इति लिङ्गाद्विशेषोऽप्यतिधिश्यते। किति परतो विहितमित्वं निषेद्‌धुं हि ``न ल्यपि' (पाoसo6-4-69) इत्यारभ्यते। कित्त्वञ्च त्क्वाविशेषधर्मः, सेट्के तदभावात्। तेन `प्रदीव्य' इत्यादिसिद्धम्। तस्मात् ``न ल्यपि (पाoसूo6-4-69) इत्येव सूत्रं विशेषातिदेसेऽनुबन्धकार्यातिदेशे चेत्युभयत्रापि ज्ञापकमिति स्थितम्।
     यत्तु प्राञ्चः--``अनल्विधौ (पाoसूo1-1-56) इति निषेधो विशेषा तिदेशज्ञापक इति। तच्चिन्त्यम्, `व्यूढोरस्केन' `क इष्टः' इत्यादौ विसर्गत्वस्य यण्त्वस्य च व्यापकीभूतयोरट्‌त्वहश्‌त्वयोर्निषेधेन चरिता र्थत्वात्। यद** त्क्वादेशे कृत्त्वप्रत्तययत्वाद्यतिदेशमभ्युपेत्य `क इष्टः' इत्यादौ हश्‌त्वादिविशेषातिदेशो न प्राप्नोतीति मिश्रैरुक्तम्। तत्र वि सर्गत्व्यण्‌त्वयोरट्त्वहश्‌त्वे कथं विशेषधर्माविति विपश्चित एव विदाङ्कुर्वन्तु। यद्यपि तत्‌स्थानापन्नस्तद्धर्मं लभते इति न्यायसिद्धम्। अत एव व्रीहिस्थानापन्नेषु नीवारेषु वचनं विनैव व्रीहिधर्मा अवधातादयः क्रियन्ते। तथापि तेषां प्रकृतापूर्वसाधनत्वप्रयुक्ततया युक्तं नीवारादावनुष्ठानम्। ``आङो यमहनः (पाoसूo1-3-28)इति हन्तेरात्मनेपदं तु न हिंसाद्यर्थाबिधानप्रयुक्तं येन वधौ भवेत्। किन्तु ``स्वं रूपम् (पाoसूo1-1-68) इतिवचनात्स्वरूपविशेषप्रयुक्तम्। अत एव `अतृणेड्' इत्यादौ न भवति। तस्माद्युक्त एवातिदेशारम्भः।
     स्यादेतत्। मा भून्नयायेन गतार्थता, ज्ञापकात्तु भविष्यति। तथाहि, ``युष्मदस्मदोरनादेशे' (पाoसूo7-2-86) इति सूत्रेऽनादेशग्रहणं ज्ञापयति--आदेशः स्थानिवत्स्यादिति। ``अदो जग्धिः (पाoसूo2-4-36) इति सूत्रे तिकितीत्येव सिद्धे ल्यबग्रहणमनल्विधावितीममंशं ज्ञापयति, अप्राधान्येनाप्यलाश्रयणे निषेध इत्यंशं च। तथाच किं सूत्रेणेति? उच्यते, उत्तरार्थं तावत् `स्थानिवदादेशः' इति कर्त्तव्यमेव। तस्यैव योगविभागमात्रेणैपपत्तौ सत्यामर्थापत्तिकं वचनं न कल्प्यम्। एवं स्थिते ऽनल्विधावित्ययमप्यंशः स्पष्टतिपत्त्यर्थं क्रियते, उत्तरसूत्रे द्वितीयविधिग्रहणस्यानुवृत्त्यर्थं च्च। तत्प्रयोजनं तु तत्रेव वक्ष्यते। एतदेव च सकलमभिसन्धायोक्तं भगवता--``आरभ्यमाणेऽप्यस्मिन्सत्रे इति।
     स्यादेतत्। अस्तु सूत्रारम्भः, तथापि कार्यातिदेश एवायमिति कुतः? प्रकारान्त्राणामपि सम्भवात्। तथाहि, अतिदेशः षोढा--निमित्तव्यपदेशतादात्म्यशास्त्रकार्यरू्पातिदेसभेदात्। तत्र निमित्तमशक्यमतिदेष्टुम्। ब्राह्मण्यवत्। न हि ब्राह्मणस्याग्रभोजनादौ निमित्तभूतं ब्राह्मण्यं वचनशतेनापि क्षत्रियेऽतिदेष्टु शक्यते। ``पूर्ववत्सनः (पाoसूo1-3-62) इत्यत्रापि प्रकृतिगतं निमित्तं ङित्वादि न सन्नन्तेऽतिदिश्यते। किन्तु प्रकृतिगतमेव तत्सना व्यवधाने सत्यप्यात्मनेपदं प्रवर्त्तयतीत्येतावन्मात्रमातिदिश्यते। एतावतैव च निमित्तातिदेशोऽयमिति व्यवहारः। न चायं कार्यातिदेश एवास्तामिति वाच्यम् `चिक्रंसते' `प्रचिक्रंसते' इत्यादाविट्प्रसङ्गात्। निमित्तातिदेशपक्षे त्वनुपसर्गः प्रपूर्वश्च क्रमिरेवेह सना व्यवहितोऽप्यात्मनेपदं प्रवर्त्तितवानिति ``स्नुक्रमोरनात्मनेपदनिमित्ते (पाoसूo7-2-36) इति नियमादिण् न भवति। निमित्तं हि तत्र फलोपहितमेव गृह्यते न तु स्वरूपयोग्यतामात्रमिति वक्ष्यामः। ``सिद्धंक त्वात्मनेपदेन समानपदस्थस्येट्प्रतिषेधात् इति वार्त्तिकरीत्या त्विहापि कार्यातिदेशता सुवचा न्याय्या चेति तत्रैव वक्ष्यते। व्यपदेशातिदेशस्तु ``आद्यन्तवदेकस्मिन् (पाoसूo1-1-21) इत्येकस्मिन्नप्यादिरन्त इति च व्यपदेशेतिदिष्टे तत्तत्सूत्रैरेव कार्याणीति भावः। तथा च प्राञ्चः---
आद्यान्तवद्व्यापदेशो निमित्तं पूर्ववत्सनः । इति।
     एतच्च निर्मूलगिति तस्मिन्नेव सूत्रे हरदत्तः। तस्यायं भावः--कार्यातिदेश एव तत्र युक्तः, सर्वातिदेशानां कार्यार्थत्या कार्यस्यैव प्राधान्यात्। अत एव कार्यातिदेशाभ्युपगमे यत्र बाधकावतारस्तत्रैव प्रकारान्तरानुसरणम्। न चाद्यन्तवत्सूत्रे तदस्ति, प्रत्युत व्यपदेशातिदेशपक्षे एव बाधकम्। तथाहि, `कुरुते' `कुर्वे' इत्यादावन्त्यव्यपदेश आदिव्यपदेशश्चास्तु। तथाप्यन्त्योऽजादिर्यस्येत्येवंरूपस्य बहुव्रीह्यर्थस्याभावाट्टिसंज्ञाया अभावे टेरेत्वं न स्यात्। `कुर्वाते' इत्यादौ दृष्टस्य टेरेत्वाख्यस्य कार्यस्यातिदेशे तु न कश्चिद्दोष इति। तादात्म्यतिदेशस्तुक भिन्नयोरबेदातिदेशः। ``सुबामन्त्रिते पराङ्गवत्स्वेर (पाoसूo2-1-2) इति यथा। तेन ``यत्तो दिवो दुहितर्मर्त्तभाजनम् इत्यादौ ``आमन्त्रितस्य च (पाoसूo8-1-19) इत्याष्टमिकसूत्रेण पदात्परस्यामन्त्रितस्य क्रियमाणो निघातो `दिवो दुहितर्' इति समुदाये प्रवर्त्तते। शास्त्रातिदेशस्तु ``कर्मवत्कर्मणा (पाoसूo3-1-87) इत्यत्र पाक्षिको वक्ष्यते। कार्यातिदेशो ``गोतो णित् (पाoसूo7-1-90) इत्यादिः। रूपातिदेशस्तु ``द्विर्वचनेऽचि (पाoसूo7-1-95) ``तृज्वक्रोष्टुः (पाoसूo1-1-59) इत्यादिः। तदिह कार्यातिदेश एवेत्यत्र किं विनिगमकमिति चेत्? उच्यते, कार्यस्य प्राधान्यात्तदतिदेश एवायम, अतिदेशान्तरे बाधकसत्त्वाच्च। तथाहि निमित्तव्यपदेशानिदेशौ तावत्पाक्षिकार्वित्युक्तम्। शास्त्रातिदेसोऽप्येवम्। तादात्म्यतिदेशस्तु द्वयोः सहावस्थितयोः स्यात्। सुबामन्त्रितयोरिव। इह तु स्थानी आदेशेन अपहृत इति तदसम्भवः। रूपातिदेशे त्वादेशविधानं व्यर्थं स्यात्। न च वचनद्वयप्रामाण्याद्विकल्पः--``विभाषा लुङ्लृङोः (पाoसूo2-4-50) इति विकल्पारम्भात्। तम्मात्कार्यातिदेश एवायमिति स्थितम्।
     यत्तु न्यासकारेणोक्तम्-व्यपदेशातिदेशस्संज्ञापक्षे पर्यवसन्नःक स च वत्करणसामर्थ्यादेव न भविष्यतीति। तत्रेदं वक्तव्यम्-अस्तीह संज्ञापक्षाद्वैषम्यम्। तथाहि, ``आङो यमहनः (पाoसूo1-3-28) इत्या दौ वधेरेव ग्रहणं स्यान्न तु हन्तेः । तथा `केन' `कस्माद्' इत्यादाव ङ्गकार्यादीनि न स्युरिति संज्ञापक्षे दोषद्वयम्। न चेदं व्यपदेसातिदेशेऽस्ति। ``स्वं रूपम् (पाoसूo1-1-68) इति वचनाद्धि हन्तर्हन्तिरेवसंज्ञा। तद्व्यपदेशस्य वधावप्यतिदेशे ह्युबाभ्यामात्मनेपदं लभ्यते, न तु हन्तेरेव। एवं स्थानिनिष्ठानां धात्वङ्गादिव्यपदेशानामादेशेऽतिदेशाद्दात्वङ्गादिकार्याण्यपि सुलभान्येव। तस्मात्प्राधान्यात्कार्यातिदेशोऽयमित्येव तत्त्वम्।
     अत्र वार्तिककाराः--``तस्य दोषः (भाoइo) इत्युपक्रम्य ``तथादेशे उभयप्रतिषेधः ``ङ्याबग्रहणे ऽदीर्घः ``आहिभुवोरीट्‌प्रतिषेधः इत्यादि पेठुः। तत्रोभयशब्दे यथा नातिप्रसङ्गस्तथा सर्वादिगणव्याख्यावसरे एवोपपादितम्। ङ्याब्ग्रहणेऽपि ङी ई आ आबिति दीर्घप्रश्लेषाद् `अतिखट्वेन' `अतिखट्वे' इत्यादौ नातिप्रसङ्गः। न चैवमपि `अतिखटूवाय' इत्यत्र दोषतादवस्थ्यम्, उपसर्जनस्त्रीप्रत्यये तदादिनियमसत्त्वात्। न चैवं प्रश्लेषवर्णनवैयर्थ्यम् `अतिखट्‌वे' इत्यादावङ्गाधिकारविरहेणावयवाट्टाबन्तात्परत्वमाश्रित्य हल्ङ्यादिलोपापत्तेः। न हि तत्र विहितविशेषणाश्रयणं युक्तम्। `यः' `सः' इत्यादावतिव्याप्तेः `या सा' इत्यादावव्याप्तेश्चेत्युक्तम्। अत एव सूत्रकारोऽपि तत्र दीर्घग्रहणं कृतवान्। दीर्घप्रश्लेषस्तु तत्प्रत्याख्यानाय वर्ण्यते इत्यन्यदेतत्। युक्तं चैतत्, वार्तिकमते `अतिखट्वाय' इत्यादावङ्गाधिकारबलेन कथञ्चिन्निर्वाहेऽपि `जरसे' `नसे' `पृते' इत्यादावतिप्रसङ्ग9स्य दुर्वारत्वात्, सुतामिच्छन् `सुतीः' इत्यादौ सुलोपापत्तेश्चेति दिक्। अस्तु वा आकारान्तरमपि प्रश्लिष्य तत्सामर्थ्यान्मध्ये इस्वतामापन्नस्य परिहार इति दिक्। ``आहिभुवोः इति वार्त्तिकं त्वित्थं भाष्यकाराः प्रत्याचख्युः--`आत्थ' इत्यत्र आहेः स्थानिवद्बावेन प्राप्तेऽपि ब्रुव ईण्न भवति--``आहस्थः (पाoसूo8-2-35) इतिक ज्ञा्पकात्। तेन हि ज्ञलादौ परे थत्वं विधीयते। न च कृतेपीटि भूतपूर्वगत्या झलादित्वात्थकारोऽस्त्विति वाच्यम्, एवं हि सत्याथमेव विधध्याल्लाघवात्, तिबादीनां पञ्चानामपि झलादितया णलादिनामपि भूतपूर्वगत्या झलादित्वात्। तस्माद् ``आहरुथ (पाoसूo8-2-35) इति ज्ञापकादाहेरिड्‌विधौ स्थानिवद्भावो नेतिक स्थितम्। ``अस्तेर्भूः (पाoसूo2-4-52) इति विहितस्य भुवोऽपि स्थानिवत्वनिषेधो न वक्तव्यः। ``अस्तिसिचोऽपृक्ते (पाoसूo 7-3-96) इति द्विसकारकनिर्देशेन सकारान्तादेवास्तेः परस्येड्विधानादिति।
   स्यादेतत्। अस् स् इति सकारद्वयनिर्देशे धातुत्वाभावात् श्तिवेवानुपपन्नः, पदमध्यप्रविष्टन सकारेण सिचो विशेषणासम्भवे सिजाश्रयस्य ईटः प्रसङ्गश्च। न चास्तेःक सान्तत्वेन विशेषणसामर्थ्यात्सिच्प्रयुक्तोऽपीण् नेति वाच्यम्, तथापि स्वतन्त्रस्य भवतरतिप्रसङ्गस्य दुर्वारत्वात्। तथाचार्थभेदाभावेऽपि स्वतन्त्रास्वतन्त्राभ्यां भूभ्याम् `अभूवीत्' `अभूत्' इति रूपद्वयापत्तिः। यत्त्वेतद्दोषोपन्यासपूर्वकं माधवाचार्यैरुक्तम्--``सिचोल्पाच्कत्त्वाद्बहुविषयत्वेनाभ्यर्हितत्वाच्च पूर्वनिपाते कर्त्तव्ये ``अस्तिसिचः (पाoसूo7-3-96) इतिक वचनात्तन्त्रादिना विद्यमानात्सिच इत्यर्थो लभ्यते। अत एव श्तिप्प्रयोगोऽपि सार्थकः। अन्यथा `सिजस्भ्याम्' इत्येव ब्रूयात्। न चैवमसतावस्यतौ चातिप्रसङ्गः, विकरणव्यवधानेन ताभ्यां परस्यापृक्तसार्वधातुकस्यासम्भवात् इति। तच्चिन्त्यम्, एवमपि श्तिप्प्रत्ययासमाधानेन द्विसकारकोनिर्देशक इति भाष्यस्यानिर्वाहात्। एतेन सिच्च अस् च सिचस्। समाहारद्वन्द्वे लुप्तपञ्चमीकं पदम्। अयस्मयादित्वेन भत्वान्न कुत्वजश्त्वे। अस्ति च तत्सिजस् चेति कर्मधारयः। तेन लुप्तात्सिचो भूभावेनापहृतादस्तेश्च परस्य नेति कल्पनापि प्रत्युक्ता, उक्तरीत्या रूपसिद्धावपि भाष्यानिर्वाहात्। तस्मादिह भगवतोऽभिप्रायान्तरमेव वक्तव्यमिति।
     अत्रोच्यते, अस्तिसिचस् स् हतिच्छेदः। सान्तादस्तेर्न तु कृतभूभावात्। सान्तात्सिचः श्रूयमाणादिति यावत्। तथाव सिच इत्यस्यानन्तरं सकारः प्रश्लिष्यते न तु श्तिपः प्राक्, येन माधवोक्तः श्तिप्‌प्रत्ययानुपपत्तिरुपो दोषः स्यात्। अत एव `सिचो ऽपृक्ते' इति द्विसकारको निर्देश इत्युक्तं भाष्ये। अन्यथाक ह्यस्तीति निर्देश इत्येव ब्रूयात्। नन्वेवमस्तिसिचोऽपृक्ते इति संहिता कथं निर्वहतीति चेत्? इत्यम्, ``संयोगान्तस्य लोपः (पाoसूo8-2-23) इति द्वितीयः सकारो लुप्यते। मनु लुप्तविभक्तिकं स् इति पदम्। न चैतत्संयोगान्तम्। तथाच संयोगान्तंक यत्पदं तस्य विधीयमानो लोपः कथमिह स्यादिति चेत्? न, संयोगान्तस्य पदान्तस्य लोपः स्यादिति व्याख्यानात् । संयोगेति हि लुप्तषष्ठीकं पृथक् पदम्। संयोगस्य पदस्येत्युभयं चान्तस्य विशेषणम्। एष एव च सूत्रकृतोऽप्याशयः। यदि ह्ययंक बहुव्रीहिः पदं चान्यपदार्थ इति वृत्तिकारकृतं व्याख्यानं संमतं स्यात्तर्ह्यन्तग्रहणं न कुर्यात्, संयोगेन पदविशेषणादेव तदन्तलाभात्। अपिच सरूपसूत्रे पृथक् सर्वे भ्यो विभक्तावेकशेष इति कपक्षे `वृक्षस् स्' इति प्रसज्येतत्याशङ्क्य संयोगान्तलोपात्सिद्धमिति भाष्यग्रन्थः प्रकृतव्याश्यान एवानुकूलः। यत्तु तत्र कैयटो वक्ष्यति- ``वस्तुतस्संयोगान्तस्य लोपाद्धल्ङ्यादिलोपात् इति। तत्तु मूलस्वरसविरुद्धम्, अत्र व्याचक्षत इत्युपक्रमादपरितोष प्रस्तञ्च। अत एव हलन्त्यसूत्रे अन्योन्याश्रयोद्धारार्थमन्त्यलकारस्येत्संज्ञायां णलो लित्त्वं स्वरार्थं क्रियमाणं ज्ञापकमिति प्रक्रम्य ननु लकारः श्रवणार्थ एवेत्याशङ्क्यापृक्तं हलिति हल्ग्रहणं णल्व्यावृत्तये क्रियमाणं णलोऽपृक्ततां ज्ञापयतीति वक्ष्यति। तस्य ह्ययमाशयः--`भेत्ता' इत्यादौ डादेशो हल्ग्रहणस्य व्यावर्त्यो न सम्भवति। सुतिसीति प्रत्ययैः प्रकृतेराक्षेपेण हलन्तायाः प्रकृतेः परेषां स्वादीनां लोपः। न च डादेशं प्रति तासन्ता प्रकृतिरिति। एवं चेहापि वृक्षस् इत्यस्य प्रकृति त्वाभावात्कथं हल्ङ्यादिलोपः। ``अस्तिसिचोपृऊ (पाoसूo7-3-96) इति द्विसकारको निर्देश इति प्रकृतग्रन्थोप्युक्तव्याख्यायामनुकूल एव। नन्वस्तूक्तरीत्या संयोगान्तलोपस्तथापि तस्यासिद्धत्वाद्रोरुत्वं दुर्लभमिति चेत्? न, ``संयोगान्तलोपो रारुत्वे इति वार्त्तिकेनासिद्धत्वनिषेधात् `हरिवो मेदिनं त्वा' इत्यादिवत्। सिचोपृक्ते इति प्रकृतनिर्देश एव च वार्त्तिकोक्तार्थे ज्ञापको बोध्यः। अथवा अस्तु वृत्तिकारोक्त एव ``संयोगान्तस्य लोपः (पाoसूo8-2-23) इति सूत्रस्यार्थः। अन्तग्रहणन्तु प्रत्येकं संयोगसंज्ञेति पक्षे संयोगावन्तौ यस्येति द्वित्वावगतयेऽस्तु, संयोगसंज्ञासूत्रे भाष्यकेटयोस्तथैवाभिधानात्। प्रकृते तु माऽस्तु संयोगसंज्ञासूत्रे भाष्यकैटयोस्तथैवाभिधानात्। प्रकृते तु माऽस्तु संयोगान्तलोपः। किन्तु द्वयोः सकारयो रुत्वेकृते ``अतो रोः (पाoसूo6-1-113) इत्यनेन एक एवोकारो भविष्यति विधेयविशेषणस्यैकत्वस्य पश्वेकत्ववद्विवक्षितत्वात्, रोरिति जातिपरनिर्देशेनातः परत्वस्य पूर्वत्वस्य च सम्भवात्। जातिपरत्वे प्रकृतिनिर्देश एव प्रमाणमस्तु। न च परत्वाद् ``हशि च (पाoसूo6-1-114) इति प्रथमस्यै व रोरुः स्यादिति वाच्यम्, रुत्वस्यासिद्धतया हश्परत्वाभावात्। न चाश्रयात्सिद्धत्वमिति वाच्यम्, स्थान्यंशे तथात्वेऽपि निमित्तीभूतहशंशे तदसम्भवात्। एष एव च द्विसकारकानर्देशं वदतो भाष्यकारस्याशयः। न तु संयोगान्तलोप इति। अत एव ``नुदविद (पाoसूo 8-2-54)इति सूत्रे ``शुषः कः (पाoसूo8-2-51) इत्यादि बहुयोगविच्छिन्नस्य नकारस्य कथमनुवृत्तिरित्याशङ्क्य ``अन्यतरस्यान्नध्याख्या (पाoसूo8-2-57) इति संहितापाठेन नकारान्तरप्रश्लेष इत्युक्तं भाष्ये। ``हलो यमाम् (पाoसूo8-4-64) इति लोप इति हि तस्याशयः। पूर्वोक्तरीत्या तु संयोगान्तलोपेनैव सिद्धौ संहितापाठपर्यन्तं नोपन्यस्येत्। संहितायामपि हि ``हलोयमाम् (पाoसूo8-4-64) इति लोपस्य बहीरङ्गत्वत्रिपादीस्थत्वाभ्यामसिद्धत्वात्संयोगान्तलोपेनैव भाव्यम्। ``संयोगान्तलोपे यणः प्रतिषेधः नवा झलो लोपाद्बहिरङ्गलक्षणत्वाद्वा इति वार्त्तिकोक्तपक्षत्रये प्रथमचरमयोस्तस्य दुर्वारत्वात्। तस्मात्समुदाये प्रत्येकं वा संयोगसंज्ञेतिक पक्षद्वयानुरोधेनेह समाधानद्वयं व्यवस्थितमिति भाष्यार्थः। पूर्वोक्तरीत्या सिचस् इति समाहारमाश्रित्य तदुपरि स् इतिच्छेद इति पक्षे त्वस्तिग्रहणप्रत्याख्यानप*तयाऽपीदं भाष्यं योजयितुं शक्यमिति दिक्। एतेन ``संयोगान्तस्य लोपः (पाoसूo8-2-23) इति सूत्रेऽन्तग्रहणं शक्यमकर्त्तुमिति पदमञ्जरी प्रत्युक्ता, पक्षद्वयेऽपि प्रयोजनस्योक्तत्वात्। विद्यमानं यत्सिचस् इति पक्षे वा योज्या। वस्तुतस्तु झल इतिवत् सस्येत्यपकृष्यते तत्सामर्थ्यात्संयोगान्तस्य पदत्वाभावेऽपि लोप इत्यलम्।
     यत्तु सिचः परत्वादीटि प्राप्ते ``आहिभुवोरीट्‌प्रतिषेधः इति वार्त्तिकबलान्निवेध इति कैश्चिदुक्तम्। तन्न, ``तस्य दोषः इत्युपक्रमात्स्थानिवद्भावप्रतिषेधपरेणोक्तवार्त्तिकेनास्तेः परत्वमुपजीव्य प्रवृत्तस्येटो निवृत्तावपि सिच्प्रयुक्तस्यानिवार्यत्वात् `अस्थात्' `अगात्' इत्यादावुक्तदोषतादवस्थ्याच्च। तस्मात्प्रागुक्तेष्वेवान्यतमः पन्थाः शरणमित्यलं बहुना।
     वध्यादेशे वृद्धितत्वप्रतिषेध इड्विधिश्चेति वार्त्तिकान्तरम्। अस्यार्थः--हन्तेर्ण्वुलि कृते ``बहुलन्तण्यन्नवधकगात्रविचक्षणाजिराद्यर्थम्(काoवाo) इति वार्त्तिकेन संज्ञाछन्दसोर्वधादेशः। स च हलन्त इति मत्वा वृद्धिरापाद्यते ``हनस्तोचिण्णलोः (पाoसूo7-3-32) इति तकारश्च। तयोः कर्त्तव्ययोः स्थानिवद्भावप्रतिषेधः। तथा `आवधिषीष्ट' इत्यादौ स्थानिवद्भावेनाङ्गतया ``एकाचः (पाoसूo7-2-10) इतीण्निषेधः प्राप्तः। तस्मिन्नपि कर्त्तव्ये स्थानिवद्भावेनाङ्गता नेति वाच्यम्। तदेतदिड्‌विधिश्चेत्यनेनार्थादुक्तम्। एतदपि भाष्ये प्रत्याख्यातम्। तथाहि, वधादेशस्तावददन्तः। अन्यथा `अवधीत्' इत्यत्र ``अतो हलादेः (पाoसूo7-2-7) इति वृद्धिप्रसङ्गात्। एतच्चोत्तरसूत्रे भाष्ये एव स्पष्टम्। `वधकः' इति तु नायं ण्वुल् किन्तु ``हनो वधश्च (उoसूo204) इत्यौणादिकसूत्रेण क्वुन्प्रत्ययः। तथाचेह वृद्धितत्वयो प्रसङ्ग एव नास्ति। `आवधिषीष्ट' इत्यादाविण्निषेधोऽपि न भवति वध्यादेशे आद्युदात्तनिपातनसामर्थ्यात्। न चैवं सतिशिष्टेन तेन यदावधिषीष्टेत्यादौ प्रत्ययस्वरो बाध्येतेति वाच्यम्। आर्द्धधातुकीयानामादेशानां प्रत्ययविवक्षामात्रेण प्रवृत्त्या प्रत्ययस्वरस्यैव सति शिष्टत्वादिति।
     स्यादेतत्। इड्विधिश्चेतयंशे पूर्वपक्ष एव शिथिलः। तथाहि, उपदेशेऽनुदात्तादिण्निषिध्यते। न च वधिस्तथा। स्थानिवद्भावेनायं तथेति चेत्? न, अल्विधौ स्थानिवद्भावविरहात्। सत्यम्, नेह स्थानिवद्भावं ब्रूमः। किन्तु इन्त्युपदेश एव वधेरुपदेशः। कृञुपदेश इव `कर्त्ता' `कर्त्तुम्' इत्यादौ करित्यादीनाम्।स्थानिवद्भावस्त्वङ्गसंज्ञार्थंक मृग्यते इत्युक्तमेव। नन्वेवमपि परिहारग्रन्थोऽसङ्गत एव। यदि हि प्रागेव प्रत्ययोत्पत्तेर्वधादेशाभ्युपगमस्तर्हि ``वधभावात्सीयुटि चिण्वद्भावो विप्रतिषेधेन इति स्यसिच्सूत्रीयं वार्त्तिकं विरुध्यते, अन्तरङ्गवहिरङ्गयोर्विप्रतिषेधयोगात्। तताच कर्मणि सीयुटि `वाधिषीष्ट' इत्येकमेव रूपं स्यात्। इष्यते तु `घानिषीष्ट' इति द्वितीयमपि। अत्रोच्यते वार्तिकमते ``आर्द्धधातुके इत्यस्य विषयसप्तमीत्वेऽपि लिङिलुङीत्यादीनां परसप्तमीत्वाभ्युपगमेन विप्रविषेधः सम्भवत्येव। अत एवेहाद्युदात्तनिपातनासंभवादिड्‌विधिश्चेत्युपसंख्यातम्। भाष्यकाराणां त्वयमाशयः---आर्द्धधातुकइतिवल्लिङीत्यादिरपि विषयसप्तम्येव। तथाचाद्युदात्तनिपातनेनैवोपपत्तौ इड्विधिश्चेति न कर्त्तव्यमेव। `घानिषीष्ट' इति कथं सिध्येदिति परमवशिष्यते। तत्रेदमुत्तरम्---प्रतिपदविधेबलीयस्त्वाच्चिण्वद्भाव इति। एतच्च स्यसिच्‌सूत्रे कैयटेन स्पष्टमुक्तम्। तस्माद्वार्त्तिकमते विप्रतिषेधाच्चिण्वद्भावः, भाष्यमते तु प्रतिपदोक्तत्वादिति विवेकः। एतेन ``एकाच उपदेश (पाoसूo7-2-10) इति सूत्रेपि ``आर्द्धधातुकीयाः सामान्येन भवन्ति इत्यादिभाष्यग्रन्था व्याख्याताः। यत्तु तत्र कैयटेनोक्तं विप्रतिषेधे उपपत्तिश्चिन्त्येति, तत्तु प्रागुक्तोपपत्तिरेव स्मर्त्तव्ये त्येवंपरम्।
     स्यादेतत्, प्रतिपदविधित्वं किमिह विवक्षितम्--अनवकाशत्वं वा साक्षादुपादानमात्रं वा? नाद्यः, स्यसिच्‌सूत्रे हन्‌ग्रहणस्य `प्रधानिष्यते' इत्यादौ लब्धावकाशत्वात्। तत्रत्यस्य सीयुट्‌ग्रहणस्य तु `कारिषीष्ट' इत्यादौ कृतार्थत्वात्। न चाजन्तादीनां चतुर्णां स्यादिचतुष्कसम्बन्धे अस्वरित्त्वाच्च यथासंख्याभावे हन्तेः सीयुटीति योंऽशस्तस्यानर्थक्यमेव। अन्तरङ्गत्वाद्धि वधभावे कृते तस्य स्थानिवत्वेन हन्तिग्रहणेन ग्रहणात्सीयुटि चिण्वदिटि कृते `ण्यल्लोपावियङ् (काoवाo) इति पूर्वविप्रतिषेधेनाल्लोपे सति `वधिषीष्ट' इत्येव रूपं स्यादिति वाच्यम्, अन्तरङ्गेण वधिनापहारे न्याय्ये सत्यसम्भवादेव हन्तेः सीयुटा समं सम्बन्धायोगात्।
संभवे व्यभिचारे च स्याद्विशेषणमर्थवत्।
     इति न्यायात्। अत एव भस्त्रादिसूत्रे आतः स्थाने इत्येतत्स्वशब्दस्यैव विशेषणं न तु भस्त्रादीनामिति वक्ष्यते। तता ``नित्यं क्रीडाजीविकयोः (पाoसूo2-2-17) इत्यत्र क्रीडायां तृचोऽसम्भवादेकेनैव तदन्वय इति वक्ष्यते।
     नान्त्यः, वधादेशेऽपि ``हनो वधलिङि (पाoसूo2-4-42) इति साक्षादुपादानस्याविशिष्टत्वात्। अन्तरङ्गत्वस्याधिकत्वाच्चेति चेत्? अत्रोच्यते, ``चिण्वदिट् च (पाoसूoएo6-4-62) इति चकारस्यानुक्तसमुच्चयार्थत्वेन व्याख्यानाद्धन्तेरपि परस्य सीयुटश्चिण्वद्भावो विधीयते। तस्य चानर्थकत्वमेव प्रतिपदविधित्वम्। अनुक्तसमुच्चयार्थत्वं चास्य भाष्यकार एव वक्ष्यति -- ``चं भगवान्कृतवांस्तु तदर्थम् इति। अत एव ह्याभात्सूत्रप्रत्याख्यानपक्षे कृतेऽपीटि णिलोपः सिद्ध्यति। सूत्रारम्बे परमिट् चासिद्धस्तेन मे लुप्यते णिरिति वक्ष्यमाणां बोध्यम्। यद्वा लिङीति सामान्यमार्धधातुके सीयुटीति विशेषः। हन्तेरित्युभयत्राविशिष्टम्। तथाचापवादत्वमेवचिण्वदिडिति नास्त्यसम्भवः, येन हन्तिः सीयुटा नान्वियात्। तथाच कैयटोक्तं प्रतिपदविधित्वमपि सम्यगेव।
     युक्तच्चैतत्। यदि ह्यसम्भवस्तर्हि येनाप्यसम्भविनो विधानायोगेन प्रगुक्तपक्षस्य दुर्बलात्वात्। अथवा वक्ष्यमाणनिष्कर्षरीत्या ``अन्तरङ्गं वलीयः (पाoभाo050) इत्यस्य ``असिद्धं बहिरङ्गम् (पाoभाo050) इत्यानेन प्रत्याख्यानात्तस्य च कृति तुग्ग्रहणेनानित्यत्वाल्लक्ष्यानुरोधेनेह त्यागाद्युक्तो विप्रतिषेधः। अथवा लिङीति परसप्तम्येवास्तु। परत्वाच्च चिण्वदिट्। आद्युदात्तनिपातनं तु माऽस्तु। न चैवं `वधिषीष्ट' इत्यत्रेण् निषेधापत्तिः `कर्त्ता' इत्यादाविवेति वाच्यम्। वधेर्हि द्वावुपदेशौ। हन्त्युपदेशो वध्युपदेशश्चेति ``एकाच (पाoसूo7-2-10) इति सुत्रे भाष्ये एव स्पष्टम्। तथाच वध्युपदेसेऽनेकाच्‌त्वादिण्‌निषेधो न भविष्यति। एकेति विशेषणसामर्थ्याद्ध्यनेका च्कोपदेशो व्यावर्त्यते। नन्वच इत्युक्तेऽजन्तस्यैव स्यात् । मैवम्, पचादीनामनुदात्तत्वस्य वैयर्थ्यापत्तेः। अत एवै कत्वविवक्षया अच इत्यस्यैको योऽच् तद्वत इत्यर्थे लब्धे एकग्रहणसामर्थ्यादुक्तार्थदाभः न च ``यत्रैकाज्ग्रहणम् (पoभाoएo131) इति परिभाषाप्रवृत्तये एकग्रहणमिति युक्तम्, शब्दविशेषमनादृत्य एकाच इत्यर्थमेबाश्रित्य परिभाषाप्रवृत्तेः सुवचत्वात्। न चैवमिहैव विशेषणसार्थक्ये ``श्चिपा शपा (पoभाo131) इत्यादिपरिभाषाज्ञापकत्वं न स्यादिति वाच्यम्, ``शीङः सार्वधातुके गुणः (पाoसूo7-4-21) ``दीङो युडचि (पाoसूo6-4-63) इत्यादीसानुबन्धनिर्देशानामेव तज्ज्ञापकत्वसम्भवात्। तदेवं सर्वथाऽपि वधेः परस्येडस्त्येवेति स्थितम्। अत एवानिट्कारिकासु व्याघ्रभूतिनाऽदन्तपर्युदासः कृतः ``अदन्तमूदन्तमृताञ्च वृङ्वृञौ इत्यादिना। यत्तु कौमुद्यां भावकर्मलकारव्युत्पादनावसरे `घानिषीष्ट' इत्युदाहृत्य पक्षे वधादेश इत्युक्तं तत्तूक्तरीत्या भाष्यमते वार्त्तिकमते वा उभयथापि निर्बाधमेव। एवं स्थिते पक्षे वधादेश इति प्रतीकमुपादाय इदन्तु सिद्धान्तविरुद्धं भाष्यादौ वदादेशानभ्युपगमात्' इति वदन् प्रसादकारः प्रत्युत स्वस्यैव कलङ्कमाविरकरेत्। यदपि तेन स्वकीयभ्रमबीजभूतं वार्त्तिकमुदाहृतं ``हनिणिङादेशप्रतिषेधश्च इति। नैतल्लिङि प्राप्तस्य प्राप्तस्य निषेधपरं, किन्तु स्यादिष्वपि चिण्वदित्यतिदेशेन प्राप्तस्य। अत एवाङ्गाधिकारादाङ्गस्यैवातिदेशो न तु हनिणिङादेशानाम् अनाङ्गत्वादित्यङ्गाधिकारवलेनैव भाष्ये ****र्त्तिकं प्रत्याख्यातम्। यद्यप्येतत्सिद्धान्तग्रन्थेष्यविवादमेव तथाऽपि ``अन्धस्येवान्धलग्नस्य इति न्यायेन प्रसादग्रन्थ दृष्ट्वा बाला मा भ्राम्येयुरित्येतदर्थमस्माभिः स्फुटीकृतम्।
     प्रकृतमनुसरामः, आकारान्तान्नुक्षुक्प्रतिषेधः। लोडादेशे शाभावजभावधित्त्वहिलोपैत्वप्रतिषेध। त्रयादेशेस्रन्तप्रतिषेधः। आम्‌विधौ व । स्वरे च वस्वादेशे। ेतान्यपि पञ्च वार्त्तिकानि प्रत्याख्यातानि। तथाहि, `विलापयति' `भापयति' इत्यत्र नुक्षुकौन भविष्यतः, ली ई भी ई इतीकारप्रश्लेषात् ह्रस्वप्रश्लेषाद्वा। तथा `शिष्टत्' `हतात्' `भिन्तात्' `कुरुतात्' `स्तात्' इत्यत्र परत्वात्तातङि कृते ``शाहौ (पाoसूo6-4-35) ``हन्तेर्जः (पाoसूo6-4-36) ``हुझल्भ्यो हेर्द्धिः (पाoसूo6-4-101) ``उतश्च प्रत्यया दकसंयोगपूर्वात् (पाoसूo6-4-106) ``घ्वसोरेद्धौ (पाoसूo6-4-119) इत्येते विधयो यद्यपि प्राप्नुवन्ति तातङः स्थानिवद्भावेन हिग्रहणेन ग्रहणात्, तथापि ``सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेव (पoभाo40) इति न्यायान्न भवन्ति। एवं `पुष्णीतात्' इत्यत्र `हलः श्नः शानज्झौ'(पाoसूo3-1-83) इति न भवति, उभयोर्नित्वयोः परत्वात्तातङप्रवृत्तेः। तथा `तिसृणाम्' इत्यत्र परत्वात्तिसृभावे* बाधितःक ``त्रेस्त्रयः (पाoसूo6-3-48) इति त्रयादेशोऽपि वाधित एव। एवं `चतस्रस्तिष्ठन्ति' इत्यत्र परेण चतसृभावेन ``चतुरनडुहोः (पाoसूo7-1-98) इत्याम् बाध्यते। तथा `अशासन्त्वाविदुषी सस्मिन्नहन्' इत्यत्र ``विदेः शतुर्वसुः (पाoसूo7-1-2-36) इति वस्वादेशस्य शतृग्रहणेन ग्रहणात् ``शतुरनुमो नद्यजादी (पाoसूo6-1-173) इति सूत्रेणान्तोदात्ताच्छत्रन्तात्परत्त्वमुपजीव्य प्राप्तं नद्या उदात्तत्वम्, ``यस्यैवं विदुषोग्निहोत्रं जुह्वति इत्यत्र विदुष इत्यत्र षष्ठ्या उदात्तत्वं च न भवति, अनुभ इति निषेधात्। तथाहि, अविद्यमान उम् यस्येति बहुव्रीहिः। उमिति च ``सनाशंश (पाoसूo3-2-168) इत्युकारात्पभृत्यानुमो मकारात्प्रत्याहारः ``तनादिकृञ्‌भ्य (पाoसूo 2-1-79) इत्युकारात्प्रभृति वा। तत्र च ``वसोः सम्प्रसारण् (पाoसूo6-4-131) चान्तर्भूतम्। नन्वेवं द्वितीयपक्षे ``लुनता अच्छारवं प्रथमा जानतीगात् इत्यादावपि निषेधापत्तिः। ``तनादिकृञ्‌भ्यः (पाoसूo3-1-79) इत्युपक्रमे श्नाप्रवृत्तावपि शतुरनुम्‌कत्वानपायात्। नुमागमग्रहणपक्षेऽपि हि शलुरेव तद्राहित्यं विशेषणं न तु शत्रस्तस्य, `मुञ्चता' `मुञ्चते' इत्याद्रावपि निषेधापत्तेः। इदन्तु वार्त्तिकं सिद्धान्तेऽपि स्थितम्--``गोः पूर्वणित्त्वात्वस्वरेषु प्रतिषेधः इति। `चित्रग्वग्रम्' इत्यत्र हि ``सर्वत्र विभाषा गोः (पाoसूo6-1-122) इति पूर्वरूपं प्राप्तम्। ``नान्त पादम् (पाoसूo6-1-115) इति पाठस्य ``इको गुणवृद्धी (पाoसूo1-1-3) इति सूत्रे षाष्ठभाष्ये च स्थितत्वेन तद्रीत्या ``सर्वत्र (पाoसूo6-1-122) इति सूत्रस्यापि पूर्वरूपविधायकत्वौचित्यात्। कैयटस्तु शाकलसूत्रे ``हस्वश्च (पाoसूoएo6-1-128) इति चकारेण प्रकृत्येत्यनुकृष्यत इति भाष्यदर्शनात् ``प्रकृत्याऽन्तः पादम् (पाoसूo6-1-115) इति पाठमनुसृत्य वार्त्तिकस्थं पूर्वपदं तत्प्राप्ति पूर्वकप्रकृतिभावोपलक्षणमिति सूचितवान्। न च ``सर्वत्र विभाषा (पाoसूo6-1-122) इत्यत्रैङ इत्यनुवर्त्त्याल्विधित्वान्निषेधः सुवचः `हे चित्रगो अग्रम्' इत्यत्रैवमप्यतिप्रसङ्गात्। नह्यत्र स्थान्यल आश्रयणं स्वत् एव एङन्तत्वात्। `चित्रगुः' इत्यत्र ``गोतो णित् (पाoसूo7-1-90) इति णित्त्वं प्राप्तम्। `चित्रगुं' `चित्रगून्' इत्यत्र तु ``आगोतोम् शसोः इति षाष्ठवार्त्तिकरीत्या आत्वं प्राप्तम्। अत्र णित्त्वाग्रहणं तु शक्यमकर्त्तुम्, गोत इति तपरकरणसामर्थ्यादेव णित्त्वा त्वाप्रवृत्तेः, औतोमिति पाठस्यैव स्थापयिष्यमाणत्वाच्च। `अचिनवम्' इत्यादावतिप्रसङ्गस्य शसा साहचर्येणापि वारणसम्भवात्। स्वर-बहुगुमान्। इह ``हस्वनुड्भ्यां मतुप् (पाoसूo6-1-176) इत्युदात्तताया ``नगोश्वन् (पाoसूo6-1-182) इति निषेधः ``नगोश्वन् (पाoसूo6-1-182) इति सूत्रे वृत्तौ यत्पठ्यते `बहुगुना' `बहुगुभ्याम्' इत्यादौ ``अन्तोदात्तादुत्तरपदादन्यतरस्याम् (पाoसूo6-1-169) इति प्राप्तः प्रतिषिध्यते इति, तच्चिन्त्यम्, भाष्यवार्त्तिकविरुद्धत्वात् ।।
    अचः परस्मिन्पूर्वविधौ (पाoसूo1-1-57)।। परनिमित्तोऽच आदेशः स्थानिवत्स्यात्स्थानिभूतादचः पूर्वत्वेन यो दृष्टस्तस्य तस्माद्वा निमित्तभूताद्विधौ कर्त्तव्ये। वव्रश्च। इह ``उरत् (पाoसूo7-4-66) इत्यत्वस्य स्थानिवद्बावेन ``न संप्रसारणे (पाoसूo6-1-37) इति निषेधाद्वकारस्य न सम्प्रसारणम्। न च पूर्वसूत्रेण गतार्थता, अल्विधित्वात्। न च परनिमित्तत्वमसिद्धमिति वाच्यम्, अङ्गाक्षिप्तप्रत्ययनिमित्तकत्वात्। न च प्रागभ्यासविकारेभ्योऽङ्गधिकार इति वाच्यम्, आसप्तमाध्यायसमाप्तोरिति पक्षस्य सिद्धान्तयिष्यमाणत्वात्। पूर्वस्माद्विधौ यथा-तन्वन्ति, तन्वते। इह यणादेशस्य स्थानिवद्भावान्नेट्। तत्र हि तन् इत्यङ्गं निमित्तम्, तच्चोकारात्पूर्वमिति। अच इति किम्? विश्नः प्रश्नः। द्यूत्वा, स्यूत्वा। अभिगत्य। तथाहि, `विश्नः' `प्रश्नः' इत्यत्र छकारस्य शकारः परनिमित्तकः, तस्य स्थानिवद्भावात् ``छेच (पाoसूo6-1-73) इति तुक् प्राप्तः अच इति वचनान्न भवति।
     स्यादेतत्। इहान्तरङ्गत्वात् पूर्वमेव तुका भाव्यम्। न च ``वार्णादाङ्गं बलीयः (पoभाo55) इति शकारः स्यादिति वाच्यम्, यत्र ह्येक मेव निमित्तीकृत्य युगपदाङ्गवार्णयोः प्राप्तिस्तत्र वार्णादाङ्गं बलीयः। यथा निमित्तीकृत्य युगपदाङ्गवार्णयोः प्राप्तिस्तत्र वार्णादाङ्गं बलीयः। यथा करोतेर्लिटि णलि कृ अ इति स्थिते गौरित्यत्र सावकाशाम् ``अचो ञ्णिति (पाoसूo7-2-115) इति वृद्धिं बाधित्वान्तरङ्गत्वात्प्राप्तं यणं वृद्धिरेव बाधते। `प्रश्नः' इत्यत्र तु शस्य नङ् निमित्तम्। तुकस्तु छः। भिन्नकाला चानयोः प्राप्तिः। ननु यत्रैकस्मिन्नविषये युगपच्च प्राप्तिस्तत्रैवेयं परिबाषेत्यत्र किं प्रमाणमिति चेत्? धर्मिग्राहकमानमेवेति गृहाण। तथाहि, ``अभ्यासस्यासवर्णे (पाoसूo6-4-78) इति सूत्रे ऽसवर्णग्रहणमस्याः परिभाषाया ज्ञापकम्। एतच्च षष्ठे प्रथमान्हिकान्ते भाष्ये स्थितम्। तद्धि `ईषतुः' `ऊषतुः' इत्यादिवारणाय नोपयुज्यते, अन्तरङ्गेण सवर्णदीर्घेण तत्रेयङुवङोर्बाधात्। तौ ह्यङ्गसंज्ञामभ्याससंज्ञां चापेक्षमाणौ बहिरङ्गौ। न चैवमप्यपवादत्वात्तावेव स्यातामिति वाच्यम्, येन नाप्राप्तिन्यायेन तयोर्यणं प्रत्येवापवादत्वात्। ननु `हयेष' इत्यादौ प्रवृत्तस्यापि गुणस्य `हयाय' इत्यत्र प्रवृत्ताया वृद्धे श्च ``द्विर्वचनेऽचि (पाoसूo1-1-59) इति रूपातिदेसेनापहारे द्वित्वे च कृते सरर्णदीर्घस्यापि प्राप्त्या सोऽपि येननाप्राप्तिन्यायेनेयङुवङ्‌भ्यां बाध्येतेति चेत्? तर्हि कृतेप्य सवर्णग्रहणे निर्विषयतापत्तिः। असवर्णग्रहणसामर्थ्यात्पुनर्गुणवृद्धी सवर्णदीर्घं बाधित्वा स्यातामिति चेत्? न, `इयर्ति' इत्यादौ चरितार्थत्वात्। नन्वेवं सत्यसवर्णग्रहणं निवापियेन नाप्राप्तिन्यायेन `हयर्ति' इति यणो बाधने सिद्धे तन्न कुर्यादिति चेत्? तर्हि सामर्थ्यात् `हयेष'इत्यादौ गुणादिप्रवृत्तिरिति फलितोऽर्थः। तथाच पुनरप्यसवर्णग्रहणं व्यर्थमेव। ``अर्त्तेश्च इति सूत्रायित्वा य्वोरिति चानुवर्त्यार्त्तेरिकारस्य लाघवादियङि विधेये `अभ्यासस्य' इत्युक्तिसामर्थ्येनापि `इयेष' इत्यादेः सुसाधत्वात्। नन्वर्त्तेरिति शितपा निर्देशे `अरियर्ति' इति यङ्‌लुकि इयङ् न स्यादिति चेत्? त**र्युरित्येवो च्यताम्। ``इणो यण् (पाoसूo6-4-81) इति साहचर्याच्च धातुग्रहणं भविष्यति, अङ्गेन उर्विशेषणाद्वा। तेन अर्तारमतिक्रान्तैरत्यर्त्तृभिरित्यादौ नातिप्रसङ्गः। नन्वेवमपि `इयेष' इत्यत्रेव `ईषतुः' इत्यत्रापीयङ् स्यादिति चेत्? न, अन्तरङ्गेण दीर्घण बाध इत्युक्तत्वात्। न चैवम् `इयेष' इत्यत्रापि तुल्यमिति वाच्यम्, तत्र गुणसम्भावनायां विनाशोन्मुखेन निमित्तेन दीर्घाप्रवर्त्तनात्। वक्ष्यते हि ``समर्थानां प्रथमाद् (पाoसूo4-1-82) इति सूत्रे समर्थग्रहणम् ``अकृतव्यूहाः पाणिनीयाः (पाoभाo53) इति परिभाषां ज्ञापयतीति। अत एव `सौत्थितिः'`वैक्षमाणिः' इत्यत्र भाविन्या आदिवृद्ध्या अन्तरङ्गस्यापि सवर्णदीर्घस्य निमित्तविधातादप्रवृत्तिर्मा भूदिति `सावुत्थिति' `वायीक्षमाणिः' इत्यनिष्टरूपं वारीयतुं समर्थग्रहणम्। परिनिष्ठितत्वं च तत्र समर्थशब्दस्यार्थः। कृतमपि निवर्त्तयन्तीति वा ज्ञाप्यताम्। फलं तु तुल्यमेव। गौरवं परमधिकमिति दिक्। ततश्चेयेषेत्यादौ गुणे कृते सवर्णदीर्घाप्राप्तौ यणि प्राप्ते तस्यैवेयङपवादः। ईषतुरित्यादावन्तरङ्गत्वात्सवर्णदीर्घेण बाध्यत इत्यसवर्णग्रहणमनर्थकं सज्ज्ञापकमेवोक्तपरिभाषायाः। ननु गुणेन कथं निमित्तविधातः ``अचः परस्मिन् (पाoसूo1-1-57) इति स्थानिवत्त्वेन सवर्णदीर्घप्राप्तेस्तदवस्थत्वादिति चेत्? न, दीर्घस्य पूर्वपरविधित्वेन तस्मिन्कर्त्तव्ये स्थानिवत्त्वाभावात्। पूर्वस्यैव विधै। हि सः, नतु पूर्वपरयोरिति विधिग्रहणव्यावर्त्यनिरूपणावसरे उपपादयिष्यमाणत्वात्, सवर्णे यो विधिः सोऽपि सवर्णस्य विधिरिति तत्र कर्त्तव्ये ``न एदान्त (पाoसूo1-1-58) इति निषेधाच्व। एतेनासवर्णग्रहणे कृते स्थानिबद्भावेन `इयेष' इत्यत्रेयङ् न स्यात्। न चासवर्णग्रहणसामर्थ्याच्छ्रौतासवर्णमाश्रित्येयङ् प्रवर्त्ततां `घ्नन्ति' इति घत्ववदिति वाच्यम्, तथा सति परिबाषाज्ञापनासम्भवात्। `इयर्ति' इत्येकप्रयोजनाय हि `उश्च' इति वक्तव्ये ऽभ्वासस्येति वचनसामर्थ्याद्बवन्तावियङुक्ङौ णलीवातुसि दीर्घमप्यविसेषाद्बाधेयातामिति तद्व्यावृत्त्यैवासवर्णग्रहणस्य चरितार्थत्वादिति प्रत्युक्तम्, सवर्णे परे न भवतीति प्रसज्यप्रतिषेधाश्रयणात्। तत्र चोक्तरीत्या स्थानिवद्भावे प्रतिषिद्दे `इयेष' इत्यादौ यण एव प्राप्त्या तदपवादत्वेन निर्णीतयोरियङु वङोरन्तरङ्गेण दीर्घेण `ईषतुः' इत्यादौ बाधसम्भवात्। सा च ज्ञाप्यमाना समानाश्रये युगपत्प्राप्तौ चेत्येवंरूपविशेषविषयैव लक्ष्मनुरोधेनेति प्राचां भावः। अत एव `स्योनः' इति सिवेरौणादिके नप्रत्यवे वलोपापवादे ऊठि च कृते सि ऊ न इति स्थितेऽन्तरङ्गत्वाद्यण्, त्वाङ्गोप्युपधागुणः व्याश्रयत्वात्। न चोठं बाधित्वा परत्वाद् गुणः शङ्क्यः, लघुभूतामिग्लक्षणामुपधामङ्गं चापेक्षमाणस्य गुणस्य बव्हपेक्षत्वेन बहिरङ्गत्वात्। एतच्च ``येन विधिः (पाoसूo1-1-72) इति सूत्रे कैयटे स्पष्टम्। वृत्तिकारोप्येवम्।
     प्रकृतमनुसरामः। उक्तरीत्या तुकि कृते शादेशः। तथा च विश्नप्रश्नयोस्तुक् श्रूयेतैवेति तन्निवृत्तौ यत्नान्तरमास्थेयम्, अच इत्यस्य प्रत्युदाहरणान्तरञ्चेति चेत्? सत्यम्, अस्त्येव यत्नान्तरम्, ``च्छ्वोः (पाoसूo6-4-19) इति सतुक्वनिर्देशस्य षाष्ठभाष्यादौ स्थितत्वात्।
    स्यादेतत्। ``अकृतव्यूहाः पाणिनीयाः (पाoभाo6-4-19) ``कृतं वा निवर्तयन्ति इति परिभाषाभ्यां विश्नप्रश्नयोः सिद्धौ किं सतुक्वनिर्दैशेन? न चोक्तपरिभाषयोरनित्यत्वज्ञापनं तत्फलम्। तेन `चाखायिता' इति सिद्धम्। अन्यथा ``यस्य हलः (पाoसूo6-4-45) इति भाविनं लोपमालोक्य प्रागेवात्वं न क्रियेत, कृतं वा निवर्त्येत, `त्वकत्पितृकः' `अतिभवकान्' इत्यादौ चाकच् न श्रूयेतेति वाच्यम् ``अदोजग्धिः (पाoसूo2-4-36) इति सूत्रे ल्यव्ग्रहणस्य ``प्रत्ययोत्तरपदयोः (पाoसूo7-2-98) इति सूत्रे उत्तरपदग्रहणस्य च क्रमेण ल्यब्लुकोरन्तरङ्गबाधकताज्ञापनार्थतया सिद्धान्तग्रन्थेषु प्रसिद्धस्यैवोक्तपरिभाषाद्वयानित्यत्वज्ञापकत्त्वसम्भवात्। अथ निर्युक्तिकः सिद्धान्तप्रवादो न श्रद्धेयः ल्यबुत्तरपदग्रहमयोरप्राप्तविद्ध्यर्थत्वादकृतव्यूहपरिबाषावशादप्राप्तेः स्पष्टत्वादिति चेतर्हि मा भूतां ल्यबुत्तरपदग्रहावपि, अकृतव्यूहपरिभाषाया अनित्यत्वे प्रकृतिप्रत्यापत्तिववनस्यैव ज्ञापकत्वसम्भवात्। मास्तु वा तदपि, ``केऽणः (पाoसूo7-4-13) ``सोऽचि लोप (पाoसूo6-1-134) इत्यादिनिर्देसानामेव ज्ञापकत्वात्। तथाहि, क इ स उ इतीदुतोः पदान्तरप्रयुक्ते यणादेसे कृते आद्गुणस्य निमित्तविदाताद् ``अकृतब्यूहाः (पoभाo56) इति न्यायेन गुणो न स्यात्। न च ``असिद्धम्बहिरङ्गम् (पoभाo50) ``अन्तरङ्गं बलीयः इति परिभाषाभ्यां निस्तारः' वृक्ष इ इदमित्यादौ कृतेऽपि दीर्घे निमित्ताविघातेन तत्र `पचावेदम्' इत्यादौ च सावकाशयोर्द्वयोरपि परिभाषयोर्येन नाप्रप्तिन्यायेनाकृतव्यूहपरिभाषाबाध्यत्वात्। अन्यथा `उपेयुषा' `जग्मुषः' इत्याद्यपि न सिध्येत्। एवं `विश्नः' इत्यत्र गुणं निषेद्‌धुं क्रियमाणं नङो ङित्वमेवाकृतव्यूहपरिभाषां ज्ञापयेत्। समर्थानामिति च मास्तु। अत एव ``समर्थः पदविधिः (पाoसूo2-1-1) इति सूत्रे ``अकर्त्तव्य च क्रियते समर्थानां प्रथमाद् इति भाष्यं सङ्गच्छते। तस्मात्, प्रत्वापत्तिसमर्थत्वल्यबुत्तरपदग्रहाः सतुक्वत्वं च पञ्चापि न कार्याणीत्त्यवस्थितम्।
     अत्रोच्यते, ``वार्णादाङ्गम्बलीयः (पoबाo55) इति परिभाषाया अनित्यत्वं ज्ञापयितुं सतुक्वग्रहः। तथाहि, `समानाश्रय' इति प्राचां ग्रन्थाननुसृत्य प्रागुक्तं, न तु क्षोदक्षमम्, व्याश्रयेष्वपि बहुधा तत्स्वीकारात्। तथाच कैयटेनासिद्धवत्सूत्रे `शुनः' इत्यत्र वार्णादाङ्गस्य बलीयस्त्वात्पूर्वैकादेशं बाधित्वाऽल्लोप उक्तः। न च तत्रोभयोरकारांशे समानाश्रयत्वमस्त्येवेति वाच्यम्, `विश्नः' `स्योनः' इत्यत्रापि छकारेकारांशसाम्येन व्याश्रयत्वोपन्यासविरोधात्। किञ्चाङ्गस्य ``आच्छीनद्योः (पाoसूo7-1-80) ``शीङो रुट् (पाoसूo7-1-6) ``अचः परस्मिन् (पाoसूo1-1-57) ``येन विधिः (पाoसूo1-1-72) ``उपेयिवाननाश्वान् (पाoसूo3-2-109) ``आडजादीनाम् (पाoसूo6-4-72) `अजादेर्द्वितीयस्य (पाoसूo1-1-2) ``अदस औ सुलोपश्च (पाoसूo7-2-107) ``सार्वधातुकमपित् (पाoसूo1-2-4) ``उपसर्गाद्ह्रस्वऊहतेः (पाoसूo7-4-23) ``स्नुक्रमोरनात्मनेपद (पाoसूo7-2-36) इत्यादिसूत्रेषु कैयटहरदत्तादिसकलग्रन्थाः समानाश्रयतां क्वचिदादृत्य क्वचिदनादृत्य प्रवृत्ताविति स्पष्टमेव सिद्धान्तपरिशालिनाम्। षाष्ठभाष्ये प्रथमाह्निकान्ते ``वार्णादाङ्गम् (पoभाo55) इति परिभाषायाः प्रयोजनान्यपि ब्याशयसाधरणान्येव। ``न माङ्योगे (पाoसूo 6-4-74) इतिसूत्रस्थकैयटग्रनेथे ऽप्येवमेव। ``आतोनुपसर्गे कः (पाoसूo3-2-3) इति सूत्रे भाष्येप्येवमेव। तस्माद्वहिरङ्गपरिभाषाऽकृतव्यूहपरिभाषयोरिव ``वार्णादाङ्गम् (पoभाo55) इत्यस्या अप्यनित्यत्वमेव शरणम्। तच्च सतुक्वग्रहणेन ज्ञाप्यते। न च परास्मिन्पूर्वविधावपि स्थानिवद्भावेन तुकं वारयितुं सः, अन्यार्थतयाऽवश्यकर्त्तव्येनाच इत्यनेन गतार्थत्वात्। एवञ्चान्यार्थं क्रियमाणं सतुक्वग्रहणम्, ``अकृतव्यूह (पoभाo56) इत्यस्याप्यनित्यतां कामं ज्ञापयतु। प्रकृतसूत्रे `विश्नः' इति प्रत्युदाहरणन्तु यथाश्रुतरीत्आ। एवं स्थिते नङो ङित्त्वस्य गुणनिषेधे चरितार्थत्वादकृतव्यूहपरिभाषायां ज्ञापकान्तरमास्थेयम्। तच्च प्रत्ययवचनमुत्तरपदग्रहणं समर्थग्रहणं वा। तेभ्यो लघुत्वात् ल्यब्‌ग्रहणमेवेति तु निष्कर्षः। आचारक्विबन्तार्थं प्रत्ययग्रहणं तवममादिबाधनार्थमप्राप्तविध्यर्थञ्चोत्तरपदग्रहणमिति हि स्थास्यति। मपर्यन्तानुवृत्तिरेव ज्ञापिकेति हरदत्तोत्प्रेक्षा त्वन्तरङ्गस्यापवादबाध्यत्वादयुक्तेति सप्तमे वक्ष्यते। एवञ्च (1) पामाद्यन्तर्गणसूत्रे ``विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः (काoवाo) इत्यत्राकृतसन्धिग्रहणमप्यनावश्यकम्। वीक्षमाणादिभ्यः कृतसन्धिभ्य एव तद्धिता इति स्पष्टीकरणार्थं वाऽस्तु। एवं ``स्त्रियाः पुंवद् (पाoसूo6-3-34) इति सूत्रे नत्द्येषा परिभाषा सर्वत्राश्रीयते इति कैयटः समीचीन एव। आभात्सूत्रस्थकैयटस्तु ``निमित्तापाये इति परिभाषा भाष्यासम्मतेत्येवंरूपं आपाततः छ्वोः शूठ्‌सूत्रे न हीदं वचनं नापि न्याय इत्येवंरूपो हरदत्तग्रन्थोऽप्यापातत एव ``समर्थानाम् (पाoसूo4-1-82) इति सूत्रे परिभाषापरिष्कारस्य स्वयमेव कृतत्वात्। अथवोक्तपरिभाषयोर्मध्येऽकृतव्यूहपरिभाषैव लाघवादादर्त्तव्या न तु कृतमपीति गौरवादित्येवम्परतया कथञ्चिद्ग्रन्थो नेयः। फलन्तु निर्विवादम्, ज्ञापकान्तराणामपि सुलभत्वात्। तद्यथा-- ``चौ (पाoसूo6-2-138) इति सूत्रं दीर्घं विदधदिह ज्ञापकम्। अन्तरङ्गे हि यणि कृते `प्रतीचः' इत्यादौ कथं दीर्घस्य विषयलाभः? लौकिकन्यायोऽपीह सुवचः। लोके हि निमित्तमुभयविधमपि दृष्टम्। कार्यस्य स्थितौ नियामकं तदनियामकं च। आद्यं यथा--न्यायनेयेऽपेक्षाबुद्धिः, तन्नाशेन द्वित्त्वनाशाभ्युपगमात्। तथा वेदान्तनये प्रारब्धस्य विक्षेपस्थितिनियामकत्वमुपाधेः स्फुटिकलौहित्यादिस्थितिनियामकत्वं च प्रसिद्धमेव। द्वितीयं तु--दण्डादि। तन्नाशेऽपि घटनाशादर्शनात्। एवं स्थिते लक्ष्यानुरोधेनेहापि द्वैविध्यं कथं न भवेत्? तथाच यस्य च लक्षणान्तरेण निमित्तं विहन्यते नासावनित्य इत्यस्य क्वचिदाश्रयणं क्वचिन्नेत्येवंरूपे सिद्धान्ते लौकिकद्विविधव्यवहार उपष्टम्भकत्वेनोदाहृतः कैयटादिभिः। वालिसुग्रीवयोर्युध्यमानयोर्भगवता वालिनि हतेऽपि न सुग्रीवस्य वालितः प्राबल्यं व्यवहरन्ति। भगवत्सहायौः पाण्डवैर्जये लब्धेऽपि पाण्डवानां प्राबल्यं व्यवहरन्ति चेति दिक्।
     स्यादेतत्। यदि ``छ्वोः (पाoसूo6-4-19) इति सतुक्वनिर्देशस्तर्हि राल्लोपे तस्यैवानुवृत्तिः स्यात्। तथाच `हूः, हुरौ, हुरः' इत्यत्र लोपो न स्यात्, वितुक्वत्वात्। न चानुवृत्तिसामर्थ्यात्तुकं विनैव तत्र गृह्यताम् ``राधोहिंसायाम् (पाoसूo6-4-123) इत्यत्रात इत्यनुवृत्तेप्यवर्ण इवेति वाच्यम्, वकारमात्रान्वयस्यापि सुवचत्वात्। यत्तु सतुक्ववितुक्वौ द्वावपीह निर्देश्येते इति। तन्न, समाहारद्वन्द्वे एकवचनापत्तेः इतरेतरयोगे बहुवचनापत्तेः। छकारयोःसमाहारे समासंकृत्वा वकारेणेतरेतरयोगद्वन्द्वं करिष्याम इति चेत्? न, समाहारे टच्प्रसङ्गात्, यथासंख्यासम्भवापत्तेश्च।
     अत्रोच्यते---छकारवकारयोः समाहारद्वन्द्वे कृते छकारान्तरस्य द्वन्द्वान्तरमस्तु। आदेसेऽपि शब्दप्रश्लेषः। तथाचान्तरतम्याद्यथासंख्यन्याया च्चेष्टं सिद्धम्। अस्तु वा सतुक्वस्यैव निर्देशः। राल्लोपे तु सामर्थ्यात्केवलस्यान्वयः ``नध्याख्या (पाoसूo8-2-57) इति नत्त्वनिषेधाल्लिङ्गाच्च। `मूर्त्तः' इत्यत्र हि छलोपं विना नत्वप्राप्तिरेव न सम्बवति। एवं ``मूर्त्तौ घनः (पाoसूo3-3-77) ``द्रव्मूर्त्तिस्यर्शयोः श्यः (पाoसूo6-1-24) इत्यादिनिर्देशा अपि सङ्गच्छन्ते इति दिक्। अस्मिन्पक्षं क अच इत्यस्य प्रत्युदाहरणन्तु `द्यूत्वा' `स्यूत्वा' इति। अत्र *ठः स्थानिवत्त्वाद्यण् न स्यात्। ननु स्वाश्रयमचत्वं भषिष्यति। अतिदेशानां स्वाश्रयकार्यानिवर्त्तकत्वादिति चेत्? न, विधिग्रहणप्रयोजनकथनावसरे इह सूत्रे स्वाश्रयनिवृत्तेः सिद्धान्तयिष्यमाणत्वात्। नन्वेवम** योऽत्र यणिवधावाश्रीयते अच् नासावादेशः, यश्चादेश ऊडिति समुदायः, नासौ यण्विधौ निमित्तमिति चेत्? न, अनुबन्धानामनेकान्ततया एकान्तत्वेऽप्युच्चरितप्रध्वंसितयोकगारस्यैवादेशत्वात्, वतिनिर्देशादभावोऽप्यतिदिश्यते इति वक्ष्यमाणत्वाच्च। एवम् `अभिगत्य' इत्यपि प्रत्युदाहरणम्। अत्र ह्यनुनासिकलोपः परनिमित्तकस्तस्य स्थानिवद्भावाद् ``हस्वस्य पिति कृति (पाoसूo6-2-71) इति तुङ् न प्राप्नोति। अथ परस्मिन्निति किमर्थम्? युवजानिः। अत्र जायाया निङः स्थानिवद्भावाद्यलोपो न प्राप्नोति। स्वाश्रयनिवृत्तिरभावातिदेशश्च वक्ष्यते इति ह्‌युक्तमेव। किञ्च व्याघ्रस्येव पादावस्य व्याघ्रपाद् ``पादस्य लोपो ऽहस्त्यादिब्यः (पाoसूo5-4-138) इत्यमरनिमित्तको लोपस्ततो गर्गादित्वाद्यञ्। वैयाघ्रपद्य। लोपस्य स्थानिवद्भावात् ``पादः पत् (पाoसूo6-4-130) इति पद्भावो न स्यात्। वचनसत्मर्थ्याद्भविष्यतीति चेत्? `पादेन' इत्यादावतिप्रसङ्गः। किञ्च ``पादशतस्य (पाoसूo5-4-1) इति लोपवचनसामर्थ्यात्स्थानिवद्भावाप्रवृत्तौ सत्यां `द्विपदिका' इत्यादौ पद्भाववचनं चरितार्थमितिक्कव तस्य सामर्थ्यम्? परस्मिन्निति कृते तु `वैयाघ्रपद्यः' इत्यादौ पद्भावस्य चरितार्थतया `पादेन' इत्यादावेकादेशस्य स्थानिवद्भावात् ``पादः पत् इति पद्भावो नेति स्थितम्। नन्वेकादेसो नाचः किंत्वचोः। तत्कथं स्थानिवत्त्वमिति चेत्? न, वर्णर्निदेशे जातिग्रहणात्। अत एव `श्रायसौ' `गौमतौ' `चातुरौ' `आनडुहौ' इत्यादि सिद्यति। श्रेयसोऽपत्यमित्यम्। ``देवि काशिंशपादित्यवाड्दीर्धसत्रश्रेयसाम् (पाoसूo7-3-1) इत्याकारादेशः। ततश्चतुर्भ्याप्यणन्तेभ्य औप्रत्यये एकादेशस्यादिवत्वात्प्राप्तौ नुमामौ न भवतः। तथा-उदवाहे। उदकं वहतीति कर्मण्यण्। संज्ञायामुदभावः। ततो ङावेकादेशस्यादिवत्वाद्भात्वे सति प्राप्तो वाह ऊण्नभवति। पूर्वविधाविति किम्? नैधेयः। निपूर्वाद्धाञ ``उपसर्गे धोः किः(पाoसूo3-3-92) आतो लोपः। ``द्व्यचः (पाoसूo4-1-121) ``इतश्चानिञ(पाoसूo4-1-122) इति ढक्। आकारलोपस्य स्थानिवत्त्वे तु सति त्र्यच्कत्वव्यपदेशेन द्व्यच्कत्वं विरुद्धत्वाद्वाध्येत। नहि त्रिपुत्रो द्विपुत्रव्यपदेशं लभते। नन्वेवमपि विधिग्रहणं मास्तु पूर्वस्येति षष्ठ्या कार्ये कर्त्तव्ये इत्यर्थस्याक्षेप्तुं शक्यत्वादिति चेत्? न, पूर्वस्य विधिः पूर्वस्माद्विधिरिति समासद्वयताभार्यं विधिग्रहणम्। पञ्चमीस मासे उदाहरणं तु `तन्वन्ति' इत्युक्तमेव।
     स्यादेतत्, यदि पञ्चमीसमासोऽपीष्टस्तर्हि `विगणय्य' इत्यादि न सिध्यति ``ल्यपि लघुपूर्वात् (पाoसूo6-4-56) इत्ययादेशे कर्त्तव्येऽल्लोपस्य स्थानिवद्भावात्। न चारम्भसामर्थ्यम् `अनुगमय्य' इत्यादौ मित्सु चरितार्थत्वात्। अत्रोच्यते। पूर्वस्माद्विधौ स्थानिवत्त्वमनित्यम् ``निष्ठायां सेटि (पाoसूo6-4-52) इति ज्ञापकात्। तथाहि। तत्र सेटीति पदं न तावदनिड्‌व्यावृत्त्यर्थं णिजन्तात्तदसम्भवात्। ननु `संज्ञपितः पशुः' इत्यत्र `यस्य विभाषा (पाoसूo7-2-15) इतीण्निषेधः सम्भवत्येव। ``सनीवन्त (पाoसूo7-2-49) इति विकल्पितेट्कत्वादिति चेत्? ``यस्य विभाषा (पाoसूo7-2-15) इत्यत्रैकाच इत्यनुवृत्तेः। अन्यथा `दरिद्रितः' इतीण्न स्यात्। तस्मात्कालावधारणार्थं सेट्‌ग्रहणम्। इटि कृतेक णिलोपो न तु ततः प्रागिति । अन्यथा `कारितम्' इत्यादौ णिलोपे कृते ``एकाच उपदेशे (पाoसूo7-2-10) इतीण्निषेधः स्यादिति सेटीति वदतो भावः। पूर्वस्माद्विधौ स्थानिवत्त्वे तु न प्राप्त एव निषेधः, णिचा व्यवधानात्। तस्मात्सेट्‌ग्रहणमनित्यतां ज्ञापयतीति स्थितम्। तथा चाष्टमे ``अन्तः (पाoसूo7-4-20) इति सूत्रे हरदत्तः--``अनित्यः पूर्वस्माद्विधौ स्थानिवद्बावः ``निष्ठायां सेटि (पाoसूo6-4-52) इति सेट्ग्रहणात्। एतच्च स्थानिवद्भावप्रकरणे एव व्याख्यातम् इति। यद्यपीह प्रकरणे स्वयं न व्याख्यातं तथापि न्यासकारादिभिर्व्याख्यातामिति तद्ग्रन्थस्यार्थः। लेखकप्रमादाद्ग्रन्थभ्रंशो वा कल्प्यः। एतेन ``ओः पुयण् (पाoसूo7-4-80) इति सूत्रे यदत्र वक्तव्यं तद् ``द्विर्वचनेऽचि (पाoसूo1-1-59) इत्यत्रैवोक्तमित्यपि हरदत्तग्रन्थो व्याख्यातः। तथाच वस्वेकाच्‌सूत्रे कैयटः--पूर्वस्मादपि विधीवित्येतदनित्यमिति। माधवाचार्यास्तु `परिव्रढय्य गतः' इत्यत्रासिद्धतामुद्भव्य व्याश्रयत्वात्तां परिहृत्य पूर्वस्मादपीति स्थानिवत्त्वमाशङ्‌य `प्रबेभिदय्य' `प्रस्तनय्य' इत्यादिभाष्योदाहरणबलेन समादधुः। यद्वा ``ल्यपि लघुपूर्वात् (पाoसूo6-4-56) इत्यनेन सामर्थ्यादन्यपदार्थस्य वर्णस्यापेक्षायां वर्णग्रहणे जातिग्रहणाद्व्यवधानेऽपि न दोष इति। केचित्तु पञ्चमीसमास इह मास्तु, प्रयोजनाभावात्। तथाहि, `बेभिदिता' `माथितिकः' `अपीपचन्' इति प्रयोजनत्रयं भाष्ये उक्तम्। तत्र `बेभिदिता' इति तावदन्यथासिद्धम् ``एकाच उपदेशे (पाoसूo7-2-10) इत्यत्र विहितविशेषणश्रयणात्। माथितिकेति मथितं पण्यमस्येति विग्रहे ``तदस्यपण्यम् (पाoसूo6-6-51) इति ठकि तस्येकादेशे `` यस्येचि च (पाoसूo6-4-148) इत्यल्लोपे कृते ``इसुसुक्तान्तात् (पाoसूo 7-3-51) इति कादेशो न भविष्यति ``अनल्विधौ (पाoसूo1-1-56) इतिनिषेधेन स्थानिवद्बावासम्भवात्। ``ठस्येकः (पाoसूo7-3-50) इत्यत्र स्थान्यादेशयोरकारस्य उच्चारणार्थतया वर्णमात्रस्य स्थानित्वात्। अस्तु वा स्थान्यादेशयोरकारस्य विवक्षा। न चैवमनल्विधित्वात्कादेशप्रसङ्ग सन्निपातपरिभाषया समाधानात्। न चापीपचन्नित्युदाहरणम्। इह हि अन्तेरकारस्य चङकारस्य च ``अतो गुणे (पाoसूo6-1-97) इति पररूपत्वे तस्य परं प्रत्यादिवद्भावाज्झिग्रहणेन ग्रहणए सति ``सिजभ्यस्त (पाoसूo3-4-109) इति जुस् प्राप्तो णिलोपस्यैकादेशस्य वा स्थानिवद्भावान्न भवतीति वाच्यम्, वेत्तेर्हि लङ्येवानन्तरो झिः सम्भवतीति तत्साहचर्यादभ्यास्तादपि लङ एव झेर्जुस्‌विधानात्। न च सिचा साहचर्याल्लुङोऽपि ग्रहणमस्तिति वाच्यम् ``विप्रतिषेधे परम् (पाoसूo1-4-2) इतिक परसाहचर्यस्य बलीयस्त्वादिति। अत एव भवतेर्यङ्‌लुङन्ताल्लुङि `अबोभूवन्' इति माधवः। पञ्चमीसमासप्रयोजनतया `अपीपचन्' इत्युदाहरतो भगवतस्तु नेह साहचर्यं नियामकतया सम्मतम्। कृत्वोऽर्यग्रहणाद्वि ज्ञापकात्साहचर्यं न सर्वत्राश्रीयते इत्युक्तं ``दीघीवेवीटाम् (पाoसूo1-1-6) इति संत्रे। तस्माद्यङ्‌लुकि भुवो लुङि जुसेवोचितः ``आतः (पाoसूo3-4-110) इति नियमस्य सिचः परत्वमाश्रित्य यो जुस्प्राप्तस्तन्मात्रपरताया माधवेनैवोक्तत्वात्। अब्यस्ताश्रयस्य जुसो दुर्वारत्वात्। यदि तु लाघवाद् ``आतः (पाoसूo3-4-110) इति नियमःक सामान्यापेक्षस्तदा जुसभावे ``अदभ्यस्तात् (पाoसूo7-1-4) इत्यत्, तथा च `अबोभूवुः' `अबोभूवत्' इति पक्षभेदेन रूपद्वयं लभ्यते, नित्यत्वेन वुको गुणबाधकत्वात्। माधवोदात्दृतम् `अबोभूवन्' इति तु चिन्त्यमेव, अन्त्यादेशस्य दुर्लभत्वात्। `अपीपचन्' इति तु चिन्त्यमेव, अन्त्यादेशस्य ढुर्लभत्वात्। `अपीपचन्' इत्येतत्सिद्धये च पञ्चमीसमास आश्रयणीयः। `विगणय्य' इत्यादावतिप्रसङ्गस्य तु पूर्वोक्ता एवोद्धाराःक स्मर्त्तव्या इति युक्तःक पन्थाः। ननु पञ्चमीसमासो मास्त्विति वदतो मते ` तन्वन्ति' इत्यत्रेट् स्यादिति कुतो नोद्भावितमिति चेत्? न, बहिरङ्गस्य यणोऽसिद्धत्वात्। न च ``नाजानन्तर्ये (पoभाo51) इति निषेधः, अनन्तरे कार्यविधौ यत्राच आनन्तर्यमिति कैयटेनाभ्युपगमात्। कथं तर्हि `तन्वन्ति' इति पञ्चमीसमासोदाहरणं प्राग्दत्तमिति चेत्? हरदत्तमतेनेत्यवेहि। स हि यत्रान्तरङ्गे बहिरङ्गे वा अचोरानन्तर्यमिति व्याख्यत्। नन्वेवं न पदान्तसूत्रे `दध्यत्र' इति वृत्तिमुपादाय स्थानिवद्भावप्रतिषेधसामर्थ्याद्वहिरङ्गपरिभाषा न प्रवर्त्तत इति मिश्रोक्तिर्विरुध्यते, बहिरङ्गे यणि अचोराश्रयणएन ``नाजानन्तर्ये (पoभाo51) इति निषेधादेव परिभाषाया अप्रवृत्तेः किञ्च `संयोगान्तस्य लोपः (पाoसूo7-2-23) इति सूत्रे ``असिद्धं बहिरङ्म् (पoभाo50) इति परिभाषामाश्रित्य क्रियमाणं ``यणः प्रतिषेधः (काoवाo) इति वार्त्तिकस्य प्रत्याख्यानमपि विरुध्येत। अपि च ``लण् (माoसूo06) इति सूत्रे ``उरण्रपरः (पाoसूo1-1-51) इति परेण चेत् `कर्त्रर्थम्' इत्यत्र रेफद्वयं श्रूयेतेत्युक्तम्, तदपि विरुध्येत ``रो रि (पाoसूo8-3-14) इति लोपसम्भवात्, असिद्धपरिभाषायाश्चोक्तरीत्या निषेधात्। किञ्च ``न धातुलोप (पाoसूo1-1-4) इति सूत्रे `प्रेद्धम्' इत्यत्रत्यभाष्येण ``संयोगान्तस्य (पाoसूo8-2-23) इत्यत्र ``यणः (काoवाo) इत्यस्य प्रत्याख्यानभाष्येणापि विरोधः। किञ्च ``एत ऐ (पाoसूo3-4-93) इत्यत्र `पचावेदम्' इत्यादौ अतिप्रसङ्गमाशङ्क्य बहिरङ्गतया स्वीकृतं समाधानमपि भज्येतेति दिक्। तस्माद्धरदत्तकृता व्याख्या पूर्वापरस्वग्रन्थेन भाष्येण च विरुद्धेति चेत्? सत्यम्, अत एवेमां व्याख्यां नधातुलोपसूत्र एवानुपादेयामवोचाम। ``केऽणः (पाoसूo7-4-13) इत्यादिज्ञापकात् ``नाजानन्तर्ये (पoभाo 51) इत्यस्यानित्यतामाश्रित्य वा कथञ्चित्समर्थनीयम्।
     स्यादेतत्। कैयटमतेऽप्यचोरिति द्वित्वं विवक्षितं न वा? आद्ये मूलभूतज्ञापकविरोधः। नहि `कोसिचत्' `कोस्य' इत्यादावनन्तरे षत्वविधावचोराश्रयणम्। द्वितीये तु मूलभूतं ज्ञापकं सम्भवेत् यदीण्ग्रहणमं पूर्वेण स्यात्, तत्तु परेणैवेति स्थितम्। अथ परेणेण्‌ग्रहणे हलोऽपि केचिदन्तर्भवन्तु नाम, अजानन्तर्यन्तु न गतमित्याशयः, तर्ह्यस्तु कथञ्चिज्ज्ञापकनिर्वाहः। `अयजे इन्द्रम्' `वृक्षे इन्द्रम्' इत्यादौ परत्वात्सवर्णदीर्घस्तु दुर्वार एव। न ह्यत्र ``असिद्धं बहिरङ्गम् (पoभाo50) इतिक प्राप्रनोति ``नाजानन्तर्ये (पoभाo51) इति निषेधात्। नन्वन्तरङ्गं बलवदिति परिभाषान्तरेणेदं सिद्धति। तथाच विप्रतिषेधसूत्रे `अन्तरङ्गं च' इत्युपक्रम्य इण्ङिशीनामाद्‌गुणः सवर्णदीर्घत्वादिति प्रयोजनं पठितमिति चेत्? सत्यं पठितम्, किन्तु बहुतमप्रयोजनाननिपठित्वा असिद्धपरिभाषयैव गतार्थत्वान्नेयं कर्त्तव्येत्युपसंहृतम्। एतेन प्रकृतसूत्रे `पट्व्या' `मृद्व्या' इत्युदाहरणदूषणप्रस्तावे ऽसिद्धपरिभाषां भाष्यकारैरुदाहृतामन्तरङ्गम्बलीय इत्येतदुपलक्षणतया व्याचक्षाणोऽपि कैयटः प्रत्युक्तः, विप्रतिषेधसुत्रस्थभाष्यविरोधात्। तस्मादिह सिद्धान्ततत्त्वमन्यदेव वक्तव्यमिति। उच्यते, अन्तरङ्गपरिभाषाया निरपवादत्वादसिद्धपरिभाषायास्तु ``नाजानन्तर्ये (पoभाo51) इति सापवादत्वादुभयोरावश्यकता। विप्रतिषेधसूत्रस्यथं भाष्यं त्वभ्युच्चयपरमेवेति भागवृत्तिकाराः। कैयटलधुविवरणादयोऽप्येवम्। बृहद्विवरणकारास्तु ``नाजानन्तर्ये (पoभाo51) इति परिभाषा मास्तु। तज्ज्ञापकतया यत्सम्मतं तेनासिद्धपरिभाषाया अनित्यत्वमेव ज्ञाप्यते इत्याहुः। अस्मिंश्च पक्षे विप्रतिषेधसूत्रस्थं ``नाजान्तर्ये इति बाष्यमप्यनित्यत्वपरतया भङ्क्त्वा नेयम्। अन्यथा हि तत्रैव ``अन्तरङ्गं बलीयः इत्यस्य प्रत्याख्यानं विरुध्येत। अत एव वृत्तौ ``नलोपः सुप्‌स्वर (पाoसूo8-2-2) इत्यत्र नलोपस्यासिद्धत्वात् ``हस्वस्य (पाoसूo6-1-71) इति तुक् नेत्युपक्रम्य सन्निपातबहिरङ्गपरिभाषाभ्यां गतार्थतामाशङ्क्य परिभाषाद्वयस्याप्यनित्यतां ज्ञापयितुं तुग्‌ग्रहणमित्युक्तम्। अत एव तत्र मिक्षैरप्युक्तम्--बहिरङ्गपरिभाषाया अनित्यत्वात् `या' `सा' इत्यत्र बहिरङ्गमपि त्यदाद्यत्वमन्तरङ्गे टापि नासिद्धमिति। तथा `प्रतिदीव्नः' इत्यादिसिद्धयेप्यसिद्धपरिभाषाया अनित्यत्वं स्वीकृतम्। अत एव च `अक्षद्यूः' इत्यत्र यलोपे कार्ये ऊठ् नासिद्ध इति दिक्।
     एतदपवादश्च ``अकृतव्यूहा: (पाoभाo56) इत्यादिः। उत्सर्गापवादयोर्द्वयोरप्यनित्यत्वे स्थिते लक्ष्यानुरोध एव व्यवस्थाहेतुरिति सर्वं सुस्थम्।
     स्यादेतत्। पूर्वस्येति सम्बन्धसामान्ये षष्ठी। सम्बन्धश्च द्विविधः--कार्यित्वेन निमित्तत्वेन वा। एवञ्च विधिग्रहणं विनैव समासद्वयस्य फलं लब्धम्। विधिग्रहणे सत्यपि हि पूर्वस्मान्निमित्तत्वेनाश्रितादिति व्याख्येयमेव, अन्यथा `हे गौः' इत्यत्र गकारात्परस्य विधौ वृद्धेः स्थानिवद्भावाद् ``एङ्‌ह्रस्वात् (पाoसूo6-1-69) इति सम्बुद्धिलोपः स्यात्।
     सत्यम्। विधिग्रहणं योगविभागार्थम्। तेन `पूर्वस्य विधौ स्थानिवदेव' इति नियमात्स्वाश्रयं व्यावर्त्यते। यद्वा, माऽस्तु योगविभागः। विधिग्रहणसामर्थ्याद्विधिमात्रे स्थानिवद्भावो भविष्वति शास्त्रीयेऽशास्त्रीये च। तेन `पटयति' इत्यादौ वृद्ध्यभावोऽशास्त्रीयोऽपि सिध्यति। नन्वेवमपि पूर्वसूत्रादेव विधिग्रहणमनुवर्तयिष्यते? सत्यम्, पुनर्विधिग्रहणात् द्वितीयो नियमः क्रियते---पूर्वस्यैव विधौ स्थानिवन्न तु पूर्वपरयोर्विधाविति। तेन `ईयतुः' इति सिद्ध्यति। अन्यथा हि इणोऽनुसि ``द्विर्वचनेऽचि (पाoसूo1-1-59) इति यणादेशस्य स्थानिरूपातिदेशाद् द्वित्वे कृते द्वित्वकाले यणोऽकपहारात् पुनः प्रवृत्तिवेलायां व्याश्रयत्वेन ``वार्णदाङ्गं बलीयः (पoभाo55) इत्यस्मिन्नप्रवृत्ते वर्णमात्राश्रयत्वेनानतरङ्गत्वात्सवर्णदीर्घः स्यात्। न च ``अकृतव्यूहाः (पाoभाo56) इति यणिति वाच्यम्, निमित्तविघाताभावात्। कृतेऽपि यणि स्थानिवत्त्वेन सवर्णदीर्घप्राप्तेः। ततश्च सवर्णदीर्घे कृते ``अन्तादिवच्च (पाoसू06-1-85) इत्यनेनाभ्याशग्रहणेन ग्रहादभ्यासहस्वत्वे ``दीर्ग इणः किति (पाoसूo8-4-69) इति दीर्घत्वे कृते दीर्घविधानसामर्थ्यादिणोयणभावे `ईअतुः' इति स्यात्। सिद्धान्ते तु पूर्वपरयोर्विधौ स्थानिवर्त्वाभावान्निमित्तविघातेनाकृतव्यूहपरिभाषयेणो यणि सिद्धं रूपम्। यद्वा, स्थानिवदिति वतिभलेनाभावोऽप्यतिदिश्यते, उत्तरसूत्रे द्विर्वचनादिग्रहणाल्लिङ्गात्। विधिग्रहणं तु पूर्वस्यैव न तु पूर्वपरयोरित्येतदर्थमिति दिक्।
     इह स्थान्यादेशनिमित्तानां त्रयाणां सन्निधानाविशेषेऽपि स्थान्यपेक्षमेव पूर्वत्वं गृह्यते न तु आदेशापेक्षं निमित्तापेक्षं वा `वैयाकरणः' इत्यत्र आयादेशापत्तेः। तदुक्तम्--``अचः पूर्वत्वविज्ञानादैचोः सिद्धम् (भाoइo) इति।
     नन्वेवं `समाद्य' इत्यत्र जग्धयादेशप्रसङ्ग ``ण्यल्लोपौ (काoवाo) इति पूर्वविप्रतिषेधेन णिलोपे कृते ततः प्रत्ययलक्षणेन वृद्धौ सत्यामेकदेशविकृतस्यानन्यतयाऽदिग्रहणेन ग्रहणात्। एवं `घात्यात्' इत्यत्र वधादेशप्रसङ्ग इति चेत्? न, आदिघात्योरपि स्थानिद्वाराऽनादिष्टादचः पूर्वत्वात्। ननु स्थानिनः पूर्वत्वेऽपि आदेशस्य् किमायातम्? नह्यनादिष्टदचः पूर्वत्वं नाम शास्त्रीयं कार्यं, यत् ``स्थानिवदादेशः (पाoसूo1-1-56) इति पूर्वसूत्रेणातिदिश्येतेति चेत्? न, अनादिष्टादचःक पूर्वत्वमुपजीव्य ``अचः परस्मिन् (पाoसूo1-1-57) इति शास्त्रे प्रवर्तयितव्ये ``स्थानिवदादेशः (पाoसूo1-1-56) इत्यस्य प्रवृत्तिसम्भवात्। तथाच ``अचः परस्मिन् (पाoसूo1-1-56) इत्यतिदेश एव शास्त्रीयं कार्यं, तच्च पूर्वसूत्रेणातिदिश्यते इति फलितोऽर्थः। अत एव नपदान्तसूत्रे सवर्णग्रहणं कृतम्। अन्यथा श्नसोरल्लोपे कृते पश्चाद्भवन्ननुस्वारोनानादिष्टादचः पूर्व इति तस्य विधौ स्थानिवद्भावविरहात्सवर्णग्रहणं व्यर्थमेव स्यात्। नन्वेवं `क्षत्रियकण्डूतिः' इति न सिद्ध्यति। तथाहि, कण्डूयतेःक क्तिचि अल्लोपयलोपयोः कृतयोरल्लोपस्य स्थानिवत्त्वेनोवङि कृते ऊकारस्यानादिष्टादचः पूर्वस्य स्थाने जातस्योवङः ``स्थानिवदादेशः (पाoसूo1-1-56) इति स्थानिवद्भावेनानादिष्टदचःक पूर्वत्वाद् ``अचः परस्मिन् (पाoसूo1-1-57) इतिस्थानिवत्त्वेनाकारेण व्यवायादूठोऽमावेन स्थानिवत्त्वादेव ``लोपो व्योर्वलि (पाoसूo6-1-33) इति वलोपाभावेन ``हलि च (पाoसूo8-2-77) इति दीर्घे कृते `कण्डूव्‌ति' इति प्राप्नोति। यत्तु यः स्थानिद्वारा पूर्व उवङ् न तस्योठ्, कस्य तर्हि? वकारस्य । यस्य चोठ् वकारस्य, न स स्थानिद्वारा पूर्व इति। तन्न, तेस्तुरितिवत्कण्डू इत्यस्य् कण्डुव् इति आदेशात्, तस्य च कण्डुऊ इत्यादेशे कर्त्तव्ये स्थानिवद्भावावश्यम्भावात्। उक्तं हि ---``सर्वे सर्वपदादेशाः इति। अन्यथा `निराद्य' `घात्वात्' इत्यादावपि स्थानिवद्भावानापत्त्या मूलशैथिल्यापत्तेरिति।
     अत्रोच्यते। अनादिष्टादचः पूर्वतायाः स्थानिद्वारकत्वमनित्यं, नपदान्तसूत्रे `कणअडूतिः' इतचि भाष्योदाहरणाज्ज्ञापकात्। ``आतोऽनुपसर्गे कः (पाoसूo3-2-3) इति सूत्रे ``कविधौ सर्वत्र प्रसारणिभ्यो डः इति वार्त्तिकस्य तत्प्रघट्टकभाष्यस्य च पर्यालोचनयाप्येवमेव लभ्यते। तथा च तत्र भाष्यम्--योऽनादिष्टदचः पूर्वस्तक्त्त्कार्ये स्थानिवत्त्वं हीति। स्थानिद्वारके तु पूर्वत्वे गृह्यमाणे सम्पूर्णःक प्रघट्टकत एवासङ्गतः स्यादिति तत्रैव स्फुटीकरिष्यते। तत्रत्यः कैयटस्त्वापाततः ।
     एतेन तितउमाचष्टे तितापयतीति हरदत्तग्रन्थोऽपि व्याख्यातः। तत्र हि णौ टिलोपे कृते तस्य स्थानिवत्त्वाद् ``अचो ञ्णिति (पाoसूo7-2-115) इति वृद्ध्यभावेऽपि ``अत उपधायाः (पाoसूo7-2-116) इति वृद्धौ ओकारे कृते तस्य स्थानिद्वारा उकारात्पूर्वत्वेन पुग्विधावुकारलोपस्य स्थानिवत्त्वात्पुङ् न प्राप्नेति। न च यस्य पुक् आका रान्तस्य, नासौ पूर्वः, यश्च पूर्व आकारः, न तस्य पुगिति वाच्यम्, एकदेशविकृतस्यानन्यतैया ``सर्वे सर्वपदादेशाः इत्युक्तरीत्या चाकारान्तस्यापि पूर्वत्वानपायात्। तस्मात् स्थानिद्वारकं पूर्वत्वमनित्यमित्येव हरदत्तस्य शरणम्।
     अत्र केचित्-- `तितापयति' इत्यसाध्वेव। तथाहि, तितउ णिच् इति स्थिते टिलोपश्च प्राप्नोति ``अत उपधायाः (पाoसूo7-2-166) इति वृद्धिश्च। उभयोर्नित्ययोः परत्वाद् वृद्धिः। ततष्टिलोपे कृते स्वत एवानादिष्टादचः पूर्वमादन्तं न तु स्थानिद्वारेति पुङ् न प्राप्नोति। तस्माच्छपि णिचो गुणे कृते एचिवृद्धावायादेशे `तितायति' इतिभवति। न च तिता णिच् इति स्थिते अन्तरङ्गत्वादाद्‌गुणे शप्ययादेशे `तितयति' इति स्यादिति वाच्यम्, शपि हि गुणे सति ``वृद्धिरेचि (पाoसूo6-1-88) इति बाधेनाद्‌गुणस्य निमित्तविघातस्योत्पत्स्यमानतयाऽकृतव्यूहपरिभाषया पृर्वमन्तरङ्गस्याप्याद्‌गुणस्याप्रवृत्तेः। अकृतव्यूहपरिभाषा ह्यन्तरङ्गपरिभाषाया अपवाद् इत्युक्तम्। न च शपि गुणस्य ``अचः परस्मिन् (पाoसूo1-1-57) इति स्थानिवत्त्वादाद्‌गुणस्य न निमित्तविखात इति वाच्यम्, पूर्वस्यैव विधौ स्थानिवद्भावो न तु पूर्वपरयोर्विघावत्युक्तत्वात्। तस्मात् `तितायति' इत्येव ****, न तु `तितयति' `तितापयति' इति वा। चङि तु तिता णिच् चङ् तिप् इति स्थिते ``तनोतेर्डउः स न्वच्च (उoसूo541) इति व्युत्पत्तिपक्षे ``अनभ्यासस्य इति द्वित्वनिषेधे टिलोपस्य चङ्परनिर्ह्रासे स्थानिवत्त्वनिषेधाद् ह्रस्वाभावे णिलोपे तस्य स्थानिवत्तवादसिद्धत्वाद्वाऽऽतोलोपाभावे दीर्घविधिं प्रति स्थानिवत्त्वनिषेधात्सवर्णदीर्घे `अतितात्' इति भवति न `अतितापत्' इति।
     अत्रेदं वक्तव्यम्--परत्वाद् वृद्धिरित्यसङ्गतं नित्यत्त्वेन टिलोपात्। न च वृद्धिर्नित्या ``अचः परस्मिन् (पाoसूo1-1-57) इति कार्यातिदेशेन वृद्धिप्राप्तावपि ``लक्षणान्तरेण प्राप्नुवन्ननित्यः इति न्यायेनानित्यत्वात्। एवं च हरदत्तोक्तिः सुष्ठ्वेव। किन्तु अनित्यत्वेऽपि स्थानि द्वारकं पूर्वत्वमिह नेष्यते इत्यस्मिन्नर्थ प्रमाणं चिन्त्यम्।
     तदेवं स्थानिद्वारकं वा स्वतो वा उभयथाप्यचः पूर्वत्वमिह गृह्यते इति स्थितम्। विधियते इति विधिरिति कर्मणि किप्रत्ययः। पूर्वस्येति शेषे षष्ठी, अनुवादे परिभाषानुपस्थानात्। पुगाद्यागमेऽपि विधेये स्थानिवद्भावः। अच इत्यत्र तु आदेश इति समभिव्याहारात् योग्यताबलात् स्थानिसम्भन्धलाभः, ``षष्ठी स्थाने योगा (पाoसूo1-1-49) इत्यतः पूर्वसूत्रेऽनुवर्त्तितस्य स्थानेग्रहणस्येहाप्यनुवृत्तेर्वेति प्रसिद्धः पन्थाः।
     न्यासकारस्तु निमित्तपेक्षमादेशापेक्षं वा पूर्वत्वमित्यपि पक्षौ भाष्ये उपन्यस्तत्वात्स्वीचकार। वैयाकरणादौ तु पूर्वत्वमित्यपि पक्षौ भाष्ये उपन्यस्तत्वात्स्वीचकार। वैयाकरणादौ तु बहिरङ्गयोरैचोरसिद्धत्वान्न दोष इत्याह। इदं च नाजानन्तर्यपरिभाषाया बहिरङ्गपरिभाषाया एव वा अनित्यतेति प्रागुक्तमुपष्टब्य समर्थनीयम्। अस्मिन्पक्षे विधिरिति भावे किः, षष्ठी तु अनभिहितत्वात्कर्मणीत्यपि सुस्थमेव। किं तु निमित्तापेक्षया पूर्वत्वे त्यदाद्यत्वस्य स्थानिवत्त्वात् `द्वाभ्याम्' इत्यादौ दीर्घौ न स्यात्। ``ईघति (पाoसूo6-4-65) इतीत्वस्य स्थानिवत्त्वादिगन्तलक्षणो गुणो न स्यात् `देयम्' इति। तता गुणवृद्ध्योः स्थानिवत्त्वात् `लवनं' `लावकः' इत्यवावौ न स्याताम्। ``द्वयोरेकस्य (पाoसूoएo 5-3-92) ``देयमृणे (पाoसूo4-3-47) ``किरतौ लवने (पाoसूo6-1-150) इत्यादिनिर्देसापष्टम्भेनानित्यताश्रयणं तु क्लिष्टमिति दिक्।
     पूर्वत्वं न नाव्यवधानगर्भं किं तु व्यवहितसाधारणं ``तस्मिन्निति निर्दिष्टे (पाoसूo1-1-66) इति सूत्रे निर्दिश्टग्रहणाल्लिङ्गात्, चङ्परनिहासे निषेधारम्बाच्च। तेन `पटयति' `अवधीत्' इत्यादौ स्थानिव द्भावः सिद्ध्यति। वधादेशो ह्यदन्तः।
     स्यादेतत्। `पटयति' इत्यत्रान्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदत्वाज्जश्त्वं प्राप्नोति। न च स्थानिवद्भावः, जश्त्वविधौ तत्प्रतिषेधात्। सत्यम्, कर्मसमर्पकात् प्रातिपदिकादेव णिजुत्पत्तिर्न तु सुबन्तादिति वक्ष्यमाणत्वात्: सुबन्ताण्णिजिति पक्षेऽपि इष्ठवदित्यतिदिष्ट्या भसंज्ञया पदसंज्ञाया बाधात्। पटुमित्यस्यैव हि भसंज्ञा प्रवृत्तेति कथं तत्र पदसंज्ञा प्रवर्त्तेत? तत्र चाप्रवृत्ता कथन्तरामेकदेशविकृते लभ्येत? स्रग्विणमाचष्टे स्रजयतीत्यादौ हि प्रातिपदिकाण्णिजुत्पत्तिरिति पक्षेप्येषैव गतिरिति वक्ष्यामः। `अवधीत्' इत्युदाहरणं तु भाष्यमते, आर्द्धधातुकीयाः सामान्येन भवन्तीति पूर्वसूत्रे एवोपपादितत्वेनार्द्धधातुकोपदेशे यदकारान्तं तस्य लोप इति लोपसम्बवात्। वार्त्तिकमते तु लिङीति परसप्तमीत्युक्तम्। तथाच `अत' `पत्' इत्यादाविवातो लोपो न प्राप्नोति। अत एव हलन्त एवलायमादेश इति तन्मतम्। वृद्धिस्तु न भवति ``वध्यादेशे वृद्धितत्वप्रतिषेधः इति पूर्वसूत्रस्थवार्त्तिकात्। एवम्`अखट्वकः' `बहुखट्वकः' इत्यादौ ``केणः (पाoसूo7-4-13)क ``आपोऽन्यतरस्याम् (पाoसूo6-2-174) इति खकाराकारस्योदात्तो न भवति, किन्तु ``कपि पूर्वम् (पाoसूo6-2-173) इत्युत्तरपदान्तोदात्तत्वमेव भवति। `अचितीकः' `बहुचितीकः' इत्यादौ तु ``चितेः कपि (पाoसूo6-3-127) इति दीर्घस्य स्थानिवद्भावाच्चिशब्देकारस्य उदात्तता भवति। न चोभयत्रापि स्व(1) रविधौ न स्थानिवदिति निषेधः शङ्क्यः लोपाजादेशमात्राविषयः स इति वक्ष्यमाणत्वात्। एवं `पट्‌व्या' `मृद्व्या' इति बहुभिर्वृत्तिकारैरुदाहृतत्वात् मूर्द्धाभिषिक्तमिति भाष्ये व्यवहृतमप्युदाहरणं साध्वेव, अकृतव्यूहन्यायेन प्रथमं पूर्वयणादेशायोगात्। न चैवं `कर्त्र्या' `इर्त्र्या' इत्यादौ ``उदात्तयणः (पाoसूo6-1-174) इति विभक्तेरुदात्तत्वं न स्यादिति वाच्यम्, स्वरविधौ व्यञ्चनस्याविद्यमानवद्भावेन पूर्वयणमेवाश्रित्य तत्समाधानात्। न च पूर्वस्मादपि विधौ स्थानिवद्भावाद्व्यञ्जनमेव नेति वाच्यम्, रेफस्यादिष्टदचः पूर्वत्वात् स्थानिद्वारकस्य पूर्वत्वस्यानित्यत्वात् ``निष्ठायां सेटि (पाoसूo6-4-52) इति सेट्‌ग्रहणेन पूर्वस्मादपि विधौ स्थानिवद्भावस्य अनित्यत्वाच्च। तस्मान्मूर्द्धाभिषिक्तमुदाहरणमितिपक्षो नातीव दुष्यति। अत एव ह्याश्रीयमाणायामेव प्रकृतौ स्थानिवत्त्वमिति पक्षे `अकुर्व्याशाम्' `अलुन्याशाम्' `व्यत्यजन्याशाम्' `राय्यशाम्' इत्यत्र क्रमेण ``ये च (पाoसूo6-4-113) इत्युलोपः, ``ईहल्यघोः (पाoसूo6-4-109) इतीष्वं, ``ये विभाषा (पाoसूo6-4-43) ``रायो हलि पाoसूo7-2-85) इत्यात्वं च प्राप्नोतीति भाष्यवार्त्तिकयोरुक्तम्। यत्त्वन्तरङ्गं बलवदिति वा ऽसिद्धपरिभाषां वाश्रित्य `पट्‌व्या' `मृद्व्या' इत्युदाहरणनिराकरणपरं भाष्यं, तत्तु अकृतव्यूहवचसोऽनित्यताभिप्रायेण कथञ्चिन्नेयमिति दिक्।

     न पदान्तद्विर्वचनवरेलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (पाoसूo1-1-58) ।। पदान्तादिकर्मकेषु विधिषु पूर्वेण प्राप्तः स्थानिवद्बावो न स्यात्। पदान्ते--`कानि सन्ति' `कौ स्तः'। इह यणावादेशयोःक कर्त्तव्ययोः श्नसोरल्लोपो न स्थानिवत्। न चानादिष्टादचः पूर्वत्वाविरहादेव न स्थानिवदिति वाच्यम्, वाक्यादपोद्‌धृत्य पदानि संस्क्रियन्ते इति कपक्षेऽनादिष्टादचः पूर्वत्वस्य सत्त्वात्। न हि पदान्तरनिरपेक्षमेव पदमिह शास्त्रे संस्कार्यमिति नियमः, ``युष्मद्युपपदे (पाoसूo 1-4-105) इत्याद्यनुशासनस्यासंगतिप्रसङ्गात्। एतच्चाङ्गसंज्ञासूत्रे कैयटेन धवनितम्।
     केवलपदसंस्कारपतक्षे `अदद्रीचः' इत्यादौ``अचः (पाoसूo6-4-138)क इत्यल्लोपो न स्तानिवदित्युदाहार्यम्।
     विधिशब्दश्चेह न कर्मसाधनः। तथात्वे हि कर्मधारयो वा स्यात् शेषषष्ठ्यन्तेन सह तत्पुरुषो वा? नाद्यः, विधिशब्दस्य क्रियाशब्दतया पूर्वनिपातप्रसङ्गात्। नान्त्यः पदान्तस्य कस्मिश्चित्कर्त्तव्ये न स्थानिवदिति पर्यवसानेन `वृक्षव्' इत्यत्र वलोपापत्तेः, द्वन्द्वनिर्दिष्टेषु द्विर्वचनादिषु अनन्वयापत्तेश्च। तस्माद्भावसाधन एवाऽन्तरङ्गत्वाच्च। अत एव कर्मषष्ठ्यन्तेन समासः। `शुकी' `तटी' इत्यादौ पदसंज्ञ्ायां कर्त्तव्यायां ``यस्य (पाoसूo6-4-148) इति लोपः स्थानिवदेव। न हि ``स्वादिषु (पाoसूo1-4-17) इति सूत्रेण पदस्यान्तो विधीयते, येन निषेधः स्यात्। किं तु संज्ञामात्रम्। तत्रापि यथोद्देशपक्षः जश्त्वादिकार्यकालत्वे ``पूर्वत्रासिद्धे न (भाoइo) इति निषेधापत्तेः। एकदेशविकृतस्यानन्यत्वाद् `वेतस्वान्' इत्यत्र रुः प्राप्तः बहिरङघ्गस्यासिद्धत्वान्नेति वक्ष्यते। भाष्ये तु पदसंज्ञायाः कपदान्ततां स्वीकृत्य पदे अन्त इति भसंज्ञापि पदकार्यमिति च द्वेधा समाहितम्। तत्रान्त्ये षडिके वचनसामर्थ्यादिति बोध्यम्। वाचिकषडिकौ तु पञ्चमे वक्ष्येते।
     द्विर्वचने--सुद्‌ध्युपास्यः। स्थानिवद्भावनिषेधसामर्थ्यादेव बहिरङ्गपरिभाषापीह न प्रवर्त्तते। ``नाजानन्तर्ये (पoभाo51) इति निषेधाद्वा।
     वरे इति निपातनादलुक् द्वन्द्वश्च। वरे योऽजादेशः स न स्थानिवत्। यायावरः। याते। ``नित्यं कौटिल्ये (पाoसूo3-1-23) इति यङ् ``यश्च यङः (पाoसूo3-2-176) इति वरच् तन्निमित्तकोऽतो लोपः। स च ``आतो लोप इटि च (पाoसूo6-5-64) इत्यालोपे कर्त्तव्ये न स्थानिवत्। नन्विह परनिमित्तकत्वमेव नास्ति, आर्द्धधातुके िति विषयसप्तमयभ्युपगमात्। अत एव हि ``अचो यत् (पाoसूo3-1-97) इति सूत्रेऽज्ग्रहणं कृतम्। अन्यथा हलन्ताण्ण्यतो विशेषविहिततया परिशेषादच एव यद्भविष्यति किं तेन? विषयसप्तम्यां तु `दित्स्यम्' धित्स्यम् इत्यादावजन्तभूतपूर्वादपि यत्सिद्धये अज्ग्रहणमिति ``यतोऽनावः (पाoसूo6-1-213) इत्याद्युदात्तस्सिध्यति। सत्यम्, वरेग्रहणेन परसप्तमीपक्षो ज्ञाप्यते। तता च ``अनुदात्तेतश्च हलादेः (पाoसूo3-2-149) इति सूत्रे आदिग्रहणं कृतम्--हलन्तादिति मा विज्ञायीति। अस्ति च हलन्तविशेषणस्य व्यावर्त्यं `जुगुप्सनः' `मीमांसनः' इति। विषयसप्तमीत्वेत्विहापि अतोलोपो हलन्तत्वाद्युचा भाव्यमेवेति हलन्तविशेषणवैयर्थ्यात्सामर्थ्यादेवादिपरिग्रहसिद्धौ हल इत्येव ब्रयात्। एवञ्च यातेर्यङन्तात् क्तिचि अतो लोपे यलोपविधिं प्रति स्थानिवत्त्वनिषेधाद्यलोपे च `याया'-- इति स्थिते यङकारलोपस्य स्थानिवत्त्वाद् ``आतो लोप इट च (पाoसूo6-4-64) इत्याकार्लोपे पुनर्यलोपे यातिरिति भवति। न च पुनराकारयकारयोर्लेपे सति क्तिच्प्रत्ययमात्रं श्रुयेतेति वाच्यम्, आल्लोपस्य स्थानिवत्त्वात्। चिणोलुङ्न्यायेनासिद्धत्वाद्वा।
     यलोपे टउदाहरणान्तरमपि। तद्यथा--कण्डूयतेः क्तिच्--कण्डूतिः। क्तिन्निति तु काशिकायां प्रमादः। ``अप्रत्ययात् (पाoसूo3-3-102) इत्यनेन बाधात्। न च `र्प्तिः' इत्यादाविवेह आबादित्वकल्पनं बहुलग्रहणं वा शरणीकरणार्हम्, भाष्यकारेणैव `कण्डूया इत्येव भवितव्यमिति वदता एतस्यापशब्दतोक्तेः। तस्मादयं क्तिजेव। ततोऽल्लोपयलोपौ। अल्लोपस्य स्थानिवत्त्वादुवङ्। ततः ``च्छवोः शूड् (पाoसूo6-4-19) इत्यूठ्। चोठ्यपि स्थानिवत्त्वम्, आदिष्टादचः पूर्वत्वात्। अत एव ऊठः पुनरुवङ् न भवति। ``सर्वे सर्वपदादेशाः (भाoइo) इत्याश्रित्य स्थानिद्वारकं पूर्वत्वं यद्यपीह वक्तुं शक्यते, भाष्यमते `लोलुवः' `पोपुवः' इत्यादौ यथा, ततापि स्थानिद्वारकं पूर्वत्वं क्वाचित्कमेवेति पूर्वसूत्रे एवोक्तम्। तता तिष्ठतेर्यङन्तात् क्तिच् अल्लोपयलोपयोः `तेष्ठीति' इति स्थिते अल्लोपयलोपयोः ``एरनेकाचः (पाoसूo6-4-82) इति यणि यलोपे कृते `पेप्तिः' इति भवति। ``शो तनूकरणे यङन्तात् क्तिचि अल्लोपयलोपाऽऽल्लोपेषु ``पूर्वत्रासिद्धे न (भाoइo) इति स्थानिवत्त्वनिषेधात् ``छसां षः (पाoसूo8-2-36) इति षत्वे कृते `शाष्टिः'क इति भवति। एवं चेचीयतेश्चेक्तिरिति दिक्।
तदेवं वरेयलोपेति नैकं निमित्तं किन्तु द्वे इति स्थितम्।
     केचित्तु वरई इति ईकारं प्रश्लिष्य ईकारे परतो विधौ न स्थानिवदिति व्याचख्युः। तेनाऽऽमलक्याः फलमामलकम् ``नित्यं वृद्धशरादिभ्यः (पाoसूo4-3-144) इतिक मयट्। ``फले लुक् (पाoसूo4-3-163) ततो ``लुक् तद्वितलुकि (पाoसूo1-2-49) इतिक ङीषो लुक्। स ``यस्य (पाoसूo6-4-148) इति लोपे न स्थानिवत्। पूर्वोक्तव्याख्याने तु ``लुका लप्तं न स्थानिवत् इति वचनं करिष्यते। तत्र च लुप्तमिति ``नपुंसके भावे क्तः (पाoसूo3-3-114) लुङ्न स्थानिवदिति फलितोऽर्थः।
     स्वरे-चिकीर्षकः। सनोऽतो लोपो ``लिति (पाoसूo6-1-193) इति ककारेकारस्योदात्तत्वे कर्त्तव्ये न स्थानिवत्। न च ``लिति (पाoसूo6-1-193) इत्यस्यारम्भसामर्थ्यम् `कारकः' इत्यादौ सावकाशत्वात्। भाष्ये तु `आकर्षिकः' इत्युदाहृतं, तदापाततः, ष्ठलो लित्त्वसामर्थ्यात् स्थानिवद्भावकृतव्यवधाने सत्यपि लित्स्वरस्य सुवचत्वात् `घ्नन्ति' इत्यादौ कुत्ववत्।
     सर्वर्णानुस्वारयोः--शिण्डि। पिण्ढि। श्नसोरल्लोपोऽत्र न स्थानिवत्। अनुस्वारस्यानादिष्टादचः पूर्वत्वं तु स्थानिद्वारेत्युक्तम्। यद्यपि सवर्णग्रहणमात्रेणानुस्वारोऽप्याक्षेप्तुं शक्यते तथापि विशेषापेक्षं ज्ञापकमित्यपि सम्भाव्येत। तथा च यत्र न परसवर्णप्रसङ्गः `शिंषन्ति' इत्यादौ, तत्र स्थानिवद्भावं निषेद्‌धुमनुस्वारग्रहणम् ``अचः परस्मिन् (पाoसूo1-1-57) इति सूत्रे उक्तरीत्या ``अभ्यासस्यासवर्णे (पाoसूo6-4-78) इत्यादिषु सवर्ण इति निषेधस्य लब्धावकशतया `शिण्ढि' इत्यादेरपि असिद्धापत्तेश्चेति दिक्।
     दीर्घे-प्रतिदीव्ना। इह ``हलि च (पाoसूo8-2-77) इति दीर्घेऽल्लोपे न स्थानिवत्। यत्तु काशिकायामुक्तम् ``उपधायां च (पाoसूo8-2-78) इति, तत्प्रामादिकम्। तथाच ``उपधायां च (पाoसूo8-2-78) इत्यत्रोक्तम्-प्रतिदीव्नेत्यत्र ``हलि च (पाoसूo8-2-77) इति दीर्घ इति। यद्वा, आचारक्विबन्तात् ``क्विप् च (पाoसूo3-2-76) इति क्विपि समाधेयम्। नन्वेवम् ``अनुनासिकस्य क्विझलोः (पाoसूo6-4-15) इति दीर्घः स्यात्? सत्यम्, अकृतव्यूहपरिभाषया भाविनमल्लोपमालोच्यान्तरङ्गोऽपि दीर्घो न करिष्यते, `जग्मुषः' इत्यत्रेडागमनकारादेशाविवेति बोध्यम्। ननु स्थानिवत्त्वाभावेऽपि ``असिद्धं बहिरङ्गम् (पoभाo50) इत्यल्लोपस्यासिद्धत्वाद्दीर्घो न स्यादिति चेत्? न कृतितुग्विधिग्रहणेन बहिरङ्गपरिभाषाया अनित्यत्वस्य ज्ञापितत्वात्, यथोहेशपक्षे षाष्ठीं परिभाषां प्रति दीर्घस्यासिद्धतयाऽन्तरङ्गाभावेन परिभाषाया अप्रवृत्तेश्च।
     जशि-सग्धिश्च मे, बब्दान्ते हरी। तथाहि, अदनं ग्धिः। अदेः क्तिनि ``बहुलं छन्दसि (पाoसूo6-4-100) इत्युपधालोपः। ``ज्ञलो ज्ञलि (पाoसूo8-2-26) इति सकारलोपः `धिसकारे सिचो लोपः' इत्यस्य बाष्यकृतानाश्रयणात्। वर्त्तिकमते छान्दसो वर्णलोपः। ``झषस्तथोः (पाoसूo 8-2-40) इति धत्वम्। न च तस्मिन्कर्त्तव्ये पूर्वस्मादपीति स्थानिवद्बावः पञ्चमीसमासस्यानित्यतायाः पूर्वस्त्रे एवोपपादितत्वात्। घस्य ``झलाञ्जस् (पाoसूo8-4-53) कइति जशत्वे कर्त्तव्ये उपधालोपो न स्थानिवत्। समाना ग्धिः सग्धिः ``सहस्य सः संज्ञायाम् (पाoसू06-3-78) इति सूत्रात्स इत्यनुवर्त्तमाने ``समानस्य छन्दस्यमूर्द्धप्रभृत्युदर्केषु (पाoसूo6-3-84) इति सूत्रेण समानस्य सभावः। बब्धामिति भसेर्लेट्। तसस्ताम्। शपः श्लुः। अन्तरङ्गत्वाद् द्वित्वमभ्यासकार्यम्। ततो ``घसिभसोः (पाoसूo6-4-100) इत्युपधालोपादि प्राग्वत्।
     चरि--जक्षतुः, जक्षुः। घसेर्लिट् अतुस् उस् च। ``गमहन (पाoसूo6-4-68) इत्युपधालोपः। ``खरि च (पाoसूo8-4-55) इति चर्त्वं प्रति न स्थानिवत्।
     तत्र वार्त्तिकम्--``स्वरदीर्घयलोपेषु लोपाजादेशो न स्तानिवत् इति। तेनान्यः स्थानिवदेव। पञ्चभिररत्निभिः क्रीताः पञ्चारत्नयः। वेदे तु पञ्चारत्न्यः। ``जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपदायाः (काoवाo) इति गुणाभावे यण्। तस्य स्थानिवद्भावाद् ``इगन्तकाल (पाoसूo 6-3-29) इत्यादिन् पूर्वपदप्रकृतिस्वर इत्याहुः। यद्यपि ``असिद्धं बहिरङ्गम् (पoभाo050) इत्यनेनापीदं सिध्यति तथापि अकृतव्यूहपरिभाषामाश्रित्य योज्यम्। `अचितीकः' `अखट्वक्' इत्यत्र ``ह्रस्वान्तेऽन्त्यात्पूर्वम् (पाoसूo6-2-174)क इत्यस्य क्रमेण प्रवृत्त्यप्रवृत्ती फलमिति तु पूर्वसुत्रे एवोक्तम्। न च तत्र बहिरङ्गपरिभाषायाः प्रसङ्गोऽस्ति।
     किर्योः, गिर्योः। व्युत्पत्तिपक्षे ``हलि च (पाoसूo8-2-77) इति दीर्घः प्राप्तो यणः स्थानिवद्भावान्नभवति। ``अच इः (उoसूo5-88) इत्यधिकारे ``भुजेः किच्च (उoसूo599) ``कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च (उoसूo5-9-2) इति इः, स च कित्। यत्तु हरदत्तेन न्यासकृता च ``कॄग्रेरिच्च इत्युपन्यस्तं, तत् क्वचिदुणादिवृत्तौ अन्वेषणीयम्। वाय्वोः इह यलोपो न।
     अस्मिश्च वार्तिके स्वरग्रहणमात्रमावश्यकम्। `कियोः' गिर्योः इति तु ``उपधायां च (पाoसूo8-2-78) इति सूत्रे वृत्तिकारोक्तरीत्या उणादीनामव्युत्पत्तिपक्षालम्बेनापि सिद्धम्। `वाय्वोः' इति तु बहिरङ्गस्यासिद्धत्या सिद्धम्।
     क्विलुगुपधात्वचङ्‌परनिर्ह्रासकुत्वेषूपसंख्यानम्। पूर्वत्रासिद्धे च। तस्य दोषः संयोगादिलोपलत्वणत्वेषु। अस्यार्थः---क्वौ विधिं प्रति न स्थानिवत्। लवमाचक्षाणो लौः। अत्र णिचि यष्टिलोपो यश्चक्वौ णिलोपस्तदुभयं ``च्छवोः शूड् (पाoसूo6-4-19) िति वकारस्य क्विनिमित्ते ऊठि कर्त्तव्ये न स्थानिवत्। ``एत्येधत्यूठ्सु (पाoसूo6-1-89) इति वृद्धिः। तथा `पिपठिषि ब्राह्मणकुलानि' इति ``दीघीवेवीटाम् (पाo्सूo1-1-6) इतिसूत्रे यदुदाहृतं तदपि क्वौ विधिं प्रतीति व्याख्याने एव सङ्गच्छते। क्वौ लुप्तं प्रति न स्थानिवदिति व्याख्याने तु `लौः' `पिपठिषि' इत्युभयमपि न सिद्ध्येत्, णिचि टिलोपस्य स्थानिवद्भावे ऊठो ऽसम्भवात्, पिपठीषतेरप्रत्यये अतो लोपे नपुंसंकबहुवचने शौ झल्लक्षणे नुमि कर्त्तव्ये अतो लोपस्य स्थानिवतत्वनिषेधेन नुम्प्रसङ्गातच्च। एतच्च ``दीधीवेवीटाम् (पाoसूo1-1-6) इति सूत्रे कण्ड्वादिशूत्रे च मिश्रग्रन्थे स्फुटम्। कैयटोऽपि ``दीधीवेवीटाम् (पाoसूo1-1-6) इत्यत्र क्वौ विधिं प्रतीत्यर्थो व्यवास्थितो न तु क्वौ लुप्तं न स्थानिवदितीत्याह। अत्र व्यवस्थित इति वदता क्वौ लुप्तं नस्थानिवदिति पक्षोऽपि क्वचिदाश्रीयते एव, नियमः परं नास्तीति सूचितम्। लुप्तमिति नपुंसके भावे क्तः। एवञ्च सख्युर्गौमान् पदः त्वम् अइमिति सिद्धम्। तथाहि, ``ख्यत्यात्परस्य (पाoसूo6-1-112) इतिसूत्रे भाष्यम्--सखीयतेः सख्युः लूनीयतेर्लून्युरिति। तत्र सखीयतेः क्विपि अल्लोपे यलोपे अल्लोपस्य स्थानिवद्भावात् परत्वात्क्विलोपं बाधित्वा ``इकोयणचि (पाoसूo6-1-77) इति यण् स्यात्। ततो यययलोपे ` सखः' `लूनः' इति स्यात्। अत एव क्वौ लुप्तंन स्थानिवदिति तत्र यणं परिजहार कैयटः।
     तथा ``उगिदचाम् (पाoसूo7-1-70) इति सूत्रे अधातुभूतपूर्वस्थापि नुमर्थमधातुग्रहणमित्युक्त्वा गोमत्यतेरप्रत्यये `गोमान्' इत्युदाहृतं भाष्ये। तत्राप्यल्लोपस्य स्थानिवत्त्वात्सर्वनामस्तानपरत्वं नास्तीति नुम् न स्यात्। न चाधातुग्रहणसामर्थ्यात्स्थानिवद्भावकृतव्यवाये सत्यपि नुम् स्यादिति वाच्यम्, आचारक्विबन्तात् ``क्विप्च (पाoसूo3-2-76) इति क्विपि चरितार्थत्वात्। तस्मात्क्वौ लुप्तं नेत्येव शरणम्। ननु गोमत्यतेर्गेमततेर्वा उभयथापि, `गोमान्' इति न सिध्यति``अत्वसन्तस्य (पाoसूo6-4-14) इति दीर्घविधौ अघातोरिति विशेषणात्। सत्यम्, तत्राधातुग्रहणमसन्तस्यैव विशेषणं नत्वत्वन्तस्यापीति वक्ष्यमाणत्वान्न दोषः।
     तथा ``येनविधिस्तदन्तस्य (पाoसूo1-1-72) इति सूत्रे ``केवलोऽपि पाच्छब्दोऽस्ति। पादयतेः पात्, पदः इति भाष्यम्। अत्रापि स्थानिवद्भावाद्व्यवधानेन पद्‌भावो न स्यात्। क्वौ लुप्तं नेति सिध्यति। अत एव ``पादस्य पादहस्त्यादिभ्यः िति न सूत्रितम्। प्रतिपदोक्तस्यास्यैव पदादेशो मा भूत्, किन्तु क्विबन्तस्यापि यथा स्यादिति। एवञ्च ``पादस्य लोपः (पाoसूo5-4-138) इति गुरुनिर्देश कुर्वता सूत्रकृतैव क्वौ लुप्तं न स्थानिवदिति ज्ञापितम्। तच्च क्वाचित्कमिति तु प्रकृतसूत्रस्थेनैवं विज्ञायते क्वौ लुप्तं नेति भाष्यस्यार्थः, विशब्दमाहात्म्यात् ख्यत्यात्सूत्रादिभाष्याच्चेति व्यवस्थितशब्दं प्रयुञ्जानेन कैयटेन ध्वनितम्।
     युष्मानाचष्टे युष्मयति। ततः क्विपि णिलोपे सौ ``त्वाहौ सौ (पाoसूo5-2-64) इति कर्त्तव्ये णिलोपे न स्थानिवत्। तदुक्तम्--
स्थानिवत्त्वं च णेरत्र क्वौ लुप्तत्वान्न विध्यते। इति
स्थानिवत्त्वामिति। लोपस्येति शेषः। णेः क्वौ लुप्तत्वादित्यन्वयः। अस्तु तर्हि क्वौलुप्तमित्यपि नित्यमेव। तावताऽपि लवमाचक्षाणो लौरित्यस्य सिद्धेरिति चेत्? न, `पिपठिषि' इत्यस्यासिद्धिप्रसङ्गात्। देवयतेर्दयूरिति तु इह कैयटेन यदुदात्दृतं क्वौ लुप्तं नेति सिध्यतीति, तस्यायमाशयः--यद्यपीह क्वौ विधिं प्रत्यूठ् सिद्धः, तथापि तस्य स्थानिद्वारा अनादिष्टादचः पूर्वत्वेन णिलोपस्य स्थानिवद्बावाद् ``अचोञ्णिति (पाoसूo7-3-115) इति वृद्धिप्रसह्गः। तस्मात्क्वौ लुप्तं नेत्येव शरणम्। यत्तु ``लोपो व्योः (पाoसूo6-1-66) इति सूत्रे कण्डूयतेःक क्यजन्तादप्रत्यये `कण्डूः' `कण्डुवौ' इति व्युत्पादयन् कैयट आहअल्लोपस्य स्थानिवद्बावाद्यण्। तस्य उठ्। न च ऊठि कर्त्तवेये स्थानिवत्त्वेन प्रतिबन्धः स्यादिति वाच्यम्, वकारस्यादिष्टादचः पूर्वत्वादिति, तत्तु स्थानिद्वारकं पूर्वत्वमनित्यमित्याश्रित्य। तद्रीत्या तु `दयूः' इत्यपि सुसाधमेव।
     ननूभयथापि `दय्ः' इत्यत्र प्रत्ययलक्षणेन वृद्धिः स्यादेवेति चेत्? न, बाहिरङ्गस्य ऊठो वृद्धिं प्रत्यासिद्धत्वात्। एवञ्च स्थानिवद्बावे सत्यपि न काचित्क्षतिः, बहिरङ्गत्वेनैव सर्वसमाधानात्। तस्माद् दयूरिति पक्ष्द्वयेऽपि सिद्ध्यतीत्येव तत्वम्। नन्वेकदे्शविकृतस्यानन्यत्वाद्दिव औत्स्यादिति चेत्? न, निरनुबन्धपरिभाषया अधातुग्रहणानुवृर्त्तेवा `अक्षद्यूः' इत्यत्र न औदिति दिवऔत्सूत्रे भाष्ये एव स्पष्टत्वात्। वद्यपि ``उगिदचाम् (पाoसूo7-1-70) इति सूत्रे अधातुभूतपूर्वादित्यर्थस्तथापीह शब्दाधिकार इति भावः। एतेन ``हलि च (पाoसूo8-2-77) इति दीर्घः `दीव्यति' इति नामधातुप्रकरणे कौमुदीप्रासादौ प्रत्युक्तौ। दिवोडिविरिति न्यासोहितसूत्रेण डिविरिति वदन् माधवोपि `दिव्यति' इति हस्वमेवोपजगाम।
     प्रकृतमनुसरामः। द्विर्वचनादौ तु ``ओः सुपि (पाoसूo6-4-83) इति यण्। `दय्वौ' `दय्वौ' इत्यादि खलपूवत्। `कण्डूः, कण्डुवौ; कण्डुवः, इत्यादि तूवङेव संयोगपूर्वकतया यणोऽप्राप्तेरिति दिक्।
     अत्रायं संग्रहः----
संख्युर्गोमान् पदस्त्वं च क्वौ लुप्तस्य निदर्शनम्।
अनित्यत्वे पिपठिषि क्वौ विधौ लौर्द्वयोर्दय्।।
     लुक् चस्थानिवत्। आमलक्याः फलम् आमलकम्। फले लुकः प्रत्याख्यानपक्षे तु पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुरित्युदाहार्यम्। तथा पञ्च इन्द्राण्यो ऽग्नाय्यश्च देवताऽस्य पञ्चेन्द्रः, पञ्चाग्निः, ङीपा सन्नियुक्त आनुक् ऐकारश्च श्रूयते। न च सन्नियचोगशिष्टन्यायेन निवृत्तिः, परतद्धितलुङ्निमित्ताया ङीषनिवृत्तेःक पूर्वयोरानुगैकारयोर्निवृत्तौ कर्त्तव्यायाम् ``अचः परस्मिन् (पाoसूo1-1-67) इति स्थानिवत्त्वात्। ये तु पूर्वोक्तरीत्या वर ई इतीकारप्रश्लेषं कुर्वन्ति तेषामिह लुग्ग्रहणं न कार्यम्।
     अपधात्वे कर्त्तव्ये न स्थानिवत्। तेन परिखाशब्दाच्चातुरर्थिके अणि कृते ``वृद्धादकेकान्तखोपधात् (पाoसूo4-2-141) इति पारिखशब्दात्खोपधलक्षणे छप्रत्यये `पारिखीयः' सिध्यति। अन्यथा उपधासंज्ञायाः पूर्वविधित्वेन तत्र कर्त्तव्यायामाल्लोपः स्थानिवत्स्यात्। नन्वेवं `पटयति' इत्यादौ वृद्धिः स्यादिति चेत्? न, यत्रोपधासंज्ञामुपजीव्य प्रत्ययो विधित्सितस्तत्रैवायं निषेध इति भाष्ये स्थितत्वात्। अत्र चङ्परनिर्ह्रासग्रहणमेव ज्ञापकम्। कथं तर्हि भाष्ये स्थितत्वात्। अत्र चह्‌परनिर्ह्रासग्रहणमेव ज्ञापकम्। कथं तर्हि भाष्ये यलोपे `सौरी बलाका' इत्युदाहरणं दत्त्वा उपधाविधौ नेत्येव सिद्धमित्युक्तमिति चेत्? अनास्थावादमात्रं तदित्यवेहि। तत्र हि ``लेनैकदिक् (पाoसूo4-3-112) इत्यण्णन्तान्ङीप्यल्लोपद्व्यस्यापि यलोपे कर्त्तव्ये स्थानिवद्बावे निषिद्धे समानाश्रयस्याणो लोपस्याभीयत्वेनासिद्धतायां यलोपः सिद्ध्यतीति यलोपे न स्थानिवदित्यस्यैव `सौरी' इत्युदाहरणम्। उपधात्वं तत्र लोपे उपयोगि न तु प्रत्ययविधाविति स्थितम्।
     चङ्परे णौ यो ह्रस्वः स चङ्परनिर्ह्रासस्तत्र न स्तानिवत्। वादितवन्तं प्रयोजितवान् अर्वावदद्वीणां परिवादकेन। प्रथमणिचो लोपस्य स्थानिवत्त्वादनुपधाकार इति ``णौचङि (पाoसूo7-4-1) इत्युपधाह्रस्वो न प्राप्नोति। णिसामान्यग्रहणादप्येतत्सिद्धम्। इदं तूदाहरणम्--वारि आख्यत् अवविरत्। न च ``नाग्लोपि (पाoसूo7-4-2) इति निषेधःशङ्क्यः, `परत्वाद् वृद्धौ सत्यां टिलोपः' इत्युपगमेनाग्लोपित्वाभावात्। अत एव हलकलेत्यदन्तनिपातनं सार्थकम्।
     कुत्वे न स्थानिवत्। अर्चयतेरौणादिकः कप्रत्ययः, अर्क्कः। पाचयतेः क्तिच्, पाक्तिः ``चोः कुः (पाoसूo8-2-30) इति कुत्वे णिलोपो न स्थानिवत्। इह सूत्रे ``जश्चर्षु इत्येव सिद्धे विधिग्रहणं द्वन्द्वाश्रयेण विध्यन्तरोपसंग्रहार्थम्। तद्‌व्युत्पादनार्थं च ``क्विलुग् इत्यादि वार्त्तिकमिति निष्कर्षः। तत्रापि क्विचङ्परनिर्ह्रासोपधानां ग्रहणमावश्यकम्। लुक् ईकारप्रश्लेषेण गतार्थत्वात्कुत्वस्य पूर्वत्रासिद्धीयत्वाच्चेत्यवधेयम्। ``चजोः (पाoसूo7-3-53) इति कुत्वे वोदाहरणमन्वेषणीयम्।
     पूर्वत्रासिद्धे च न स्थानिवत्। पापच्यतेः क्तिच्, पापांक्तः। यायज्यतेर्यायष्टिः। पाचयतेः पाक्तिः याजयतेर्याष्टिः। इहाल्लोपणिलोपौ कुत्वषत्वयोर्न स्थानिवत्। एवं लेहयतेर्लेढिः। दोहयतेर्दोग्धिः। वेशयतेर्वेष्टिः। दास्यतेर्दाष्टिरित्याद्यूह्यम्।

न्यायसिद्धं चेदम् ``अचः परस्मिन् (पाoसूo1-1-57)
इत्यतिदेशं प्रति त्रिपादीस्थस्यासिद्धतया तस्मिन् कर्त्तव्येऽतिदेशाप्राप्तेः। न चैवं स्थानिवत्सूत्रस्याप्यप्रवृत्तौ `राम' इति विशर्गो न स्यादिति वाच्यम् ``प्रत्ययः ``परश्च (पाoसूo3-1-1,2) इत्यादिनिर्देशैः ``भो भगो अघो (पाoसूo्3-1-2) इति सूत्रेऽश्‌ग्रहणेन च तत्प्रवृत्तेर्ज्ञापितत्वादित्यवधेयम्।
     एवं स्थिते द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः सूत्रे न पाठ्याः। किं तु नपदान्तवरेलोपस्वरेष्वित्येव पाठ्यमिति भाष्यवार्तिकयोः स्थितम्।
     स्यादेतत्। यदि दीर्घग्रहणं त्यज्यते तर्हि साप्तमिके दीर्घविधौ स्तानिवद्भावः प्रसज्येत। तता च ``चिण्णमुलोः (पाoसूo6-4-63) इति सूत्रे यङन्ताण्णिजन्ताद्वा णिचि ततश्चिणि `अशंशामि' `अशामि' इति यदुदाहियते, तन्न सिद्ध्येत्। न च दीर्घग्रहणसामर्थ्यात्स्थानिवद्भावबाधः, कमेर्णिङ्सुत्रे हरदत्ताद्युक्तरीत्या ``चिण्णमुलोर्दीर्घ (पाoसूo6-4-93) इत्यत्र कैयटाद्युक्तरीत्या च `अहिडि' `अहीडि' इत्येतत्सिद्ध्या `अहेडि' इत्यस्य निवृत्त्या तस्य चरितार्थत्वात्।
     उच्यते। णित्त्वजात्यैक्यं गृहीत्वा `अशामि' इति सिद्धम्। `अशंशामि' इति तु यङ्लुगन्ताण्णिचि भविष्यति। न हि यङ्यङ्लुकोःक स्वरेऽर्थे वा कश्चिद्विशेषोऽस्ति। येन यङ्येव साधीयतुं क्लिश्येत। एव ञ्च `ग्राहितम्' इत्याद्यपि सिद्धम्। पूर्वस्मादपि विधौ स्थानिवद्भावेन णिच व्यवधाने सति ``ग्रहो लिटि (पाoसूo7-2-37) इति दीर्घस्याप्रवृत्तेः। सूत्रमते तु विहितविशेषणाश्रयणाद् `ग्राहितम्' इत्यादौन दीर्गः। अत एव यङन्तात्तृचि `जरीगृहित' इत्यत्र न दीर्घः, स्थानिवद्बावात्, सूत्रप्रते विहितविशेषणाच्चेति स्थितम्। यङ्लुगन्तात्तु तृजादाविटो दीर्घो भवत्येवेति माधवः ``द्विः प्रयोगो द्विर्वचनं षाष्ठम् इति सिद्धान्तात् ग्रहेर्विहितत्वानपायात्। यङ्‌लुकोऽडनैमित्तिकतयाऽज्ज्ञलादेशतया लुका लुप्तत्वाच्च स्थानिवद्भावोऽपि नास्तीति माधवस्याशयः। वस्तुतस्तु यङ्लुक्यपि इटो दीर्घोऽनिष्ट एव ``एकाचो द्वे प्रथमस्य (पाoसूo6-1-1) इति सूत्रे भाष्यकैयटादिपर्यालोचनया तथैव निर्णयात्। तता च तत्र ``ग्रहेरङ्गाद् इति भाष्यमुपादाय कैयट आह-तृचो हि जरिगृहित्यङ्गं न तु ग्रहीः विसेषणसामर्थ्याद्धि यथाश्रुतरूपाश्रयणमिति। यध्यपि तत्र यङन्तं प्रक्रम्येदमुक्तं तथापि युक्तिसाम्याद्यङ्‌लुङन्तेऽपि न दीर्घ इति लक्ष्यते। अत एव ``एकाचो द्वे (पाoसूo6-1-1) इति सूत्रे हरदत्तोऽपि यङन्ते दीर्घमाशङ्क्याह--``एकाच उपदेशे (पाoसूo7-2-10) इत्यतो दीर्घविधावेकाज्ग्रहणमनुवर्त्तते इति। न ह्यत्र पक्षे यङ्लुकि दीर्घस्योक्तिसम्भवोऽप्यस्ति। नन्वेवं ``ग्रहोऽलिटि (पाoसूo7-2-37) इति सूत्रे ``यङ्लोपे चोक्तम् इति वार्तिकव्याख्यावसरे स्तानिक्द्भावाद्विहितविशेषणाश्रयणाद्वा यङन्ते दीर्घं परिहरन् कैयटो विरुध्येत यङ्लुगर्थं यथाश्रुतरूपाश्रयणस्यैकाज्ग्रहणानुवर्त्तनस्य वा आवश्यकतया तेनैव गतार्थत्वादिति चेत्? न, ``ग्रहोऽलिटि (पाoसूo7-2-37) ित्यत्रतद्यकैयटग्रन्थस्योपायस्योपायान्तरादूषकत्वादिति न्यायेन यङन्ते उपायान्तराभिधानपरत्वात्। अत एव ततत्रकैयट आह--``अन्यत्रास्य दोशस्य सम्यगुद्‌धृतत्वात् इति। एवं हि वदन् तत्रत्यपरिहारस्याव्यापकतामेकाच्सूत्रोक्तस्यैवावश्यादर्तव्यतां चाभिप्रैति। न च यथाश्रुतरूपपक्षे `गृहीतम्' इत्याद्यसि द्धिःक अङ्गसंज्ञाप्रवृत्तिवेलायां यथाश्रुतरूपस्यैव तत्र सत्त्वात्। ग्राहितादौ तु नैवम्। `एकाच' इति समाधानं तु णिज्भिन्नविषयकमेव। तस्मात्।
यङ्लुगन्ताण्णिजन्ताच्च चङन्ताच्च ग्रहेरिटः।
द्विधा त्रिधा चतुर्द्धा च दीर्घो नेति व्यवस्थितम्।।
     माधवग्रन्थस्तु विहितविसेषणपक्षस्य मुख्यतां पक्षान्तराणामब्यु च्चवतां च परिकल्प्य कथाञ्चिन्नेय इति प्रतिभातीति दिक्।
     तस्य दोष इत्यादेरयमर्थः--तस्य ``पूर्वत्रासिद्धेच (भाoइo) इत्यस्व स्थलत्रये दोषः अतिप्रसक्तिः, तस्मात्तत्र स्थानिवद्भावस्य प्रतिप्रसवः कर्त्तव्य इत्यर्थः। तेन `वाक्यर्थं' `वास्यर्थम्' इत्यत्र ``स्कोः (पाoसूo8-2-26) इति लोपो न निगार्यते, निगाल्यते। ``अचि विभाषा (पाoसूo8-2-21) इति लत्वं सिद्धति। तथा `माषवपनी' इत्यत्र णत्वं न भवति, अल्लोपस्य स्थानिवत्त्वेन नकारस्य समासान्तत्वाभावात्। न चासत्यपि स्थानिवद्बावे ङीबेव समासान्तो न तु नकार इति वाच्यम्, ङीबुत्पत्तेः समास इति द्वितीये वक्ष्यमाणत्वात्। एवं स्थिते तक्षयतेः क्विपि `तक्' रक्षयतेस्तु `रक्' इत्यादिबोध्यम्। अत्र हि संयोगादिलोपे कर्त्तव्ये णिलोपस्य स्थानिवद्भावान्न तत्प्रवृत्तिः। संयोगान्तलोपे तु स्थानिवद्भावनिषेधाद्भवत्येवासौ। `गोरट्' इति तु शु(1) द्वात्क्विपि बोध्यम्। यत्तु ``अचः परस्मिन् (पाoसूo1-1-57) इति सूत्रे `दध्वत्र' इति कबाष्यमुपादाय कैयटेनोक्तम्-- ``पूर्वत्रासिद्धे चेत्येतदत्र नास्ति, तस्य दोष इत्येव संयोगादिलोपस्य संयोगोपलक्षितलोपोपलक्षणत्वात् इति। तन्न बास्तवम्। किन्तु तत्रत्यपूर्वपक्षिणोऽभिप्रायवर्णनमात्रम्। अत एव ``नपदातन्त"" (पाoसूo1-1-58) इति सूत्रशेषे तेनैवोक्तम्--``स्कन्दयतोः `स्कन्' तक्षयतेः तक् इति। यत्तु ``सिद्धकाण्डे श्चुत्वं धुट्त्वे इति वार्त्तिकव्याख्यावसरे कैयटेनोक्तम्--``मधुगितीष्यते, मधुडिति प्राप्नोति इति। तत्तु सकारोपदेशसामर्थ्यादिति बोध्यम्। `सन् श्चोतति' इत्यत्र ``शि तुक् (पाoसूo8-3-32) इत्यस्याप्रवृत्या सकारश्चरितार्थ इति चेत्तरिहि ``्कौलुप्तम् इति समाधेयम्। ``कुस्मनाम्नोवा (गoसुo) इत्यत्र `कूः' इति माधवोदात्दृतं सम्यगेव तत्र सामर्थ्यविरहेण संयोगादिलोपाप्रवृत्तेरिति दिक्।
     स्यादेतत्। इह संयोगादिग्रहणं मास्तु। न चैवं `वाक्यर्थम्' इत्यादौ ``स्कोः (पाoसूo8-2-29) इति लोपापत्तिः। ``स्कोः संयोग (पाoसूo8-2-29) इति लोपापत्तिः। ``स्कोः संयोग (पाoसूo8-2-29) इत्यत्र ``झलो झलि (पाoसूo8-2-26) इत्यतो झल इत्यनुवर्तते। तच्चोपसर्जनस्यापि संयोगेत्यस्य विशेषणम्, न तु प्रधानयोरपि स्कोः, अव्यभिचारात्। ततश्च झलन्तो यः संयोगस्तदाद्योः स्कोर्लोपः स्यादिति सूत्रार्थात्, बहिरङ्गतया यएणोऽसिद्धत्वाद्वा। अत एव हि `दध्यत्र' इत्यादौ संयोगान्तलोपो न प्रवर्तते। तथा चाष्टमे वार्तिकम्--न वा झलो लोपाद्वहिरह्गलक्षणत्वाद्वेति। न चैवमपि `काष्टतक्' `राष्ट्ररक्'इत्यादि न सिध्येदेवेति वाच्यम्, अनभिधानात्तत्र क्विप एव दुर्लभत्वात्। अनभिधानं च ``काष्टशगेव नास्ति इत्याष्टमिकभाष्यबलेन न्यायसाम्यान्निर्णीयते इति।
     अत्रोच्यते। कुस्मयतेः `कूः' इत्यादिसिद्धये संयोगादीति वाच्यमेव। किञ्च `तक्' `रक्' इत्याद्यर्थमपि वक्तव्यम्। न चानभिधानम्, प्रमाणाभावात् कैयटादिभिरुदाहृतत्वाच्च। न च काष्ठशगेव नास्तीति भाष्यं तत्र प्रमाणम्, न्यायवैषम्यात्। तथाहि, `काष्ठशक् स्थाता' इत्यत्र झल्परो यः संयोगस्तदादेः ककारस्य लोपमाशङ्क्य तदुक्तम्। तेन यत्र कलोपप्रसक्तिस्तदभिप्रायकमनभिधानम्। अत एव कान्तेभ्यः क्विप् नेत्येवम्परतया तद्वाख्यातम्। न च णिजन्तेभ्यः क्विपि कलोपप्रसक्तिरस्ति, णिलोपस्य स्थानिवद्बावात्। न च ``पूर्वत्रासिद्धे च इति तन्निषेधःसंयोगादिलोपे प्रतिप्रसवस्य जागरूकत्वात्। तस्मात्संयोगोदिलोपग्रहणं कर्त्तव्यमेवेति स्थितम्।
     इदं त्ववधेयम्। ``संयोगान्तस्य लोपः (पाoसूo8-2-23) इत्यत्र न वा झलो लोपाद्वहिरङ्गलक्षणत्वाद्वा इति द्विधा सिद्धान्तव्यवस्थापनात् `कू' इति संयोगान्तलोपोऽपि दुर्लभः। तेन `कुस्म्' इत्येवभवतिप्रथमपक्षे। द्वलितीयपक्षाभिप्रायेण तु माधवः।
     नन्वेवमपि लत्वग्रहणं व्यर्थम्, `निगाल्यते' इत्यत्र सत्यपि णिलोपे प्रत्ययलक्षणेन लत्वसिद्धेः। न च वर्णाश्रयत्वम्, धातोः स्वरूपे तत्प्रत्यये कार्यविज्ञानात्। इदं च दाण्डिनायनादिसूत्रे `भ्रौणइत्या' इति तत्वनिपातेन ज्ञापयिष्यते। किञ्चान्तरङ्गत्वादपि लत्वं सुवचमिति।
     अत्रोच्यते, ``तृणह इम् (पाoसूo7-3-92) इत्यत्राचि नेत्यनुवर्तते। हलीति निवृत्तम्। तता च `अतृणेट्' इत्यादिसिद्धये प्रत्ययलक्षणं नारम्भणीयम्, किन्तु नियमार्थं तदारम्भ इति भाष्ये स्थितम्। इतख्यावृत्तिमात्रफलकं प्रत्ययलक्षणसूत्रम्। तत्तत्कार्याणि तु स्थानिवत्सूत्रेण निर्वाह्याणि। तत्र च `प्रदीव्य' इतीण्निवृत्तये अप्राधान्योनाप्यलाश्रयणे निषेधः स्तितः। तथाचाचि प्रत्यये विधीयमानं लत्वं स्थानिवद्बावं विना दुर्लभमेव। यदप्यन्तरङ्गत्वाल्लत्वमित्युक्तं, तदपि न; अकृतब्यूहपरिबाषया लत्वाप्रवृत्तेः। किञ्च ``उपसर्गस्यायतौ (पाoसूo8-2-19) इति सूत्रे पक्षद्वयं वक्ष्यते-अयतिपरत्वमुपसर्गस्य विशेषणं रेफ स्य वेति। तत्राद्ये पक्षे `पल्ययते' िति सिद्यति, `प्लायते' इति तु न सिध्येत् एकादेशे कृते व्यपवर्गाभावात्, उभयत आश्रये अन्तादिवद्बावायोगाच्च। तस्मात्तत्र स्थानिवद्बावेनैव व्यपवर्गो वरक्तव्यः। स च ``पूर्वत्रासिद्धे च इति निषिद्द इति लत्वे प्रतिप्रसवः सार्थक एव। द्वितीयपक्षे तु `पल्ययते' इति न स्यात्, यकारेण व्यवधानात्। `प्लायते' इत्यत्रैव परं लत्वं स्यात्, ``पूर्वत्रासिद्धे च िति स्थानिवतत्वनिषेधेन तत्र रेफस्यायतिपरत्वाविधातात्। कृते त्विह लत्वग्रहणे येन नाव्यवदानन्यायेन `पल्ययते' इत्यत्रापि लत्वं सिध्यति। स्फुटं चेदमष्टमे भाष्ये एव। तस्मादिह लत्वग्रहणं कर्त्तव्यमेवेति स्थितम्।
     णत्वग्रहणं तु व्यर्थम्। तथाहि, `माषवपनी' इति तावद्बहिरङ्गपरिभाषयाऽपि सिद्धम्। न च `प्रहिणोति' `प्रमीणीते' इत्यादिसिद्धये तदिति वाच्यम् ``अचः परस्मिन् (पाoसूo1-1-57) इति सूत्रस्य प्रवृत्ति विनाप्येकदेशविकृतस्यानन्यतया ``हिनुमीना (पाoसूo8-4-15) इत्यस्य प्रवृत्तिसम्भवात्। न च ``ष्णान्ता षट् (पाoसूo्ि1-1-24) इति सूत्रे वर्णितरीत्या `प्रियाष्ट्नः' इत्यादिसिद्धये णत्वग्रहणमिति वाच्यम्, कार्यकालपक्षे बहिरङ्गपरिभाषयैव तस्यापि सिद्धेः। यथोद्देशपक्षस्तु न ग्रहीष्यते प्रत्याख्येयेन णत्वेन सह फलसाम्यार्थम्। एतेन `प्रियाष्ट्णः' इति णत्वाभ्युपगमपरः पदमञ्जरीग्रन्तोऽप्यपास्तः। बहिरङ्गपरिभाषाया अनित्यत्वेपीह तदप्रवृत्तौ प्रमाणाभावात्। तस्मादिहणत्वग्रहणं वृथेति स्थितम्। प्रत्युत णत्वे स्थानिवत्त्वाभ्युपगमे बाधकमप्यस्ति। तथाहि--``अनितेरन्तः (पाo्सूo8-4-19) इति सूत्रे ``अन्तः (पाoसूo8-4-20) इति योगं विभज्य `हे प्राण्' इति रूपसिद्धये``प्दान्तस्य (पाoसूo8-4-37) इति प्रतिषेधं बाधितुम् ``अन्तः (पाoसूo8-4-20)इति सूत्रेण पदान्तस्यानितेर्णत्वं विधीयते इत्येका व्याख्या। अन्तशब्द समीपपर्यायमाश्रित्य निमित्तसमीपस्थो योऽनितेर्नकारस्तस्य णत्वं, निमित्तसमीपस्थस्यानितेर्यो नकारस्तस्य णत्वमिति च योगविभागं विनापि व्याख्यानद्वयं भाष्ये स्थितम्। तत्र प्रथमपक्षे ``प्राणिति इत्यादावेकेनाऽऽकारेण व्यवधानेऽपि वचनसामथ्यार्ण्णत्वं प्रवर्त्तते। द्वितीयपक्षे त्वेकादेशस्यादिवद्बावाद्रेफादव्यवहितस्यानितेः सम्भवात्प्रवर्त्तते। `पर्यनिति' इत्यत्र तु वर्णद्बयेनैकेन च व्यवायात्पक्षद्वयेऽपि णत्वं न प्रवर्त्तते इति स्पष्टमष्टमे। यदि चेह णत्वग्रहणं क्रियते तर्हि `पर्यनिति' इतिवत् `प्राणिति' इत्यत्रापि द्वयेनैकेन वा वर्णेन यथासम्भवं व्यवधानाण्णत्वं न स्यात्। न च वचनसामर्थ्यात्स्थानिवद्भावकृतं व्यवधानमाश्रयिष्यते `वृत्रघ्नः' इति कुत्व इवेति वाच्यम् `निरणिति' `दुरणिति' इत्यत्र चरितार्थत्वात्। न चैवं ``निर्दुरोरनितेः इत्येव ब्रूयात्, न तु ``अनितेरन्तः इति सामान्यलक्षणं प्रणयेदिति वाच्यम्, आवृत्तिमाश्रित्य `हे प्राण्' इत्यत्र णत्वस्य प्रतिप्रसवार्थं निर्दुरोरित्यपेक्षया `अन्तः' इत्युक्तावक्षरलाघवानुरोधाच्च सामान्यलक्षणप्रणयनसम्भवात्। तस्मादाष्टमिकभाष्यपर्यालोचनेनेह णत्वग्रहणं न कर्त्तव्यमिति निर्णीयते। अत एव `व्यूढोरस्केन' इत्यत्र णत्वं न। अन्यथा विसर्गस्याट्‌त्वेन तदादेशस्य सस्य स्थानिवद्भावाण्णत्वं स्यात्। इह णत्वग्रहणस्य प्रयोजनाभावस्तूक्त एव। ततश्च ``तस्य दोषः संयोगदिलोपलत्वयोः इतेयेव वाच्यम्।
    वस्तुतस्तु तदपि न वाच्यम् ``पूर्वत्रासिद्धे च इति ह्यसिद्धत्वादेव न्यायसिद्धमित्युक्तम्। तच्चासिद्धत्वमनित्यम्, ``अधुना (पाoसूo5-3-17) इतिवद् ``अमुना इति वाच्ये ``नमुने (पाoसूo8-2-3) इत्युक्तेर्नेति योगविबागात्, नुटीति वाच्ये ``नामि (पाoसूo6-4-3) इतिलिङ्गाच्च। `अनश्वः' इत्यादेरङ्गस्येत्यनेन व्यावृत्तौ सत्यामपि `अ(1)क्षण्वन्तः' इत्यादौ हि दीर्घं वारयितुं हि ``नामि (पाoसूo 6-4-3) इत्युक्तम्। ``रुधादिभ्यः श्नम् (पाoसूo3-1-78) ``श्नान्नलोपः (पाoसूo6-4-23) इति सूत्रद्वये भाष्यकैयटाद्यालोचनेनारम्भसामर्थ्यात्सन्निपात्परिभा,ाया इवासिदधत्वस्याप्यविशेषाद्बाधे प्राप्ते ``नामि इत्युक्तिरित् चेत्? न, कृतितुग्ग्रहणादिना सन्निपातपरिभाषाया अनित्यत्वज्ञापनात्सामर्थ्याद्बाध इति पक्षेऽप्यक्षण्वन्त इत्यादावुभयबादे गौरवाच्च। तस्मादनित्यताज्ञापनार्थमेव तत्। तेन सिद्धकाण्डमपि संगृहीतं भवति। एतेन `रामः' `रामेभ्यः' इत्यादौ रुत्वस्यासिद्धत्वाद्रोरुकारस्येत्संज्ञालोपौ कथं स्यातामित्येतदपि समाहितम्। ``प्रत्ययः (पाoसूo3-1-1) ``परश्च (पाoसूo3-12) इत्यादिलिङ्गाच्च। यत्त्वनुनासिकनिर्देशसामर्थ्यादित्संज्ञालौपौ प्रत्यसिद्धत्वं नेति। तन्न, `तरुमूलम्' इत्यादौ ``हशि च (पाoसूo6-1-114) इत्यस्य व्यावृत्तये ``अतोरोः (पाoसूo6-1-1) इत्यत्र सानुनासिकस्यैव निर्देसाब्युपगमेन चारितार्थ्यात्। `रामः' इत्यादावपि सानुनासिकश्रवणस्यापाद्यमान तया चारितार्थ्यस्य स्पष्टत्वादिति दिक्। तेन संयोगादिलोपलत्वयोरसिद्धताविरहात्स्थानिवत्त्वं भविष्यतीति सकलेष्टसिद्धिः।
     द्विर्वचनेऽचि (पाoसूo1-1-59) । रूपातिदेशोऽयम्। द्वित्वानिमित्तेऽच्चि योऽजादेशः स स्थानिवद्रूपं लभते द्वित्वे कर्त्तव्ये। चक्रतुः, चक्रुः। द्वित्वनिमित्तत्वेनाज्विसेषणादिह न--दुद्यूषति, सुस्यूषति। न हयूठ् द्वित्वनिमित्तम्। नन्वेवं `चक्रतुः' इति यणोऽपि स्थानिवद्भावो न स्यात्, अतुसो द्वित्वनिमित्तत्वेऽप्यकारस्यातथात्वात्। सूत्रं तु चक्रे इत्यादौ सावकाशमिति? सत्यम्, इह निमित्तशब्देन साक्षाद्वा समुदायघटकतया वा द्वित्वप्रयोजकत्वमाश्रीयते न तु साक्षादेवेत्याग्रहः, लक्ष्यानुरोधात्। किञ्च सूत्रे निमित्तशब्दो नास्त्येव। किन्तु लक्षणया वा द्विरुव्योतेऽस्मिन्निति द्विर्वचनमिति व्युत्पत्त्या वा द्विर्वचनमस्त्यस्मिन्निति अर्शआद्यचा वा द्विर्वचननिमित्तं लब्धव्यम्। तच्च प्रकारत्रयं साक्षात्परम्परम्परासाधारणे प्रयोजकेऽपि सुवचम्। एतच्च ``ठस्येकः (पाoसूo7-3-50) इति सूत्रे कैयटे स्पष्टम्। अत एव ऊर्णोतेः सनि ``सनीवन्त (पाoसूo7-2-49) इतीट्पक्षे ``विभाषोर्णोः (पाoसूo1-2-3)इति ङित्त्वविरहे `ऊर्णुनविषति' इति सिद्‌धम्, सन्नन्तस्य द्वित्वविधानेऽपि सनो द्वित्वप्रयोजकत्वेन तस्मिन् गुणावदेशयोर्द्वित्वे कर्त्तव्ये स्थानिवद्भावात्। तदुक्तम्--तद्भावभावितामात्रेणेह निमित्तत्वमिति। वस्तुतस्तुद्विर्वचनाक्षिप्तः प्रत्ययोऽचीत्यनेन विशेष्यते। परस्मिन्नित्यनुवर्त्तते। `अमीषां मध्ये देवदत्तात्परमानय' इत्युक्ते यथा सजातीयेन मनुष्यान्तरेणाव्यवहितः पर आनीयते, तथेहापि प्रत्ययान्तरेणाव्यवहितः परोगृह्यते। तेन द्वित्वनिमित्ते अजादौ प्रत्यये प्रत्ययान्तरेणाव्यवहिते परे सति योऽजादेशः स स्थानिवत्स्यादिति सूत्रार्थः। एवञ्च `चक्रतुः, इत्यादौ न काऽप्यनुपपत्तिः। वक्ष्यमाणज्ञापकबलेन णिचि व्यवहिते प्रवृत्तावपि `दिदेवनीयिषति' इत्यादावनेकप्रत्ययव्यवधानादप्रवृत्तिः। `अपीप्यत्' इत्यत्र वर्णव्यवधानेऽपिप्रत्ययान्तराभावात्प्रवृत्तिः। अनुवादे परिभाषानुपस्थानेऽपि निर्दिष्टपरिभाषाकर्त्तव्यस्य निर्वाहश्चेति बोध्यम्। अत एवेह परस्मिन्नित्यनुवर्तते इति न्यासकारः। तथा द्विर्वचनेनेह प्रत्ययाक्षेपं वदन् णिज्भिन्नेन व्यवहिते ज्ञापकस्याप्रवृत्तिं ब्रुवन्कैयटोप्येतदभिप्रैति। `ऊर्णुनविषति' इत्यादिसिद्धये तु तद्भावभावितामात्रेण निमित्ततेति स्वीक्रियते एवेत्यवधेयम्।
     नन्वेवम् `अरिरिषति' इति न सिद्ध्येत्, ऋधातोः सनि ``स्मिपूङ्रञ्जवशां सनि (पाoसूo7-2-74) इतीटि कृतेक इस्शब्दनिमित्तकस्य गुणस्य स्थानिवद्भावे ``अजादेर्द्वितीयस्य (पाoसूo6-1-2) इती सो द्वित्वप्रसङ्गात्। इष्यते तु रिस्‌शब्दस्य द्वित्वम्। अत्रोच्यते। न हि कार्या निमित्ततयाऽऽश्रीयते इति ``दीधीवेवीटाम् (पाoसूo1-1-6) इत्यत्रोपपादितत्वान्नेह इस् शब्दो निमित्तम्। अतो न स्थानिवद्भावः। न चैवं सन्नन्तस्य कार्यित्वाद् `ऊर्णुनविषति' इत्यपि न स्यादिति वाच्यम्, मत्वर्थीयेनेनिना कार्यमनुभवत् एव कार्यित्वलाभात्। तत्र तु द्वितीय एकाच् द्वित्वरूपं कार्यमनुभवति न तु सन्। `अरिरिषति' इत्यत्र तु रिस्‌शब्दस्यैव कार्यभाक्‌त्वमिति वैषम्यात्। नन्वेवमचीत्यस्य `जेघ्रीयते, देध्मीयते' इति व्यावर्त्यं न सङ्गच्छते, घ्रीय् ध्मीय् इति द्वितीयाजवधिकस्यैकाचः कार्यितया यङोऽपि द्विन्वनिमित्तत्वाभावादिति चेत्? सत्यम्, `अधिजगे' इत्येवाज्ग्रहणव्यावर्त्त्यमस्तु। तत्र हि ``गाङ् लिटि (पाoसूo2-4-49)
इति द्विलकारकनिर्देशमाश्रित्य लावस्थायामेव गाङादेशक इति भाष्ते एव स्पष्टम्। इदञ्च वार्त्ति कमतमनुसृत्योक्तम्, तत्र लिटि लिङीत्यादीनां परसप्तमीत्वाभ्युपगमात्। भाष्यमते त्वार्द्धधातुकीयाः सामान्येन भवन्तीत्यभ्युपगमाल्लिटीत्यादयोपि विष्यसप्तम्येवेत्युक्तं स्थानिवत्सूत्रे। तन्मते त्वचीत्यस्य `जग्ले' इत्यादि व्यावर्त्त्यं बोध्यम्। तथाहि, ``आदेच (पाoसूo6-1-45) इति सूत्रेऽशितीति परस्प्तमीति पक्षे श(1) इत् इति कर्मधारयाश्रयणाद् ``यस्मिमन्विधिस्तदादावल्‌ग्रहणे (पाoभाo) इत्यस्य प्रवृत्त्या आदिशितोऽन्यस्मिन्परे विधीयमानमात्वं लावस्थायां क्रियते। अतो न स्थानिवत्। न चान्तरङ्गत्वात्तिबादिष्वेशि च कृते आत्वं स्यात्तथा च स्थानिवत्। न चान्तरङ्गत्वात्तिबादिष्वेशि च कृते आत्वं स्यात्तथा च स्थानिवत्। न चान्तरङ्गत्वात्तिबादिष्वेशि च कृते आत्वं स्थात्तथा च स्थानिवत्त्वं दुर्वारमिति वाच्यम्, ``न सम्प्रसारणे सम्प्रसारणंल्लिटि वयो यः (पाoसूo6-1-3738) इति द्विलकारकनिर्देशमाश्रित्य तं च तत्रानुपयुक्तत्वादिहानुवर्त्य ल्लिटि तु लावस्थायामेवेत्यात्वविधौ व्याख्यानात्। कथं तर्हि `जेघ्रीयते' `देध्मीयते' इति भाष्यवृत्त्यादिषु प्रत्युदात्दृतमिति चेत्? प्रातिशाख्यरीत्येत्यवेहि। तथाहि, ``अनुस्वारो व्यञ्जनं चाक्षराङ्गम् (ऋoप्राo1-5) इत्युक्त्वा ``स्वरान्तरे व्यञ्जनान्युत्तरस्य (ऋoप्राo1-5) इति सूत्रितम्। एवञ्च `नेनिजति' `अनेनिजुः' इत्यादावेकच्‌कस्य घातोः सम्पूर्णस्य द्विर्वचनादभ्यस्ताश्रयम् अद्भावजुसादि सिध्यत्। द्व्यच्के तु मध्यवर्तिनां हलामुत्तराङ्गत्वात्प्रथमाजन्तमेव द्विरुच्यताम्। यथा दरिद्रातौ द इति, जागर्तौ जा इति। न चैतावता क्वचिद्रूपेऽनिष्टमापद्यते, येन प्रतिशाख्यपरिभाषामुपेक्ष्य `नटबार्यावद्व्यञ्जनानि' इति चाश्रित्य `दर्' `जाग्' इत्यादि द्विरुच्यते। अत एव `चतुरश्छयतावाद्यक्षरलोपश्च(काoवाo) इति सङ्गच्छते इति दिक्। यदा तु षाष्ठभाष्यवार्त्तिकरीत्या द्वितीयाजवधिक एकाच् गृह्यते, ``गाङ् लिटि (पाoसूo2-4-49) इति च विषयसप्तम्याश्रीयते, अनैमित्तिकमात्वं, शिति तु प्रतिषेध इति वा, अशितीति विषयसप्तमी वा आश्रयिते, तदा `जेघ्रीयते' `अधिजगे' `जग्ले' इति त्रिविधस्यापिव्यावर्त्यस्यासम्भवादचीत्यस्य फलं किमिति विभवनीयं सूरिभिः।
     स्यादेतत्। भसेः क्वसौ``घसिभसोर्हलि (पाoसूo6-4-100) इत्युपधालोपे कृते द्वित्वं मा बूदित्येतदर्तमज्ग्रहणं भविष्यतीति चेत्? सत्यसति वा द्वित्वे प्सानिति श्रुतौ विशेषाभावात् : ननु दुर्लक्ष्योऽपि विशेषः सूक्ष्मदृशं प्रति दुर्वार इति चेत्? न, `दाति प्रियाणि' `वीरवद्धातु' इत्यादाविव द्वित्वाभावसम्भवात्। वक्ष्यति हि ष्षठे ``लिटि घातोः (पाoसूo6-1-7) इति सूत्रे, `` अनभ्यासग्रहणानर्थक्यं च, छन्दसि वावचनात् इति। न चैवमपि पाक्षिकं द्वित्वं स्यादेवेति वाच्यम्, दृष्टानुविधानस्यैव छन्दसि कर्त्तव्यत्वात्। अत एव हि ``उर्ऋत् (पाoसूo7-4-7) इत्येव सिद्धे ``नित्यं छन्दसि (पाoसूo7-408) इति सूत्रं निष्फलमित्यभियुक्ताः। लोके तु भाष्यमते क्वसुर्दुर्लभः। उपधालोपश्च छान्दस एव।
     तदेवं `जेघ्रीयते' `अधिजगे' `जग्ले' इत्येतत्सिद्धये क्रियमाणमज्ग्रहणमेवेह रूपातिदेशत्वे प्रमाणम्। कार्यातिदेशपक्षे हि घ्रीगाग्लाइत्येषामेव भाव्यं द्वित्वेनेति किं तेन? तथा च वार्त्तिकम्-अज्ग्रहण तु ज्ञापकं रूपस्थानिवद्भावस्येति। `देध्मीयते' `शाशय्यते' इत्यपि `जेघ्रीयते' इत्यनेन समानयोगक्षेममुदाहरणम्। ``ई घ्राध्मोः (पाoसूo7-4-31) इति ईकारः, ``अयङ् यि क्‌ङिति (पाoसूo7-4-22) इति शीङोऽयङादेशः। अचीत्यस्य प्रत्याख्यानपक्षे तु लक्ष्यानुरोधादेव शब्दाधिकारमाश्रित्येह रूपातिदेशो व्याख्येयः। पूर्वसूक्षत्रादच इति षष्ठ्यन्तस्यानुवृत्तिरिह किमर्थेति चेत्? `शुशुवतुः' इत्यादिसिद्धये इति गृहाण। तथाहि, ``विभाषा श्वेः (पाoसूo6-1-30) इति सूत्रं यद्यपि `शुशाव' इत्यादौ पित्सु सावकाशं, तथापि `शूनः' इत्यादौ चरितार्थस्य ``वचिस्वपि (पाoसूo6--1-15)क इत्यस्य बाधकमेव, परत्वात्। `लिट्यभ्यासस्योभयेषाम्' (पाoसूo6-1-17) इत्यस्य तु न बाधकम् श्वयत्यभ्यासविषयकस्य विधेर्निरवकाशत्वात्। अत एव ``्विभाषा श्वेः (पाoसूo6-1-30) इति सूत्रे ``श्वेर्लिट्यभ्यासलक्षणप्रतिषेधः इति वार्त्तिकमारब्धम्। ``लिट्यब्यासस्य (पाoसूo(6-1-17) इति सूत्रे अश्वयतीनामिति पूरणीयमिति तदाशयः। अन्यथा हि विहितप्रतिषिद्धतया विकल्पात् `शुश्वाय' `शुश्वियतुः' इत्यनिष्टमपि पक्षे प्रसज्येत। एवं स्थिते ``द्विर्वचतचनेऽचि (पाoसूo1-1-59)क इत्यत्राच इत्यस्याननुवृत्तौ `शुशाव' इत्यव वृद्ध्यावादेशयोरिव सम्प्रसारणस्यापि स्थानिवद्बावः स्यात्। तथाच `शिशाव' `शिशुवतुः' इत्याद्यनिष्टमापद्येत। न च ``सम्प्रसारणं तदाश्रयं च कार्यं बलवत् (पoभाo128) इति तिबाद्यवस्थायामेव सम्प्रसारणप्रवृत्तेरचीति नास्तीति वाच्यम्, एवमपि `व्यतिशुशुवाते' इत्यादौ दोषध्रौव्यात्। न च ``विभाषा श्वेः (पाoसूo6-1-30) इति लावस्थायामेव प्रवर्त्तते इति वाच्यम्, एवमपि `ईजाते' `ईजाथे' इत्यादौ दोषतादवस्त्यात्, लावस्थायां कित्वाभावेन तत्र सम्प्रसारणाप्रवृत्तेः। न च कित्त्वमपि प्रवर्त्ततामिति वाच्यम्, अन्तरङ्गैस्तिबादिभिर्बाधितत्वात्। किञ्च ``स्वापेश्चङि (पाoसूo6-1-18) इति सम्प्रसारणे `असुषुपत्' इतिप्यते । स्थानिवद्भावे तु सति ``न सम्प्रसारणे (पाoसूo6-1-37) इति निषेधादभ्यासे उवर्णो न श्रूयेतेति दिक्।
     तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणादिह कालावधारणमपि क्रियते। तथा च व्याख्यातम्--द्वित्त्वे कर्त्तव्ये इति। तेन `चक्रतुः' इत्यादावुत्तरदले पुनर्यथायथं यणादयो भवन्त्येव। अन्यथा प्रकृतिभाव एव स्यात्। `निन्यतु' इत्यत्र तु प्रथमप्रवृत्तस्यापीयङो द्वित्वकालेऽपहारात्पुनः प्राप्तोऽप्ययम् ``एरनेकाचः (पाoसूo6-4-82) इति यणाबाध्यते। यद्वा, पूर्वमपीयङ् न प्रवर्तते ``प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते इति न्यायात्। यद्वा, आभीयत्वेनेयङोऽसिद्धत्वाद् यण् भविष्यति।
     स्यादेतत्। स्थानिवद्‌ग्रहणं निवर्त्य नत्रं चानुवर्त्य द्वित्वनिमित्तेऽचि अच आदेशो न स्याद् द्वित्वे कार्ये इत्येव व्याख्यायताम्। एवं हि सति स्थानिवदिति शब्दाधिकारक्लेशोऽपि न भवतीति? सत्यम्, अस्मिन्नपि पक्षे नञः स्वरितत्वं प्रतिज्ञातव्यम्। स्तानिवच्छब्दस्य तु क्लृप्तमेव तदिति लाघवम्। अस्तु वा व्याख्यानद्वयमपि फलो विशेषाभावादिति दिक्।
     नन्वेवमपि ``णौ स्थानिवद्वचनं कर्त्तव्यम् `नुनावयिषति' `चुक्षावयिषति' `तुष्टावयिषति' इत्याद्यर्थम्। अत्राहुः--ओः पुयण्जिषु वचनं ज्ञापकं णौ स्थानिवद्भावस्येति। अस्यार्थः--यौतेः पूङश्च ``सनीवन्त (पाoसूo7-2-49)क इति ``स्मिपूङरंज्वशाम् (पाoसूo7-2-74)क इतिक सूत्राभ्यामिटि कृते `यियविषति' `पिपविषते' इत्यत्र ``द्विर्वचनेऽचि (पाo1-1-59) इति स्थानिवद्भावाद्यकारपकारयोरवर्णपरयोः परतो यद्यप्यभ्यासे उकारो लभ्यते। तस्य चेकारदेशविधानेन ओः पुयण्सूत्रे पकारयकारग्रहणं चरितार्थम्। तथाऽपि वर्गग्रहणं प्रत्याहारग्रहणं जग्रहणं च ज्ञापकं द्वित्वनिमित्तस्याचो णिचा व्यवधानेऽपि स्थानिवद्भावः प्रवर्त्तते इति। तं विना अवर्णपरेषु पुयण्जिषु परेषु उवर्णान्तस्याभ्यासस्य दुर्लभत्वात्। येन नाव्यवधानाच्च णिचैवैकेन द्वित्वनिमित्तस्याचो व्यवदानमाश्रीयते। तेन `निनवनीयिषति' इत्यादौ न स्थानिवत् ल्युट्क्वज्भ्यां व्यवधानात्। एवं णिजन्ताल्ल्युट्क्यच्सन्स्वपि न स्थानिवत्, `निनावनीयिषति' इत्यादि। न हि णौ कृतं स्थानिवदिति वचनमस्ति किन्तु ज्ञाप्यमानः स्थानिवद्भावो लाघवादेकेनैव व्यवधाने इत्युक्तम्। इह त्वनेकेन व्यवधानं स्पष्टमव। यद्यप्यनूद्यमानादेशविशे,णत्वान्निर्दिष्टपरिभाषा नोपतिष्ठत, तथाप्यचीत्यौपश्लेषिकसप्तमीबलादेव तदर्थः पर्यवस्यति। ईषद्विप्रकृष्टलाभे च नात्यन्तविप्रकृष्टस्य ग्रहणमिति बोध्यम्। वस्तुतस्तु `परस्मिन्' इत्युनु(1) वर्तते इति सूत्रोपक्रमे; एवो क्तम्। एवं च `अबीभवत्' `अरीरवत्' `अलीलवत्' इत्यादिषु `बिभावयिषति' इत्यादिषु च ``ओः पुयण् (पाoसूo7-4-80) इतीत्वं प्रवर्त्तते। ज्ञापनफलन्तु यत्र ``ओः पुयण् (पाoसूo7-4-80) इत्यस्याप्राप्तिस्तत्र बोध्यम्। तद्यथा--चुक्षावयिषति। उडुरिवाचरति उडवति। उडवतेर्णौ सन्। उडुडावयिषति। चङि--औडूडवत्। तुतावयिषति। अतूतवत्। सौत्रोऽयं ``तुरुस्तुशमि (पाoसूo6-1-54) इत्यात्वस्य् स्थानिवद्भावात् `पूस्फारयिषति, अपुस्फरत्' इत्यादि बोध्यम्। तुल्यजातीयापेक्षं च ज्ञापकम्। तेनावर्णपरे हल्येव स्थानिवत्त्वम्। तेन `अचिकीर्त्तत्' इत्यादौ नातिप्रसङ्ग इति भाष्ये स्थितम्। यत्तु काशिकायां ``पूर्वत्रासिद्धम् (पाoसूo8-2-1)क इति सूत्रे वहेर्निष्ठान्ताण्णिचि चङि `औजढत्' इत्युदाहृत्य क्तिन्नन्तस्य तु `औजिढत्' इत्युक्तम्' तत्रैव न्यासेऽपि णौ कृतस्य टिलोपस्यस्थानिवद्भाव इति व्याख्यातं; तदुभवं भाष्यविरुद्धत्वादुपेक्ष्यम्। `अचिकीर्त्तत्' इत्यस्य सिद्धयेऽवर्णपरधात्वक्षरविषयकमेव ज्ञापकमिति स्पष्टं भाष्ये। प्रकृतसूत्रप्रत्याख्यानपरे वार्त्तिके अव्यप्तिरूपदोषोद्भावनपरेण ``ओदौदादेशस्य चुटुतुशरादेः इत्यादिभाष्येणाप्ययमर्थो लभ्यते इत्यनुपदमेव स्फुटीकरिष्यते। अत एव---
`शुष्किका शुष्कजङ्घा च क्षामिमानौजिढ्त्तथा'।
    इति वैयाघ्रपद्यवार्त्तिके जिशब्द एव पठ्यते। जशब्दपाठस्तु क्वाचित्कः प्रामादिक एवेति बोपदेवो दुर्गसिंहादिसम्मतिप्रदर्शनपूर्वकंकामधेनो स्थापितवान्। वैयाघ्रपद्यवार्त्तिकं तु ``पूर्वत्रासिद्धम् (पाoसूo8-2-1) इति सूत्रस्य प्रयोजनसङ्ग्रहपरं, तच्च तस्मिन्नेव सूत्रे व्याख्यास्यामः। एवञ्च ``अङ्कपदे लक्षणे च (चुoउo394) इत्यस्य चङिसणिच्क्स्य द्वित्वेन `आञ्चिकत्' इत्येव रूपंन तु `आञ्चकत्' इति। न चैवपदन्तपाठवैयर्थ्यं स्यादिति वाच्यम्। तत्सामर्थ्यादल्लोपस्याप्रवृत्तौ सत्यां वृद्धिपुकोश्च सतोः `अङ्कापयति' इति रूपाभ्युपगमात्। न चैवं सति `अङ्कयति' रूपं न स्यादिति वाच्यम् ``सूचिसुत्रि (काoवाo) इत्या दिवार्त्तिके `सोसूच्यते' `सोसूत्र्यते' इत्यादिभाष्योदाहरणेन पक्षेऽल्लोपस्याभ्युपगमात्। सूचिसूत्र्यादयो ह्यदन्ताः। अत एवानेकाच्‌त्वेन षोपदेशत्वाभावान्न षत्वम्। सेगादिपर्युदासात् ष्वष्कस्विदादिसाहचर्यात् `सोसूच्यते' इत्यादिभाष्येदाहरणाच्च निर्णीयते' इति वक्ष्यते। एवं वाक्यशेर्ष समर्थयिष्यामहे। ``प्रार्थनाध्यवसायैः ``सम्प्रश्नप्रार्थनेषु लिङ् इत्यादिप्रयोगाश्चेह मानम्। तदेतत्सकलमभिसन्धायाद् न्तत्वसार्थ्यक्याय वाऽल्लोप इत्याहुः। उक्तञ्च कामधेनौ--
अग्लोपित्वं स्थानिवत्त्वं चादन्तत्वप्रयोजनम्।
यत्र त्वेते न विद्येते तत्राल्लोपविकल्पनम् ।। इतो।
     कथयत्याद्यभिप्रायेण पूर्वार्द्धम्, अङ्कयत्याद्यभिप्रायं तूत्तरार्द्धमिति विवेकः। ननु `आञ्चकत्' इत्यत्र ``दीर्घो लघोः (पाoसूo7-4-94) इति प्राप्ते `अनग्लोप (पाoसूoएo7-4-93) इति निषेधेनाकारश्चरितार्थक इति चेत्? न, चङ्परे णौ यदङ्गतस्य योऽभ्यास इति सूत्रार्थव्यवस्थापनात्। इह त्वङ्गावस्याभ्यासो न त्वङ्गस्य। एतच्चेर्णुधातौ माध्वग्रन्थे स्पष्टम्। अत एव `आटिटत्' इत्यादौ न दीर्घः। यत्तु दीर्घविधौ हलादिरिति विशेषणं कौमुद्यां दत्तं, तन्निर्मूलम्। `ओर्णुनवत्' इत्यादेः सिद्धावपि ``सन्वल्लघुनि (पाoसूo7-4-93) इत्यत्र चङ्परे इत्यङ्गस्य विशेषणं लघोर्वेति मतबेदेनेष्यमाणे `अचिचकासत्' `अचचकासत्' इति रूपद्वयेऽप्यतिप्रसक्तं च। दीर्घविधौ `चङ्परे' इत्यस्य लघुविशेषणतामाश्रित्यार्थसिद्धकथनं तदिति वा समाधेयम्। सिद्धान्ते तु माधवोक्तरीत्या ऊर्णावयतेरिव चकासयतेरपि दीर्घाभावः स्पष्ट एवेति दिक्।
     एतच्च सूत्रं वार्त्तिककारः प्रत्याचख्यौ। तथाहि, षष्ठी द्वित्वप्रकरणान्ते विप्रतिषेधःक पठ्यते--``द्विर्वचनं यणयवायावादेशाऽल्लोपोपधालोपणिलोपकिकिनोरुत्वेभ्यः इति। तथाच `दध्यत्र' इत्यादौ सावकाशो यण् `चयनं' चायकः' `लवनं'`लावक' इत्यादौ। चायवायावः, `गोदः' `कम्बलदः' इत्यादावाल्लोपः, `श्लेष्मघ्नः' इत्यादावुपधालोपः, `कारणा' `हारणा' इत्यादौ णिलोपः, `निपूर्त्ता' इत्यादावुपधालोपः, `कारणा' `हारणा' इत्यातदौ णिलोपः, `निपूर्त्ता'इत्यादावुत्वं चेत्येतानि नव `बिभिदतुः' इत्यादौ सावकाशेन द्वित्वेन पूर्वविप्रतिषेधाद्वाध्यन्ते। तेन `चक्रतुः' `चिचाय' `लुलाव' `चिचयिथ' `लुलविथ' `पपतुः' `तस्थतुः' `जग्मतुः, `जघ्नतुः' `आटिटत्' `ततुरिः, `जगुरिः' इत्यादि सिद्धम्। नन्वेवं `निन्यतुः' इति न स्यात्, इयङ इहापरिगणितत्वादिति चेत्? न, ``एरनेकाचः (पाoसूo6-4-82) इति यणेह भाव्यमिति प्रागपीयङोऽप्रवृत्तेः ``प्रकल्प्य च इति न्यायात्। तस्माद् ``द्विर्वचनेऽचि (पाoसूo1-3-59) इति सूत्रं विनाऽपि सर्वं सिद्धमिति।
     भाष्यकारास्तु सूत्रं समर्थयन्ते। तथाहि, विप्रतिषेधस्तावदयुक्तः, आल्लापादीनां नित्यत्वात् द्वित्वस्यानित्यत्वेनातुल्यबलत्वात्। किं च पूर्वविप्रतिषेधे सर्वत्र वचनस्यारम्भणीयत्वादिह तु सुतरां तथेति क्व लाघवम्? अपिच, क्रियमाणमपि वचनं यद्यन्तरङ्गाणामपि बाधकं तर्हि `निन्वनीयिषति' `दिदवनीयिषति' इत्यादावप्यभ्यासे उकारः श्रूयेत। अथात्रान्तरङ्गत्वादवादेशः, वचनं तु नान्तरङ्गाणां बाधकं किन्तु नित्यानामेवेति ब्रूयाः, एवमपि `चुक्षावयिषति' इत्यादौ वृद्ध्यावादेशयोः प्रवर्तनादब्यासं इत्वं स्यात्। तताच तद्बाधनाय उत्वं विधेयम्। तथाच त्वया इत्थं न्यासः कर्त्तव्यः ``उत्परस्यातः (पाoसूo7-4-88) ``तिच (पाoसूo7-4-89) ``ओदौदादेशस्य चुटुतुशरादेः इति। अब्यासस्येति घर्त्तते। ओदोतोरादेशो यास्मिन्नङ्गे तस्य योऽभ्यासश्चुटुतुशरादिस्तस्य् योऽकारस्तस्य उत्स्यादित्यर्थः। यथा--चुक्षावयिषति, उडुडावयिषति, तुतावयिषति, ऊर्णुनावयिषति, शुशावयिषति, पुस्फारयिष तीति। अत्र ``चिस्फुरोर्णौ (पाoसूo6-1-54) इत्यात्वम्। यद्यपीह खयः शेषं कृते शरादित्वं नास्ति तथाप्यभ्याससंज्ञाप्रवृत्तिकालेऽस्त्येवेत्यवधेयम्। ओदौदादेशस्येति किम्? ``चायृ पूजायां (भ्वाoउo905) चिचायिषति। ``खद स्थैर्ये (भ्वाoपo50) चिखदिषति। चुटुतुशरादेः किम्? बिभावयिषति। अत इति किम्? ऋजुम् अण्म् ऋतुम् अंशु चाख्यत् आर्जिजत्, आणिणत्, आर्त्तितत्, आंशिशत्' इत्यत्र परत्वाद् वृद्धौ सत्यां टिलोपे सणिच्कस्य द्वित्वे कृते मा भूत्। उभयथापि दोषः--शीतं लुनाति शीललुः सूर्यः, तमाख्यातुमिच्छति `शिशीतलयिषति' इत्यत्र तकारादुत्तरस्यात उत्प्रसङ्गात्। नन्वेवमपि ``औजढत्``आञ्चकत् इत्यादावभ्यासेऽकारश्रवणार्थं यत्नान्तरमास्थेयमेवेति गौरवान्तरं वार्त्तिककारं प्रति कुतो नापादितमिति चेत्? न, तत्रेकार एवेष्ट इत्युक्तत्वात्। सजातीयापेक्षं हि सिद्धान्तेऽपि ज्ञापकम्। अन्यथा `अचिकीर्त्तत् इत्यत्राभ्यासेऽकारश्रवणापत्तेः। तस्माद्वार्त्तिककृतावचनद्वयमपि कर्त्तव्यं स्यादिति स्तितम्। तथा `जग्लौ' इत्यादिसिद्धये विप्रतिषेधवार्त्तिके वृद्धिरपि पाठ्या। तथा ``ओः पुयण्जि (पाoसूo 7-4-80)इति तृतीयमपि कर्त्तव्यमेव। `पिपविषते' `यियविषति' जिजावयिषति' इत्यत्र इत्वं यथा स्यात्। तथाहि। पु यु इत्यनयोः सनि इटि परत्वाद् गुणे कृते पूर्वविप्रतिषेधेनावादेशात्पूर्वं द्वित्वमितीत्वं वक्तव्यमेव। तथा ``जुचङ्क्रम्य (पाoसूo3-2-250) इत्यत्र निर्दिष्टात्सौत्राज्जुधातोर्ण्यन्तात्सनि जिजावयिषतीत्यत्र `चुटुतुशरादेः इत्युत्वे प्राप्तो तद्वाधनायेत्वं वक्तव्यम्। न च तत्र चकारमेव पठिष्यामि न तु चुशब्दमिति वाच्यम् ``गुङ् घुङ् घ्वनौ (भ्वाoआo979) आभ्यां णिजन्ताभ्यां चङि सति च अजूगवत्, अजूघवत्, जुगावयिषति, जुघावयि षति इत्याद्यसिद्धिप्रसङ्गात्। किञ्च, `दिदवनीयिषीत' `निनवनीयिषति इत्यत्र ``चुटुतुशरादेः इत्युत्वं स्यादिति तद्वारणाय वचनान्तरमास्तेयम्। अथ वा ``सन्यतः (पाoसूo7-4-79) इति सूत्राद् गुणो यङ्लुकोः' (पाoसूo7-4-82) इत्याद्यष्टसूत्र्या विच्छन्न्मपि सन्‌ग्रहणं मण्डूकप्लुत्या(1) नुवर्त्य सूत्रमतोक्तरोत्या `येन नाव्यवधान' न्यायेन णिज्‌भिन्नैर्व्यवधाने उत्वं नेति समाधेयम्। एवमपि तनुशब्दादाचारक्विबन्ताद्धेतुमण्णौ सत्यसति वा यदा सन् तत्र `तितनविषति' `तितनावयिषति' इत्यत्राप्युत्वं स्यात्' इद्वारणाय ओदौदादेशस्येति वार्तिकमन्यतैव व्याख्येयम्, तद्यथा, अभ्यासस्येत्यवयवषष्ठी। श्रोदौदित्यादिस्तु सम्बन्धसामान्ये षष्ठी। अभ्यासस्येत्यवयवषष्ठी। ओदौदित्यादिस्तु सम्बन्धसामान्ये षष्ठी। उभयमप्यतो विशेषणम्। तदयमर्थः--अभ्यासस्यावयवभूतस्यथा ओदौदादेशस्य यथायथमवयव आदेशो वा योऽत्तस्योद्भवति। `चुक्षावयिषति' इत्यवयवः। `पुस्फारयिषति' इत्यादेशः। तथाचाद्‌ग्रहणमपि सार्थकम्। अन्यथा `आटिटत्' इत्यादिशिद्धये चङ्‌परे णौ यदङ्गं तदवयवे लघौ सन्वदतिदेशाद् `आर्जिजत्' इत्यादावतिप्रसङ्गविरहादत इति व्यर्थं स्यादिति दिक्। तथाच सूत्रमतापेक्षया वार्तिकमते महदेव गौरवमिति।
     स्यादेतत्। माऽस्तु प्रकृतसूत्रं मा च वार्त्तिकम्। ``ओः पुयण् (पाoसूo7-4-80) इत्येतदेव ज्ञापयिष्यति अन्तरङ्गं नित्यं च बाधित्वा द्विर्वचनं स्यादिति। ततो द्वित्वे कृतं यथाप्राप्तं यणादि करिष्यते। मैवम्, `निनवनीयिषति' `दिदवनीयिषति' इत्याद्यसिद्धेः। किञ्च सामान्यापेक्षं ज्ञापकं विशेषापेक्षं वा? आद्ये `अचिकीर्त्तत्' इति न सिध्येत्। अन्त्ये `चक्रतुः' इत्यादि न सिध्येत्। तस्मात्सूत्रं कर्त्तव्यमेव। `चुक्षावयिषति' इत्यादिसिद्धये तु ``ओः पुयण् (पाoसूo7-4-80) इति ज्ञपकमाश्रयणीयम्। तच्च तुल्यजातीयापेक्षमिति स्थितम्। अत एव वामनोदाहृतम् `ओजढत्' इत्येतद्भाष्यविरुद्धमिति बोपदेवोपष्टम्भेन प्रपञ्चितं प्राक्। वस्तुतस्तु वामनोक्तं सम्यगेव। यतः---
बोपदेवमहाग्राहग्रस्तो वामनादिग्गजः।
कीर्त्तेरेव प्रसङ्गेन माधवेन बिमोचितः ।।
     तथाहि, किं वामनोक्तौ वार्तिकदूषणपरभाष्यविरोधः, किं वा सजातीयावषणपरभाष्यविरोधः, किं वा सजातीयावषयज्ञापकतावर्णनभाष्यविरोधः? नाद्यः, नित्यानित्ययोर्विप्रतिषेधानुपपत्तिरिति, `दिदवनीयिषति, इत्याद्यसिद्धिरिति च दूषणयोर्भाष्येऽनुक्ततया भाष्यं दूषणान्तराणामप्युपलक्षणमिति स्थिते `औजढत्' इत्यभ्यासेऽकारदेशोपि विधेयः स्यादिति वार्त्तिके दूषणान्तरस्यापि देयत्वात्। तदेवं वार्तिकं रचनीयम्--वार्त्तिके दूषणान्तरस्थापि देयत्वात्। तदेवं वार्त्तिकं रचनीयम्--ओदौदादशेस्य कचुटुतुशरादेरभ्यासस्यौत्सनि। ततोऽल्लोपवतो णिचोऽतु। अल्लोपवतोऽङ्गस्याभ्यासस्य णिचोऽत्स्यात्। औजढत् आञ्चकदिति। न द्वितीयः, यत्र द्वि रुक्तावभ्यासस्योत्तरखण्डस्याद्योऽजवर्णस्तत्र स्थानिवदिति हि भाष्यस्य फलितोऽर्थः। अस्ति च हतशब्दस्य द्विरुक्तौ प्रक्रियादशायामुत्तरत्रावर्णः। ननु पुनः प्रवृत्तेन टिलोपेनापहारान्नासौ प्रयोगे समवैतीति चेत्? किं ततः? नहि प्रयोगसमवायित्वं विशेषणं भाष्ये दत्त्म्। एवञ्च `नुनावयिषति' इत्यादौ द्वित्वप्रवृत्तिवेलायामवर्णाभावेऽपि पश्चाद्भाविनं तमाश्रित्य यथा स्थानिवद्बावस्तथा हतशब्दस्य पश्चात्तद्वरहेऽपि `अध्यजीगपत्' इत्यत्र तु स्थानिवद्भावे सत्यजादितया णिच एव द्वित्वं स्यात् तथाच न द्वित्वप्रवृत्तिवेलायां नापि पश्चादवर्णपरतेति `अचिकीर्त्तत्' इत्यादाविव न स्थानिवद्भावः। एवञ्चोवर्णस्थानिकस्यैव स्थानिवद्भाव इति दुराग्रहो निर्मूल एव। अत एव ``लोपः पिबतेः (पाoसूo7-4-4) इति सूत्रे `अपीप्यत्' इत्येव साधु, नतु, `अञ्चिकत्' इति। `अङ्गपयति' `आञ्चकिपत्' इत्यादि तु दुरापास्तम्, अल्लोपस्य दुर्वारत्वात्। अकारोच्चारणं त्वभ्यासेऽकारश्रुत्यादिना चरितार्थम्। यदप्यग्लोपित्वं स्थानिवर्त्वं चेत्याद्युक्तम्। तदपि न, चिन्तेरिदित्करणेन ``घुषिरविशब्देने (पाoसूo7-2-23) इत्येतत्सूत्रस्थभाष्येण च णिज्विकल्पस्य सुस्थतया अल्लोपविकल्पस्य निर्मललत्वात्। णिजभावपक्षे हि ``अनेकाचः (भाoइo) इत्याम्प्रवृर्त्या धातोरन्तोदात्तप्रवृत्त्या चाकारः कृतार्थः। `अङ्क्यात्' इत्यादौ नलोपप्रतिबन्धोऽपि फलमिति दिक्।
     न चैवमपि `औजढत् ' इत्यब्यासे इकारः श्रूयेत' `पूर्वत्रासिद्धीयमद्विर्वचने (पoभाo126) इत्युक्तेरिति वाच्यम् ``उभो साभ्यासस्य (पाoसूo8-4-21) इति तदनित्यताज्ञापनात्। यत्तु पदद्विर्वचनविषयं तदिति बोपदेवः। तन्न, ``सुविनिर्दुर्भ्य (पाoसूo8-3-88) इति सूत्रे ``सूपिभूतो द्विरुच्यते इति वार्त्तिकेन तद्भाष्येण च सह विरेधात्। अत एवाभ्यासे डकारं दुर्गगुप्तादय आहुः। एवञ्च वैयाघ्रपद्यवार्त्तिके `औजढत्' इति पाठस्य प्रामादिकत्वकल्पनमेव प्रामादिकम्। जिशब्दपाठस्तु क्तिना निर्वाह्यः। यत्त्वदन्तेपषूनदातौ `मा भवानूनिनत्' इत्यभ्यासे इकारश्रवणं, तदपि लिपिप्रमादप्रयुक्तम्, अन्यथा ``कॄत संशब्दने (चुoउo120) इत्यत्र सुब्धातौ साम्प्रदायिकः पाठः। ``नोनयतिध्वनयति (पाoसूo3-1-51) इति सूत्रे काशिकापदमञ्जर्योरप्येवमेवेत्यवधेयम्। एवञ्चेद भाष्यकाशिकयोरविरोध एवेति स्थिते सरस्वतीकण्ठाभरणादिग्रन्था अपि निर्बाधा एवेत्यवधेयम्। यत्तु ``स्तौतिण्योः (पाoसूo8-3-61) इति सूत्रे `सिषेचयिषति' इत्यत्र सिचेर्हेतुमण्णौ गुणे सनि इटि गुणायादेशयोः कृतयोर्गुणस्य स्थानिवद्बावात्सिच्छब्दस्य द्वित्वमिति न्यासकारेणोक्तम्। तत्तूत्तरखण्डऽकाराभावाद्भाष्यविरुद्धं, स्थानिवद्भावं विनाऽप्यभिमतरूपसिद्धेर्निष्पलं चेत्युपेक्ष्यम्। एतेन `औजढत्' `आपीप्यत्' इत्यादिसिद्धयेसामान्यापेक्षतां वदन् `अचिकीर्त्तत्' इत्यादिसिद्धये चानित्यतां शरणीकृर्वन् शीरदेवोऽप्यपास्तः ।।
     इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमेपादे अष्टमान्हिकं समाप्तम् ।।
                    ------***------