शब्दकौस्तुभः/अध्यायः १-पादः १/आह्निकम् ७

विकिस्रोतः तः
← आह्निकम् ६ शब्दकौस्तुभः
आह्निकम् ७
[[लेखकः :|]]
आह्निकम् ८ →


इग्यणः सम्प्रसारणम् (पाoसूo 1-1-45)।
यणः स्थाने इक् भवतीत्येवंरूपो वाक्यार्थः, यण्स्थानिक इग्‌रूपो वर्णश्चेत्युभयमपि सम्प्रसारणसञ्ज्ञं स्यात्। तत्र ``ष्यङः सम्प्रसारणम् (पाoसूo6-1-13) इत्यादिषु विधिप्रदेशेषु वाक्यार्थस्य ग्रहणं ``सम्प्रसारणाच्च (पाoसूo6-1-108) इत्याद्यनुवादप्रदेशेषु वर्णस्येति विवेकः। पूर्वसूत्रादितिशब्दानुवृत्तेर्वाक्यार्थस्य संज्ञित्वमिति लभ्यते। तत्प्रत्याख्यानपक्षे तु वाक्यमेव संज्ञि। न चैवं तदेव विधेयं स्यादिति वाच्यम्, ``वाह ऊठ् सम्प्रसारणमितिसामानाधिकरण्यबलेन तदुपस्थापितार्थस्यैव विधेयत्वनिर्णयात्। न चैवमपि ``ष्यङः सम्प्रसारणम् (पाoसूo6-1-13) इत्यादौ दोषतादवस्थ्यम्, सामान्यापेक्षज्ञापकाश्रयणात्। ननु तथापि वाक्यतदर्थयोरन्यतरस्य संज्ञित्वमस्तु वर्णस्य तु कथमिति चेत्? तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणेनार्थद्वयाभ्युपगमादित्यवेहि। अत्र च विधेयानुवाद्यसमर्पकविभत्त्या सूत्रे निर्देश एव लिङ्गम्। आह च- विभक्तिविशेषनिर्देशस्तु ज्ञापक उभयसंज्ञात्वस्येति। उभयोः संज्ञेति षष्ठीतत्पुरुषः। भर्तृहरिश्चाह----
सम्प्रसार्णसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः।
प्रविभागस्तथा सूत्र एकस्मिन्नेव जायते ।।
तथा द्विर्वचनेचीति तन्त्रोपायादिलक्षणः।
एकशेषेण निर्देशो भाष्य एव समर्थितः ।। इति ।।
     तन्त्रं च शब्दतन्त्रमर्थतन्त्रं वेति मतबेदेन व्यवस्था बोद्धव्वा। अर्थभेदाच्छब्दभेदे आद्यः पक्षः। शब्दैक्ये द्वितीयः। आद्येऽपि व्यञ्जकध्वनिमात्रभेदे व्यङ्ग्यैक्ये आवृत्तिरेवेत्यादि बोध्यम्। एवञ्च---
तन्त्रक्षत्वमैकरूप्येण भवेत्तुल्योपकारतः।
उपकारान्यथात्वे तु भवेदावृत्तिलक्षणम् ।।
     इति मीमांसकमर्थादानुरोधो वैयाकरणैर्न कर्त्तव्यः, तस्य भाष्यादिसकलवैयाकरणग्रन्थविरुद्धत्वात्, मूलयुक्तिशून्यतया दुरुपपादत्वाच्चेति दिक्। यद्वा, वाक्यार्थ एव संज्ञी अनुवादे तु तन्निर्वृत्तो वर्णो लक्ष्यते। सम्प्रसारणाज्जातं सम्प्रसारणमिति। अथ वा वर्णा एव संज्ञी। विधिप्रदेशेषु तु सूत्रशाटकवद्भाविसंज्ञाश्रयणीयेति। सर्वेप्येते पक्षा भाष्ये स्थिताः।
     स्यादेतत्, `अदुहितराम्' इत्यत्र लकारस्य यणः स्थाने उत्तमपुरुषैकवचनमिट्। तस्य च सम्प्रसारणसंज्ञायां सत्यां ``हलः (पाoसूo6-4-2) इति दीर्घः स्यात् तरपं प्रति लङन्तस्याङ्गत्वादिति। अत्राहुः--संख्यातानुदेशाद्यकारस्थानिकस्यैव इकारस्य संज्ञा न तु लकारस्थानिकस्येति।
     अत्रेदमवधेयम्-वाक्यार्थः संज्ञीति पक्षे तस्योद्देश्यविधेयसंसर्गरूपतया तत्र यथासंख्यापरिभाषोपस्थितौ यणः स्थाने इक्स्याद्यथासंख्यमित्यवान्तरवाक्यार्थः। सोऽयं सम्प्रसारणसंज्ञः स्यादिति महावाक्यार्थः। नचावान्तरवाक्यार्थं गृहीत्वा ``यातिवातिद्राति(पाoसूo एo8-4-17) इत्यादावतिप्रसङ्गः, तस्य संज्ञासम्बन्धमात्रफलकत्वात्। अन्यथा ``ष्यङः सम्प्रसारणम् (पाoसूo6-1-13) इत्यादेर्वैयर्थ्यापत्तेरतो नोक्तदोषः, अदुहीत्यादेस्तज्जत्वाभावाच्च। उभयसंज्ञात्वपक्षेऽपि उपस्थितत्वाद्यथासंख्यप्रवृत्त एव वर्णः संज्ञीति। अतः `अदुहितराम्' इत्यत्र नातिप्रसङ्गः। इदं च कर्मकर्त्तरि रूपमिति हरदत्तः। उपलक्षणं चैतत्, केवले कर्तर्यपि सम्भवात्। वर्ण एव संज्ञीति पक्षे तु यथासंख्यं दुर्लभम्, अनुवादे परिभाषाणामनुपस्थानस्योपपादितत्वात्। न चैवं स्थानेयोगोऽप्यस्मिन्पक्षे न लभ्येतेति वाच्यम् ``षष्ठी स्थाने योगा (पाoसूo1-1-49) इत्यात्रानुवर्त्य एतत्सूत्रस्य व्याख्येयत्वात्। उक्तं हि ``इको गुणवृद्धी (पाoसूo1-1-3) इति सूत्रे- ``सिद्धं तु षष्ठ्यधिकारे वचनाद् इति। इहैव वा सिंहावलोकनन्यायेन स्थानग्रहणापकर्षोस्तु, यथासंख्यं तु दुर्लभमित्युक्तम्। कथं तर्हि `अदुहितराम्' इत्यत्र नातिप्रसङ्ग इति चेत्? तन्त्रावृत्त्याद्याश्रयणेन संप्रसारणस्येत्यत्र तद्भावितग्रहणात्। यद्वा, कार्यकालपक्षे यणः स्थाने संप्रसारणमिग्भवतीति वाक्यार्थादनुवादतैव नास्ति तत्र परिभाषोपस्थितौ सत्यांयथासंख्याप्रवृत्त एव संज्ञी। स एव सम्प्रसारणस्येत्यादौ उपतिष्ठते। अथवा स्थानक्रमेण सम्बन्धो लौकिकन्यायसिद्धत्वादनुवादेऽपि सुलभः। यथासंख्यसूत्रं परं न प्रवर्त्ततामिति दिक्।
     `द्युभ्याम्' इत्वत्र ``हलः (पाoसूo6-4-2) इति दीर्घो न ``दिव उत्त (पाoसूo6-1-131) इति तपरकरणात्। अत एव `द्युलोकः' इत्यत्र ``संप्रसारणस्य (पाoसूo6-3-139) इति दीर्घो न। नन्वेवं ``भाव्यमानोऽप्युकारः सवर्णान्गृह्णाति (पoभाo20) इत्यर्थे ज्ञापकतया कथमस्योपन्यास इति चेत्? न, तस्य वाक्यार्थः संज्ञीति पक्षेणोक्तत्वात् ``संप्रसारणस्य (पाoसूo6-3-139) इत्यत्र तद्बावितग्रहणाद्वा। पक्षान्तरे तु ``ऋत उत् (पाoसूo66-1-111) इति ज्ञापकं बोद्धव्यम्। नन्वेवम् `अक्षद्युवौ' `अक्षद्युव' इत्यादौ ऊठः सम्प्रसारणसंज्ञायां ``संप्रसारणाच्च (पाoसूo6-1-107) इति पूर्वरूपं स्यादिति चेत्? न, संप्रसारणपूर्वत्वे समानाङ्गहणस्य वार्तिककृता कृतत्वात्। तत्प्रत्याख्यानपक्षे तु ``वार्णादाङ्गं बलीयः (पoभाo55) इत्युवङ् भविष्यति। वाक्यार्थः संज्ञीत्यादिपक्षान्तरे तु पूर्वरूपप्राप्तिरेव नास्ति। `हूतः' `जीनः' इत्यादौ तु ``हलः (पाoसूo6-4-2) इति सूत्रसामर्थ्यात्सम्प्रसारणनिर्वृत्तस्यादेशेऽपि दीर्घप्रवृत्तिः। वर्णसंज्ञापक्षेपि अल्विधौ स्थानिवद्भावासम्भवेन ``हलः (पाoसूo6-4-2) इतिसूत्रारम्भसामर्थ्यात्सम्प्रसारणस्यादेशे कार्यप्रवृत्तेर्वाच्यत्वादिति दिक् ।।

आद्यन्तौ टकितौ (पाoसूo1-1-46)।
टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः। भविता। यापयति। ``पुरस्तादपवादाः (पाoभाo60) इति न्यायेन स्थानेयोगत्वस्यायमपवादः। ``प्रत्ययः (पाoसूo3-1-1) ``परश्च (पाoसूo3-1-2) इत्यनेन तु परत्वाद्वाध्यते। तेन ``चरेष्टः (पाoसूo3-2-8) ``गापोष्टक् (पाoसूo3-2-16) ``व्रीहिशाल्योर्ढक् (पाoसूo5-2-2) परा एव भवन्ति। परेण परिभाषाप्रकरणेन साहचर्यात्परिभाषेयम्। भाष्ये तु संज्ञापक्षोऽपि स्थापितः। तथाहि, टकिताविति कर्मधारयः। इत्संज्ञकौ टकारककारौ आद्यन्तयोः संज्ञे स्तः। तथा च इट् इतिक बहुव्रीहिः इः ट् आदिर्यस्येति विग्रहः। तथा च स्थानेन्तरतमपरिबाषया तव्यस्य इतव्यादेशे सिद्धमिष्टम्। एवं `यापयति' इत्यत्र यातेर्याप् आदेशः, पुः क् यस्येति व्याख्यानात्। न चैवमाद्यन्तौ टकौ इत्येवास्त्विति वाच्यम् ``आलजाटचौ (पाoसूo5-2-125) ``ठस्येकः (पाoसूo7-3-50) इत्यादावपि टकयोराद्यन्तसंज्ञात्वप्रसङ्गात्। हतद्संज्ञकत्वेन तु देशविशेषो लक्ष्यते। तेन इत्संज्ञकस्य यो देशस्तत्रावस्थितौ टकौ संज्ञे। चाटचष्टकार इकादेशस्य ककारश्च तथेति नोक्तदोषः। नन्वस्मिन्पक्षे ``लुङ्लङ्लृङ्क्षु (पाoसूo6-4-71) इत्यादिना भू इत्यस्याभू इत्यादेशः स्यात्स चोदात्त इत्यन्तो दात्तः प्रसज्येत। नैष दोषः। अः ट् उदात्तश्च यस्येति त्रिपदबहुव्रीह्याश्रयणात्। विशेषणस्यापि उदात्तस्य सौत्रः परनिपातः। तेनोदात्ताकारादिरादेश इति सिद्धम्। न चैवमपि ``आडजादीनाम् (पाoसृo6-4-72) इत्यत्र दोषतादवस्थ्यम्। अनुवृत्तेनोदात्तशब्देन सह श्रूयमाणस्य बहुव्रीह्यसम्भवादिति वाच्यम्, ``आडजादीनाम् (पाoसूo6-4-72) इत्यत्र दोषतादवस्थ्यम्। अनुवृत्तोनोदात्तशब्देन सह श्रूयमाणस्य बहुव्रीह्यसम्भवादिति वाच्यम्, ``आडजादीनाम् (पाoसूo6-4-72) इति सूत्रस्य प्रत्याख्यास्यमानत्वात्। वक्ष्यति हि-``अजादीनामटा सिद्धम् इत्यादि।

मिदचोऽन्त्यात्परः (पाoसूo1-1-47)।
सन्निविष्टानामचां मध्ये अन्त्यो योऽच् तस्मात्परो मित्स्यात् स च पूर्वान्तः। स्थानेयोगस्य परश्चेति परत्वस्य चापवादः। वनानि। यशांसि। रूणद्धि। ननु पूर्वयोगवदयमपि पुरस्तादपवादन्यायेन स्थानेयोगमात्रस्यापवादोऽस्तु न तु ``प्रत्ययः (पाoसूo3-1-1-) ``परश्च (पाoसूo3-1-2) इत्यस्यापीति चेत्? न, बाध्यसामान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्वं बाध्यते इतीहाभ्युपगमात्। अन्यथा श्नमो मित्करणं व्यर्थं स्यात्। नच श्रवणार्थ एव श्नमो मकार इति वाच्यम्, ``तृणह (पाoसूo 7-3-92) इति निर्देशात्। अच इति जात्यभिप्रायेणैकवचनम्। निर्द्धारणे षष्ठी। न चान्त्यादित्यनेन सामानाधिकरण्यादच इति पञ्चम्येवास्तामिति वाच्यम् ``शे मुचादीनाम् (पाoसूo7-1-59) इत्यादावन्त्यस्याचोऽसम्भवेनैतत्परिभाषाया अप्रवृत्तावलोन्त्यपरिभाषाप्रसङ्गात्। तथाच तत्र मित्करणवैयर्थ्यापत्तेः। पूर्वसूत्रे आद्यन्तावितिसमासनिर्देशेऽपीहान्तग्रहणमात्रमनुवर्त्तते एकदेश एव स्वरितत्वप्रतिज्ञानात्। तेन मित्पूर्वान्तः। यदि त्वभक्तः स्यात्तदा `ताता पिण्डानाम्' इत्यादौ ``शेश्छन्दसि बहुलम् (पाoसूo6-1-70) इति शेर्लोपे कृते नलोपोन स्यात्, प्रातिपदिकान्तत्वाभावात्। तथा `वहंलिहः' इत्यत्र ``वहाभ्रे लिहः (पाoसूo3-2-32) इति खशि ``अरुर्द्विषदजन्तस्य (पाoसूo6-3-67) इति मुमि ``मोऽनुस्वारः (पाoसूo8-3-23) इत्यनुस्वारो न स्यात्, अपदान्तत्वात्। यदि त्वादिग्रहणमनुवर्त्य परादिः क्रियेत, तदा `वारिणे' इत्यादौ `घेर्ङिति' (पाoसूo7-3-111) इति गुणः स्यात्, `वहंलिहः' इत्यत्रानुस्वारो न स्यात्, `अतिशयितः सखा येषां तान्यतिसखीनि ब्राह्मणकुलानि' इत्यत्र ``सख्युरसम्बुद्धौ' (पाoसूo7-1-92) इति णित्त्वप्रयुक्ता वृद्धिः प्राप्नोति। सा हि गौणत्वेऽपीष्यते अस्थाद्यनङ्वत्। एतच्चेह सूत्रे भाष्यकैयटयोः स्फुटम्। तस्मात्पूर्वान्तपक्ष एवात्र स्थितः।
     अत्र वार्त्तिकम्-अन्त्यात्पूर्वो मस्जेरनुषङ्गसंयोगादिलोपार्थम्। मग्नः। मग्नवान्। ``ओदितश्च (पाoसूo 8-2-45) इति निष्ठानत्वम्। तस्यासिद्धत्वात्कुत्वम्। ``मस्जिनशोर्झलि' (पाoसूo7-1-60) इति नुम्। स च यद्यन्तादचः परः स्यात्तदा ``अनिदिताम् (पाoसूo6-4-24) इत्यनुषङ्गलोपो न स्यात्। उपधाभूतस्य नकारस्यानुषङ्ग इति प्राचां संज्ञा। अथ ``स्कोः (पाoसूo8-2-29) इति सलोपे कृते नकार उपधात्वाल्लुप्यतामिति चेत्? न, लनोपं प्रति ``स्कोः (पाoसूo8-2-29) इतिलोपस्यासिद्धत्वात्, बहूनां समवाये समुदायस्यैव संयोगसंज्ञेति पक्षे सलोपस्याप्राप्तेश्च। तथाच `मङ्क्ता' `मङ्क्तव्यम्' इत्याद्यपि प्रयोजनं बोध्यम्।
     भर्जिमर्च्योश्च। अन्त्यात्पूर्वो मित् इत्यनुवर्त्तते। ``भृजी भर्जने (भ्वाoआo178) अस्मादौणादिके अचि कृते ऊमागमः भरुजा। ``मर्च शब्दार्थे (चुoपाo1650) चुरादिकः, अस्माद्, ``अचइः (उoसूo4-588) इत्यौणादिक इप्रत्यय ईमागमः। निपातनात्सिद्धम्। भरुजाशब्दो ह्यङ्गुल्यादिषु पठ्यते मरीचिशब्दो बाव्हादिषु। उणादिषु तु ``मृकणिभ्यामीचिः (उoसूo4-519) इति ईचिप्रत्ययं कृत्वा मरीचिशब्दो व्युत्पादितः। तदुपायान्तरं बोध्यम्।

एच इग्घ्रस्वादेशे (पाoसूo1-1-48)।
आदिश्यमानेषु ह्रस्वेषु मध्ये एच इगेव स्यात्। हेशब्दमतिक्रान्तं कुलमतिहि कुलम्। चित्रगुः। अतिरिः। अतिनु। यदत्र वक्तव्यं तदेओङ्सुत्रे एवोक्तम्।

षष्ठी स्थाने योगा (पाoसूo1-1-49)। अनेकसम्बन्धपरतया सम्भाव्यमाना षष्ठी स्थानप्रयुक्तसम्बन्धपरेति बोध्यम्। ``अस्तेर्भूः (पाoसूo2-4-52) अस्तेः समीपोऽनन्तरो वेति संशये तत्स्थाने उच्चारणीय इत्यर्थः। स्थानं च प्रसङ्गः। दर्भाणां स्थाने शरैः प्रस्तरितव्यमितिवत्। तथा च इगुच्चारणे प्रसक्ते यणुच्चारणीय इत्याद्यर्थपर्यवसाने सामीप्यादयः सम्बन्धा अर्थाद्व्यावृत्ताः। योगः सम्बन्धः, स बहुविधोऽस्त्यस्या इति योगा। अर्शआदित्वान्मत्वर्थीयोऽच्। स च भूम्नि, अन्यथा विशेषणवैयर्थ्यापत्तेः। तेनानेकसम्बन्धपरतया सम्भाव्यमानेत्यर्थो लभ्यते। अयोगेऽति वा छेदः। अनिश्चितयोगविशेषेत्यर्थः। योगेत्ययोगेति वा किम्? ``उदुपधाया गोहः (पाoसूo6-4-89) ``शास इदङ्हलोः (पाoसूo6-4-34) इत्यादौ शास इत्यत्र मा भूत्। सति हि तत्रापि स्थानेयोगत्वे गोहिशासोः स्थाने धातुमात्रस्योपधायाश्च ऊदितौ स्यातामिति दिक्।
     यद्वा, स्थाने योगो यस्या इति बहुव्रीहिः। अत एव निपातनात्सप्तम्या अलुक्। यद्वा, स्थानेन योगेऽस्या इति विग्रहः। निपातनादेत्वम्। न चानयोः पक्षयोर्गोहः शास इत्यादावतिप्रसङ्ग, परिबाषाणामनियते नियन्तुं प्रवृत्तेः। युक्तं चैतत्। आकाङ्क्षापूर्वकत्वात्सम्बन्धस्य, इह चोपधासन्निधानेनावयवषष्ठीत्वे निर्णीते आकाङ्क्षाविच्छेदात्। लोकेऽपि हि पन्थानं पृच्छन्तं प्रत्यमुष्मिन्नवकाशे दक्षिणो ग्रहीतव्योऽमुष्णिन्नुत्तर इत्यादावुपदिष्ट सति यत्र मार्गद्वैधात्संशयस्तत्रैव तदुपतिष्ठते न त्वसंदिग्धे तिर्यक्पथेपीति दिक्।
 
भाष्यकारास्त्वाहुः--``अस्तेर्भूः(पाoसूo2-4-52)।
इत्यादावनेकसम्बन्धप्रसङ्गेऽपि लक्ष्यानुरोदादन्तरङ्गत्वात् ``स्थानिवदादेशः (पाoसूo1-1-56) इति ज्ञापकाच्च स्थानेयोगतैव व्याख्यास्यते। तस्मान्नायमेतस्य सूत्रस्य सूत्रार्थः, किन्तु षष्ठ्यन्तमुच्चार्यमाणमेव स्थानेन युज्यते न तु प्रतीयमानमिति सुत्रार्थः। तदेतदुच्यते ``निर्दिश्यमानस्यादेशा भवन्ति (पoभाo12) इति। तेन ``पादः पत् (पाoसूo6-4-130) इत्यस्यायमर्थः--पाच्छब्दान्तं यदङ्गं तदवयवस्य पाच्छब्दस्य सर्वस्य पदादेश इति। ``अलोऽन्त्यस्य (पाoसूo1-1-52) ``आदेः परस्य (पाoसूo1-1-54) इति तु योगौ आरम्भसामर्थ्यादस्य बाधकौ। ``अनेकाल्शित्सर्वस्य (पाoसूo1-1-55) इत्यनेन तु सहावपिरोधादस्य समुच्चयेन प्रवृत्तिरिति। एवं स्थिते तन्त्राद्याश्रयणेन प्रागुक्तोऽपि सूत्रार्थः सु वचः। फलं तु स्फुटप्रतिपत्तिरिति दिक्।

स्थानेऽन्तरतमः (पाoसूo1-1-50)।
प्राप्यमाणानां मध्ये सदृशतम आदेशः स्यात्। सादृश्यं च चतुर्धा। स्थानतोऽर्थतो गुणतः प्रमाणतश्चेति। स्थानतो यथा--सुध्युपास्यः। मध्वरिः। धात्रंशः। लाकृतिः। यत्तु यथासंख्यसूत्रेणैवेहान्यथासिद्धिरित्युक्तं भाष्यादौ, तदभ्युच्चयमात्रम्, अर्थतः साम्यविवक्षायां यथासंख्यालाभात्। इको हि षट्षष्टिः यणस्तु सप्तेति वैषम्यात्। अथेक्शब्दाद्यण्शब्दाच्च प्रथमं चतुर्णां चतुर्णामुपस्थितेरस्त्येव साम्यमिति चेत्तार्हि सुध्युपास्येति दीर्घस्य कतं यणादेशः। इकारेण ग्रहणादिति चेत्तर्हि सुध्युपास्येति दीर्घस्य कथं यणादेशः। इकारेण ग्रहणादिति चेत्तर्हि तृतीयेन ऋकारेण चतुर्थेन लृकारेण च परस्परस्य ग्रहणाल्लाकृतौ रेफप्रसङ्ग धात्रंशे च लकारप्रसङ्गः, यवौ च सानुनासिकनिरनुनासिकौ न व्यवतिष्ठेयातामिति दिक्।
     दैत्यारिः, श्रीशः, इत्याद्यपीहोदाहरणम्,
     अर्थतो यथा। वातण्ड़्ययुवतिः। वतण्डशब्दाद् ``वतण्डाच्च (पाoसूo4-1-108) इत्यपत्ये यत्र्। तस्य ``लुक्स्त्रियाम् (पाoसूo4-1-109) इति लुक्। शार्ङ्गरवादित्वान् ङीन्। वतण्डी चासौ युवतिश्चेति विग्रहे ``पोटायुवति (पाoसूo2-1-65) इत्यादिना समासः। ``पुंवत्कर्मधारय (पाoसूo6-3-42) इत्यतिदिश्यमानः पुंशब्दो वतण्डापत्यवाचिनो वतण्डीशब्दस्य तदपत्यवाची वातण्ड्यशब्दो भवति।
     गुणतो यथा--पाकः। त्यागः। ``चजोः कुघिण्ण्यतोः (पाoसूo7-3-52) इति चकारस्याल्पप्राणस्याघोषस्य तादृश एव ककारः। जकारस्य तु घोषस्याल्पप्राणस्य नादवतः स्थाने तादृगेव गकारः।
     प्रमाणतो यथा---अमुम्। अम्। अमून्। ``अदसोऽसेः (पाoसूo8-2-80) इत्यनेन हस्वस्य हस्वो दीर्घस्य दीर्घ उकारः।
     इह स्थाने इत्यनुवर्तमाने पुनः स्थानेग्रहणादन्योऽपि वाक्यार्थः सम्मतः। ताल्वादिरुपे स्थान योऽन्तरतमस्तत्प्रयुक्तान्तर्यवानिति यावत्। स प्राप्यमाणानां मध्ये स्यादिति। तदुक्तम्--``यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः इति। तेन `चेता' `स्तोता' इत्यादौ प्रमाणत आन्तर्यवानप्यकारो न भवति। वाक्यभेदे च तमब्‌ग्रहणमेव लिङ्गम्। एकस्मिन्नेव वाक्यार्थे संमते हि ``स्थानेऽन्तर इत्येव ब्रूयात्। सिद्धान्ते तु `वाग्घरिः' इत्यादौ ``सोष्मणः सोष्माणः इति द्वितायाः प्रसक्ताः ``नादवतो नादवन्त इति तृतीयाः प्रसक्ताः, तमब्‌ग्रहणात्तु चतुर्था भवन्ति। ते हि सोष्माणो नादवन्तश्च। ऊष्मा ऊष्मत्वं वर्णधर्मस्तत्सहिताः सोष्माणः। तथा च बह्वृचानां प्रातिशाख्यम्- ``वर्गे वर्गे च प्रथमावघोषौ युग्मौ सोष्माणावनुनासिकोऽन्त्यः (ऋoप्राo1-3) इति। ``शादय ऊष्माणः सस्थानेन द्वितीया हकारेण चतुर्थाः इति शिक्षा। इह त्रीणि वाक्यानि। उष्मशब्दश्च धर्मिवचनः। शषसहा उष्माण इति प्रथमवाक्यार्थः। सस्थानेनेति ``इत्थंभूतलक्षणे तृतीया (पाoसूo2-3-21)। हशषसाः क्रमेण ख-छ-ठ- थानां द्वितीयानां सस्थानाः। यथा हादय उष्माणस्तथैव खादयोऽपीत्यर्थः। प्रकारस्य तु यद्यपि सस्थान ऊष्मा नास्ति तथापि तस्य विशिष्यैव ऊष्मत्वं बोध्यम्। हकारेण चतुर्था इति। यथा हकार ऊष्मा एवं तेऽपीत्यर्थः। नन्वेवम् `इष्टः' `उप्तः' इत्यादावान्तर्यादर्धमात्रस्य यणः स्थाने अर्द्धमात्र इक् स्यात्। `दध्यत्र' `सुध्युपास्यः' इत्यादौ तु मात्रिकद्विमात्रिकयोरिकोस्तथाविध एव यण् स्यादिति चेत्? न, अर्द्धमात्रस्येको मात्रिकद्विमात्रिकव्यञ्जनस्य च लोकवेदयोरप्रसिद्धत्वात्। योस्ति स एव भविष्यति।
     इह भाष्ये अन्तरतम इति सप्तम्यन्तपाठोऽप्युपन्यस्य दूषितः। तथाहि, ``अन्तरतमउरण् रपरः इति संहितया तावत्सूत्रकृदपाठीत्। पदकारास्तु व्याख्यातारः। तत्र सप्तम्यन्तमपि शक्यं छेत्तुम्। षष्ठीति चानुवर्त्तते। अन्तरतमे स्थानिनि षष्ठी उपसंहर्त्तव्ये****सूत्रार्थः। एवं च ``अक सवर्णे दीर्घः (पाoसूo6-1-101) इत्यत्र ******** दीर्घस्यान्तरतमे स्थानिन्यक इति षष्ठ्या उपसंहारत्सिद्धमिष्टम्। तथा ``वान्तो यि प्रत्यये (पाoसूo6-1-79) इत्यत्र एच इत्यनुवृत्तायाः षष्ठ्या वान्ता देशस्यान्तरतमयोरोदौतोरुपसंहारात्सिद्धम्। अन्यथा एज्मात्रस्य वन्तादेशः स्यात्।
     अत्रेदं दूषणम्--``इको यणचि (पाoसूo6-1-77) इति यण् हस्वानामेव स्यान्न तु दीर्घाणाम्। अर्द्धमात्रस्य हि मात्रिकः सन्निकृष्ट इति तत्रैवेकिति षष्ठ्या उपसंहारात्। तथा ``इको गुणवृद्धी (पाoसूo1-1-3) ``अचोञ्णिति (पाoसूo7-2-225) इति षष्ठ्योर्गुणवृद्ध्योरन्तरतमेष्वेव इक्ष्वक्षु चोपसंहारात् `नेता' `लविता' `नायकः' `लावकः' इत्यादावेवस्यात्। `चेता' `स्तोता' `चायकः' `स्तावकः' इत्यादौ तु न स्यादितिदिक। तदेवं सप्तम्यन्तपक्षस्य दुष्टत्वात्प्रथमान्तपक्ष एव युक्त इति स्थितम्।
     स्यादेतत्, एवं सति एज्मात्रस्य वान्तादेशः स्यादिति चेत्? अत्राहुः--पूर्वसूत्रे तावद्यथासंख्यं प्रवृत्तम्। अन्तरतमपरिभाषा वा। अर्थाधिकारश्चेहाश्रीयते। यादृशो वान्तादेसः पूर्वं दृष्ट ओकारस्थानिकोऽव् औकारस्थानिकश्चाव् तादृशो यि प्रत्यये भवतीति सूत्रार्थः। यद्वा, वान्त इति न करिष्यते। न चैवं `चेयं' `नेयम्' इत्यादावति प्रसङ्गः ``क्षय्यजय्यौ (पाoसूo6-1-81) इति योगो विभज्यते कण्ठता लब्यस्य चेद्बवति क्षिज्योरेवेति नियमपरतया व्याख्यानात्। क्षिज्योः शक्यार्थ एवेति द्वितीयसूत्रार्थः। तेनार्हाद्यर्थे तयोरपि नेति बोध्यम्। नन्वेवमपि शार्ङ्गरवादिगणपठितेन ``नृनरयोर्वृद्धिश्च (गoसूo125) इति सूत्रेण नरशब्दस्य `नारी' इति रूपं न सिद्ध्येत्। तता हि, नरशब्दस्य ङीन्संनियोगेन विधीयमाना वृद्धिः ``अलोऽन्त्यस्य (पाoसूo1-1-52) इत्यन्त्यस्य स्यात्। तथाच ``यस्येति च (पाoसूo 6-4-148) इति लोपेन तस्यानिवृत्तौ वृद्धिवचनं व्यर्थं स्यात्। न च नृशब्दार्थं तदिति वाच्यम्,एवं हि सति `नुर्वृद्धिश्च' इत्येव ब्रूयात्। न च नरशब्देऽपि परत्वाद् ``यस्य (पाoसूo6-4-148) इति लोपे कृते वृद्धिर्भवन्ती नानर्थिकेति वाच्यम्, प्रत्ययसन्नियोगशिष्टत्वेन वृद्धेरन्तरङ्गत्वात्। ननु वचनसामर्थ्याद्वृद्ध्या लोपो बाध्यताम्, आहो स्विदन्तरङ्गपरिभाषां बाध एव न्याय्यः। तदुक्तम् ``अङ्गगुणविरोध च तादर्थ्यात् (जैoसूo 12-2-9-25) इति। किञ्च ``वाह ऊठ् (पाoसूo6-4-132) इत्यत्र ज्ञापितत्वेनानुमेयायाः परिभाषाया एव बाधेनोपपत्तौ साक्षाच्छ्रुतस्य ``यस्य (पाoसूo6-4-148) इत्लोपस्य बाधोऽनुचितः। तथाच लोपे कृते वृद्धिरिति सिद्धं `नारी' इति रूपमिति चेत्? सत्यं सिद्धं, किन्तु सप्तम्यन्तच्छेदपक्ष एव। तत्र हि प्रकृतितोऽन्तरतमनिर्वृत्तिरिति वृद्ध्यन्तरतमे स्थानिनि षष्ठ्या उपसंहारात् अकारस्य वृद्धिर्भवति। प्रथमान्तच्छेदपक्षे त्वादेशतोऽन्तरतमनिर्वृत्तिरिति ``अलोऽन्त्यस्य (पाoसूo1-1-52) इति वचनाद्रेफस्य स्यात्। तस्मात्सिद्धान्ते `नागी' इति रूपं नरशब्दस्य दुःसाधमिति पूर्वः पक्षः।

     अत्राहुः--नरशब्दपाठस्य प्रत्याख्यानमेव भाष्यकृतोऽभिप्रेतं सप्तम्यन्तपक्षनिराकरणभाष्येण तथैवानुमानात्। न चैवंनरशब्दाज्जातिलक्षणङीषि सति `नरि' इति रूपं स्यादिति वाच्यम्, इष्टापत्तेः। तथाच प्रयुज्यते ``किन्नरीणां नागीणाम् इति। यद्वा,नरशब्दस्य नियतपुल्लिंगत्वमेवास्तु। तथाच क्वातिप्रसङ्गः? उक्तप्रयोगसर्तु पुंयोगलक्षणे ङीषि भविष्यति, यथान्यासेऽपि तस्य दुर्वारत्वात्। अथवा ``नृनरयोः (गoसूo125) इत्यत्रात इति वर्त्तते ``अजाद्यतष्टाप् (पाoसूo4-1-4) इति सूत्रात्। तच्चानुवृत्तिसामर्थ्यात्षष्ठ्या विपरिणतं नरशब्देन सह वैयधिकरण्येन सम्बध्यते, न तु नृशब्देन, असम्भवात्। तस्मात्सिद्धं `नारी' इति।
     अत्रेदं वक्तव्यम्। प्रत्याख्यायतां नाम नरशब्दः ``नृनरयोः (गoसूo125) इति पठतः सूत्रकृतो मते तु कथमुक्तिसम्भवः? न च `नरी' इत्येवेष्टमिति वाच्यम्, वृद्धिविदायकसूत्रमध्ये नरशब्दपाठस्य वैफल्यापत्तेः। अत इत्यनुवृत्त्या समर्थनमपि क्लिष्टम्, एकदेशानुवृत्तिविभक्तिविपरिणामाद्याश्रयणात्। किञ्च `नृनरयोः' (गoसूo125) इति गणपाठे पठ्यते, न त्वष्टाद्याय्याम्। गणे चात इति न प्रकृतम्। तथा `शार्ङरवाद्यञः (पाoसूo4-1-73) इत्यादिशब्देन गणसूत्रमपि हृदयमागमय्य तत्रात इत्यस्यान्वयो वाच्यः, चस क्लिष्टतर इति स्पष्टमेव। तस्मादित्थं समाधेयम्-नर इति रान्तं लुप्ताकारनुकरणं तस्य अः नरः। नुश्च नरस्येवेति द्वन्द्वः। चाद्गणे पाठाच्च ङीन्। यद्वा, ``स्थानेऽन्तरतमः (पाoसूo1-1-50) इत्यत्र तन्त्रेण द्वेधा छेदः सुत्रकृतः सम्मतः, भाष्योक्तरीत्या लौकिकन्यायाश्रयणेन सूत्रप्रत्याख्यानपक्षेऽपि हि प्रकृतित आदेशतश्चेत्युभयथाप्यन्तरतमनिवृत्तिरस्त्येव। सूत्रकृतो मते वाचनिकी सा। भाष्यकृतस्तु न्यायसिद्धेत्यन्यदेतत्। तथा च ``वान्तो यि (पाoसूo6-1-79) ``नृनरयोः (गoसूo125) इत्यादि सर्वं सुस्थमेव। अत एव चतुर्थे स्थानितोऽन्तरतमनिवृत्तिमाश्रित्य `नारी' इति रूपं साधयन्हरदत्तोपि न विरुध्यते । ``इको यणचि' (पाoसूo6-1-77) इत्यादावतिप्रसह्गः परमवशिष्यते। स च ``ल्वादिभ्यः (पाoसूo8-2-44) ``प्वादीनां हस्वः (पाoसूo7-3-80) इत्यादिज्ञापकेन वाचनिक्या न्यायमूलिकाया वा स्थानितोन्तरतमनिवृत्तेरनित्यतामाश्रित्यपरिहर्त्तव्य हति दिक्।
     सुत्रप्रत्याख्यानप्रकारस्तूच्यते।सबायामास्यतामित्युक्ते हि पण्डिताः पण्डितैः सह समासते, सूराः सूरैः कवयः कविभिः, न तु सङ्करेण। किं बहुना गवां सङ्घं प्रति गौर्धावति, अश्वोऽश्वानामित्यादिव्यवस्था तिर्यक्ष्वपि दृश्यते। तस्मात्प्रथमवाक्यार्थस्य लोकत एव लाभान्न तदर्थं सूममारम्भणीयम्। एवं ``स्थानत आन्तर्यं बलीयः (पाoभाoए13) इत्यपि लोकत एव सिद्धम्। तथाहि, भूयः सहचरितयोरश्वयोर्गवोर्वा सजातीयान्तरसम्बलने सत्यपि कृशत्वपाण्डुत्वादिगुणसदृशानपि हित्वा स्थानसाम्यपुरस्कारेणैव परस्परापेक्षा दृश्यते। तदेवं लोकतः सिद्धे किं वचनेनेति ।।

उरण् रपरः (पाoसूo1-1-51)।
ऋवर्णस्य स्थाने यो ऽण् स प्रसङ्गावस्थायामेव रप्रत्याहारपरस्स्यात्। ऋकारेण सावर्णायार्त्रिंशत उपस्थाने सति स्थानेऽन्तरतमपरिभाषया रश्रुतिमतः स्थाने रपरो लश्रुतेस्तु लपर इति विवेक्तव्यम्। `कृष्णार्द्धिः' `तवल्कारः'। ऋलृस्थाने योऽण् इति ग्रन्थस्तु यथासंख्यभ्रमापादकोऽसङ्गतश्च, शब्दतः साम्येनाभिमतानिर्वाहात्। न हि सूत्रे शब्दद्वयमस्ति। अर्थतस्तु नतरां साम्यम्। अथात्र न यथासंख्यमभिमतं तर्हि किं वृत्तिमध्ये द्वयोरेव विशिष्योल्लेकनेन? आ च आ च रलौऋलोः स्थानमिति विग्रहे उश्च उल् च ऋलोरितिविग्रहे वा द्वन्द्वस्य दुर्लभत्वाच्च। स हि ``विरूपाणामपि समानार्थानाम् (काoवाo) इत्येकशेषेण बाध्यते। चित्रगुशब्दस्य चित्रगवीपरतायामिव साधुत्वनिर्वाहार्थं लक्षणमाश्रित्य लक्षितलक्षणया शक्यार्थे पर्यवसानमिति कथञ्चिन्निर्वाहस्तु ग्रन्थे श्रद्धालुभिरास्थेय इति दिक्।
     अत्र पक्षचतुष्टयं सम्भाव्यते-उः--स्थाने रपरो ऽण् स्यादिति रपरत्वविशिष्टो ऽण् विधीयत इति प्रथमः पक्षः। उः स्थाने अमामनणां च प्रसङ्गे अणेवेति नियमः। स च रपर इति वाक्यभेदेन रपरत्वं विधीयत इति द्वितीयः पक्षः। उः स्थाने योऽणित्यनूद्य तस्य रपरत्वं विधीयत इति तृतीयः पक्षः। प्रसङ्गावस्थायामेव रपरत्वं विधीयत इति चतुर्थः। तत्राद्ये पक्षे नाप्राप्तेषूदात्तादिषु विधीयमानोऽण् तेषां बाधकः स्यात्, तैरनवरूद्धस्य विषयस्यालाभात्। एवं तदा वचनव्यक्तिः--षष्ठीनिर्दिष्टमात्रस्य भवन्नादेशोऽन्तरतमः स्यात्, ऋवर्णस्य त्वण् रपर इति। ततश्चोदात्तानुदात्तस्वरितानुनासिकेषु दोषः। तथाहि, `कृतिः' इत्यत्र ``ञ्नित्यादिर्नित्यम् (पाoसूo6-1-197) इति प्राप्तम् ऋकारं बाधित्वाऽण् रपरः स्यात्। तथा `प्रकृतं' `प्रहृतम्' इत्यत्र ``गतिरनन्तरः (पाoसूo6-2-49) इति पूर्वपदप्रकृतिस्वरे कृते शेषनिधातम् ``उदात्तादनुदात्तस्य (पाoसूo7-4-66) इति स्वरितं च बाधेत। तथा `नॄःपाहि' इत्यत्र ``नॄन्पे (पाoसूo7-3-10) इति ज्ञापकात्पूर्वसवर्णदीर्घसम्भवेऽप्यनुनासिकं बाधित्वाऽण् रपरः स्यात्। किञ्च `कर्त्ता' `कारकः' इत्यत्र गुणवृद्धी बाधित्वाऽण् भवन्नकार एवेति नियमाभावात् कदाचिदिकार उकारश्च स्यात्। अपिच येऽमी प्रतिपदोक्ता इत्वोत्वादय ``ऋत इद्धातोः (पाoसूo7-1-101) ``उदोष्ठ्यपूर्वस्य (पाoसूo7-1102) इति तेषु रपरत्वं न स्यात्। द्वितीये तु गुणवृद्ध्योर्न दोषः, अणनणोः प्रसक्तावणेवेति नियमेन `कर्त्ता' `कारकः' इत्यादिसिद्धेः। ननु हस्वेस्थानिनि सर्वा वृद्धिरनन्तरतमा `तारकः' इत्यादौ दीर्घे तु सर्वाऽपि प्रमाणतोऽन्तरतमेत्यविशेषादुभयत्रापि सकलवृद्धिप्रसङ्गे नियमोऽस्तु, गुणस्तु `कर्त्ता' इत्यादौ मात्रिक एव प्राप्तः। `तरिता' इत्यादौ द्विमात्रस्य तु द्विमात्र एङेव प्राप्तः। तथाच अणनणोः प्रसङ्गाभावेन नियमाप्रवृत्तौ दीर्घेष्वेङेव स्यात्। हस्वेषु त्वकारो बवन्नपि रपरो न स्यात्। यो हि प्रथमवाक्येनाणेवेति नियम्यते, तस्येदं द्वितीयेन रपरत्वं विधी यते। तथाच गुणे दोषोऽस्त्येवेति चेत्? ``चजोः कुघिण्ण्यतोः (पाoसूo7-3-52) इत्यादौ सावकाशायाः स्थानेन्तरतमपरिभाषाया वृद्धिविधौ चरितार्थयापि ``उरण्‌रपरः (पाoसूo1-1-51) इत्यनया गुणप्रसङ्गे रपरत्वेन बाध्यत्वात्। तस्माद् द्वितीयपक्षे गुणवृद्ध्योर्न कश्चिद्दोष इति स्थितम्। उदात्तादिषु दोषस्तु स्यादेव। तथा प्रतिपदोक्तेष्वित्वादिष्वपि। तृतीये तूदात्तादिषु न दोष, तत्तद्विधिभिरन्तरतमपरिभाषासंस्कृतैर्ऋवर्णस्यैव विधानात्। `किरति' इत्यादावपि न दोषः। गुणवृद्ध्योस्तु दोष एव। तथाहि, आन्तर्यतो मात्रिकस्य मात्रिके गुणे रपरत्वे च `कर्त्ता' इत्यादि यद्यपि सिद्ध्यति, तथापि `तरिता' इत्यादावेङेव स्यात्तथा अविशेषाद् वृद्धित्रयेऽपि प्रवृत्ते अकारस्याण्‌त्वाद्रपरत्वे कृते `फारकः' `तारकः' इत्यादि यद्यपि सिद्ध्यति `तधापि कायकः' `तावकः' इत्याद्यनिष्टमप्यापधते। यत्तु पूर्वसूत्रे भा,्यकारैरिमं पक्षमाश्रित्य समाहितम्--``अनान्तर्यमेवैतयोरान्तर्यम् इति। यच्च तत्रैव वार्त्तिक कारैरुक्तं ``सम्प्रयोगो वा नष्टाश्वदग्धरथवद् इति। तदुभयमपि पाक्षिकं बोध्यम्। तथाहि, यदा ऋत्वजात्यवच्छिन्नस्य कोऽन्तरतम इति परीक्ष्यते अत्वजात्यवच्छिन्नश्च कस्येति तदाऽनुरुपप्रतिसम्बन्धिराहित्येनैव धर्मेणैतयोरान्तर्यम्। न ह्यान्तर्यं चतुर्द्धेति मुनित्रयोक्तिरस्ति प्रत्युत ``सोष्मणः सोष्माणः इति भाष्याद् वृत्तेश्चानियम एव लभ्यते। एवञ्च नष्टाश्वदग्धरथन्यायोऽपि जात्यवच्छेदेन परीक्षायामेव। व्यक्तिपुरस्कारेण परीक्षायां तूक्तरीत्या दुष्टोऽयं पक्ष। तथाचात्र सूत्रे वार्त्तिकम्--``य उस्सथाने ऽण् स रपर इति चेद् गुणवृद्ध्योरवर्णाप्रतिपत्तिः इति। किञ्चास्मिन्पक्षे क्व रेफपरत्वं क्व वा लकारपरत्वामिति व्यवस्थापि दुरुपपादा स्यात्। ``स्वतन्त्रः कर्ता (पाoसूo1-4-54) इति निर्देशान्न विनिमयो ``ग्रो यङि (पाoसूo8-2-20) ``अचि विभाषा (पाoसूo8-21) इत्यारम्भाच्च न विकल्प इति समर्थनेऽपि प्रतिपत्तिगौरवं स्यादेव। रेफस्य पूर्वान्ततां साधयितुम् ``आद्यन्तौ (पाoसूo1-1-46) इति सूत्रात्समासैकदेशभूतमन्तग्रहणमनुवर्त्यं तस्य रपर इत्यन्यपदार्थविशेषणीभूतेन रेफान्वयश्च वाच्य इति महाहान्क्लेशः। चतुर्थपक्षे तु नैतदुपयुज्यते इति वक्ष्यामः। तस्मान्निर्दोषत्वाच्चतुर्थपक्ष एवाश्रितः। स चेत्थमुपपादनीयः। स्थानशब्दद्वयमिहानुवर्त्तते तत्रेकमुः स्थाने योऽणित्यनुवादेऽपि स्थानसम्बन्धलाभाय। द्वितीयं तु प्रसङ्गावस्थायामेव रपरो भवतीति कालविधानार्थम्। स्थानेन्तरतमसूत्रे स्थानशब्दस्य ताल्वादिपरत्वेऽपि शब्दाधिकाराश्रयणादिह प्रसङ्गपरत्वं बोध्यम्। एवञ्च गुणवृद्ध्योः प्राप्त्यवस्थायामेवाणो रपराः सम्पन्ना इति प्रमाणतोऽन्तरतमावैङावैचौ बाधित्वा स्थानतोन्तरतमोऽणेव भवतीति न कश्चिद्दोषः।। एवमुदात्तादिविधिष्वप्यन्तरतमत्वादृकारो भवति न तु अर् इर् इत्यवधेयम्। न चैवं `कर्त्ता' इत्यादावनेकाल्त्वात्सर्वादेशप्रशङ्गः, आनुपूर्व्येण सिद्धत्वात्। तथाहि, ऋस्थानित्वमुपजीव्य प्रवृत्तं रपरत्वं सर्वादेशतां नापादयति, उपजीव्यविरोधात्। तथाच पूर्वसूत्रे वार्त्तिकम्--``सर्वादेशप्रसह्गस्त्वनेकाल्त्वात्। न वाऽनेकाल्त्वस्य तदाश्रयत्वादृवर्णादेशस्याविघातः इति।
     अण्‌ग्रहणं किम्? रीङ्‌रिङादीनां रपरत्वं मा भूत्। मात्रीयति। क्रियते। तता ढकि लोपोऽपि रपरः स्यात्। ``एवेच सूत्रवैयर्थ्यापत्तौ सामर्थ्यादनेनालोन्त्यविधिं बाधित्वा सर्वादेशः स्यात्। तथा `होतापोतारौ' इत्यत्राऽनङोऽपि रपरत्वे संयोगान्तलोपे च कृते तस्यासिद्धत्वान्नलोपो न स्यादिति दिक्।
     अथ यो रिङादिष्वण् स रपरः कुतो नेति चेत्? अनादेशत्वात्। आदेशत्वं हि समुदाये विश्रान्तम्। न चैवं `कृष्णर्द्धिः' इत्यादै रपरत्वं न स्यात्पूर्वपरसमुदायस्य स्थानित्वादिति वाच्यम् पूर्वपर**रिति द्विवचननिर्देशेन सहि*योरवयवयोरेव स्थानित्वावगमात्। अत एव द्बयोः स्थानिनोर्भिन्नादिषु नत्ववद् द्वावादेशौ मा भूतामिति तत्रैकग्रहणं कृतम्। तस्मादृकारस्यापि स्थानित्वमस्त्येव। तदुक्तम्--``यो त्द्युभयोः स्थाने भवति ळबतेऽसावन्यतरतो व्यपदेशम् (भाष्यo) इति। तस्मादेकादेशेऽपि रपरत्वं भवतीति स्थितम्।
     स्यादेतत्। उक्तरीत्या ``ऋत उत् (पाoसूo6-1-11) इत्युकारादेसस्यापि रपरत्वं स्यात्। तथा च विभक्तिसकारस्य रुत्वे कृते पूर्वस्य ``रोरि (पाoसूo8-3-14) इति लोपे ``ढ्रलोपे (पाoसूo6-3-111) इति दीर्घेण मातूः पितूरिति प्राप्नोतीति चेत्? मैवम्, रुत्वस्यासिद्धत्वेन ``रात्सस्य (पाoसूo8-2-24) इति सकारलोपे रेफस्य विसर्गेण रूपसिद्धेः। नन्वेवं `मातुःकार्यम्' इत्यत्र षत्वं स्यात्। `` इदुदुपधस्यचीप्रत्ययस्य (पाoसूo8-3-41) इति सूत्रात्। न चायं प्रत्ययविसर्जनीय एवेति वाच्यम्, अकारस्य प्रत्ययावयवत्वेऽप्यप्रत्ययतया तदादेशस्य सुतरामतथात्वादिति चेत्? उच्यते, ``ऋत उत् (पाoसूo6-1-111) इत्येकादेशस्य परादिग्रहणेन ग्रहणादस्ति तावत्सान्तस्य प्रत्ययसञ्ज्ञा सकारे लुप्ते त्ववशिष्टस्यैव प्रत्ययसञ्ज्ञा एकदेशविकृतस्योपसंख्यानात् स्थानिवदादेश इत्यत्रादेशग्रहणाद्वा। अत एव यङो यकारे लुप्ते अकारस्य प्रत्ययसञ्ज्ञेत्युक्तम्। तथाचाप्रत्ययस्येति षत्वनिषेधः सिद्धः। न चैवं प्रत्ययावयवस्थानिकत्वेऽपि प्रत्ययस्थानिकत्वाभावात् षत्वं स्यादेवेति वात्यम्, अप्रत्ययस्येत्यनुवादे परिभाषानुपस्थानेन स्थानेयोगस्य दुर्लभत्वात्। अवयवावयविभावस्य षष्ठ्यर्थत्वसम्भवात्। नन्वप्रत्ययस्येति पर्युदासः तथाच पूर्वान्तत्वेनैकादेशग्रहणात्षत्वं स्यादेव। किञ्च प्रसज्यप्रतिषेधपक्षेऽपि सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वात् अप्रत्ययो यो विसर्गस्तस्य षत्वं स्यादिति वाक्यार्थः। तथा च `अग्निः करोति' इत्यादौ स्थानिवद्भावेनि विसर्गस्य प्रत्ययत्वान्मा भूत् षत्वम्। `मातुःकार्यम्' इत्यादौ तु स्यादेवेति चेत्? इहेदं तत्त्वम्--कस्कादिषु ब्रातुष्पुत्रशब्दस्य पाठो ज्ञापक एकादेशशास्त्रेण निर्वृत्तात्परस्य षत्वं न स्यादिति। यद्वा, प्रसज्यप्रतिषेधवैयधिकरण्यान्वयावेव ज्ञाप्येते। यत्तु भाष्यं ``लुप्यते प्रत्ययो रात्सस्य इति। यच्च कैयटकृतं तद्व्याक्यानम्--``उत्वे कृतेऽवशिष्टः सकार एव प्रत्ययसञ्ज्ञः स च लुप्तः इति। तदुभयमपि चिन्त्यम्, इह ``सिद्दं तु प्रसङ्गे रपरत्वात् इति पक्षे यद्यप्यरारादिरुपेण विधानादभक्तत्वादिशङ्कैव नास्ति तथापि सम्प्रयोगे वेति पूर्वसूत्रोक्तरीत्या कृतीयपक्षमाश्रित्य भाष्ये पक्षत्रयं चिन्तितम्। तत्राभक्तत्वपक्षे परादित्वलपक्षे च `वव्रे' इत्यादावुरदत्वे रपरत्वे च कृते हलादिः शेषेण रेफो न निवर्त्तेत, अभ्यासावयवस्यानादेर्हल एव तेन निवर्त्तनात्। तस्मादन्तग्रहणमनुवर्त्य पूर्वान्तपक्ष एवेह स्तापित इति सङ्क्षेपः।
अलोऽन्त्यस्य (पाoसुo1-1-52)।
स्थानषष्ठीनिर्दिष्टस्य यदुच्यते तत्तदन्त्यस्यातलः स्थाने बोध्यम्। ``त्यदादीनामः--(पाoसूo7-2-102) सः, यः। स्थानषष्ठीति किम्? आर्द्धधातुकस्येट् तृचऋकारात्‌पूर्वो मा भूत्। इदं च ``षष्ठी स्थानेयोगा (पाoसूo1-1-49) इति सूत्रस्यानुवृत्तेर्लभ्यते। अल इति किम्? ``पदस्य (पाoसूo7-1-16) इत्यधि कृत्य विधीयमानं ``वसुस्रंसु (पाoसूo8-2-72) इति दत्वं `परमानडुद्भ्याम्' इत्यदावन्त्यस्य पदस्य मा भूत्। एतेनाल इति जसन्तमाश्रित्यालात्मका आदेशा अन्त्यस्य स्युरिति व्याचक्षाणाः परस्ताः, अन्त्यस्य पदस्यापि प्रसङ्गत्। किञ्चैवं लाघवार्थमलन्त्यस्येत्येव सूत्रयेत्। अपि च ``अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपः (पाoसूo5-4-51) ``पादशतस्य संख्यादेः (पाoसूo5-4-1) इति लोपो ढकि लोपश्च सर्वादेशः स्यात्। ततश्च `विरजीकरोति' इत्यादि न सिध्येत्। यत्तु अल इति जसन्तमिति पक्षे ``अनेकाल्शित्सर्वस्य (पाoसूo1-1-55) इति सूत्रे अनेकाल्‌ग्रहणं न कर्त्तव्यमिति लाघवोपवर्णनं, तदपि न, षष्ठीति पक्षेऽपि ``ङिच्च इत्यत्र ङिदेवानेकाल् अन्त्यस्य स्यात्, न तु अङिदपीति नियमाश्रयणेनानेकाल्‌ग्रहणप्रत्याख्यानसम्भवात्। वस्तुतस्तु पक्षद्वयेऽप्यनेकाल्‌ग्रहणं कर्त्तव्यमेव। अन्यथा ``अतो भिस ऐस् (पाoसूo7-1-9) इत्यादिपञ्चमीनिर्देसेष्वनेकालप्यादेशः परस्यादेः स्यात्। सत्यनेकाल्‌ग्रहणे परत्वात्सर्वादेशः। अत एव ``तस्मादित्यत्तरस्यादेः इति न सूत्रितम्। तथाहि, ``अलोऽन्त्यस्य (पाoसूo1-1-52) इत्यस्य द्वावपवादौ- ``आदेः परस्य (पाoसूo1-1-54) ``अनेकाल्शित्सर्वस्य (पाoसूo1-1-55) इति। तत्र प्रथमस्यावकाशः--``ईदासः (पाoसूo7-2-83) ``बहोर्लोपः (पाoसूo6-4-158) इति। आसीनः `भूयान्'। द्वितीयस्यावकाशः--``अस्तेर्भूः (पाoसूo2-4-52) इत्यादि। ``अतो भिस (पाoसूo7-1-9) ित्यादेः परत्वात्सर्वादेशत्व सिद्धं `रामैः' इत्यादि न च ``आदेः परस्य (पाoसूo1-1-54) इत्यत्राल इति जसन्तमनुवर्त्य `रामैः' इत्यादि साधनीयमिति वाच्यम्, तथा सति `भूयान्' `भूमा' इत्याद्यसिद्ध्यापत्तेः। तदेवं कार्यस्यान्तयेल्यनुसंहारे व्याख्यातः ``ङिच्च (पाoसूo1-1-53) इत्याद्यग्रिमसन्दर्भानुगुणत्वात्। यद्वा, षष्ठ्या एवायमनुसंहारः। या स्थानेयोगा षष्ठी साऽन्त्यस्यालो बोध्योति। अत्र पक्षे ``ङिच्च (पाoसूo1-1-53) इत्यस्यायमर्थः--यत्र ङिदादेशो विधीयते तत्र या षष्ठी सा सन्त्यस्याल इति। एवमग्रेऽपि।

ङिच्च (पाoसूo1-1-53)।
ङिदनेकालप्यन्त्यस्य स्यात्। दध्ना। दध्ने। अनन्यार्थङित्त्वेष्वनङादिषु चरितार्थमिदं तातङि परेण ``अनेकाल्शित्सर्वस्य (पाoसूo1-1-55) इत्यनेन बाध्यते। ननूत्सर्गापवादयोरयुक्तो विप्रतिषेध इति चेत्? सत्यम्, सर्वादेशेऽपि तातङि गुणवृद्धिप्रतिषेधरूपं प्रयोजनं सम्बाव्यते। तावता च किञ्चिद्विलम्बन प्रवृत्तोऽयमपवादोऽप्यस्मिन्विशषये उत्सर्गेण समकक्षतामापन्न इति युक्तो विप्रतिषेधः। यद्वा, ``एरु (पाoसूo3-4-86) इत्यस्यानन्तरं `तिह्योस्तात्' इति वक्तव्ये ङित्करणं गुणवृद्धिप्रतिषेधार्थमेवेति विप्रतिषेधोपपत्तिः। अस्तु वा विनाऽपि विप्रतिषेधं सर्वादेशः प्रदर्शितस्य गुणवृद्धिप्रतिषेधार्थत्वस्य सर्वादेशतामन्तरेणानुपपत्ते ।।

आदेः परस्य (पाoसूo1-1-54)।
परस्य यद्विधीयते तदादरलो बोध्यम्। ``ईदासः (पाoसूo7-2-83)। अत्र ``तस्मादित्सुत्तरस्य (पाoसूo1-1-67) इत्युपतिष्ठते। तेनादेरीकारः, आसीनः ।।

अनेकाल् शित्सर्वस्य (पाoसूo1-1-55)।
अनेकाल् आदेशः शिछ्च सर्वस्य स्यात्। ``अस्तेर्भूः (पाoसूo2-4-52) भविता। ``इदम इस् (पाoसूo5-3-3) इतः। ``ङिच्च (पाoसूo1-1-53) इतिक नियमात्सिद्धेऽनेकाल्ग्रहणमपवादविप्रतिषेदार्थामित्युक्तम्। यत्तु वृत्तिकारैः ``जश्शसोः शिः (पाoसूo7-1-20) इति शित उदाहरणं दत्तम्। तच्चिन्त्यम्, सर्वादेशतां विना तत्र शित्त्वस्यैवालाभात्। सर्वादेशतायाश्चानुपूर्व्यादनेकाल्त्वेनैव णल्डादेसादिष्विव सिद्धत्वात्। तथाहि, णल्‌डाशिप्रभृतयो यदा सर्वादेशास्तदा प्रत्ययसंज्ञाः। ततः प्रत्ययादित्वप्रयुक्ता इत्संज्ञा। ततो लोपः। तत एकाल्त्वे सत्यपि न सर्वादेशत्वक्षतिःक उपजीव्यविरोधापत्तेः। अत एव हि `कर्ता' इत्यादौ न सर्वादेशतेत्युक्तम्। शकारेणानुबन्धेन इश्प्रभृतीनामनेकाल्त्वादेव सिद्धे शिद्ग्रहणं ``नानुबन्धकृतमनेकाल्त्वम् (पoभाo6) इति ज्ञापनार्थम्। तेन ``दिव उत् (पाoसूo6-1-131) ``अर्वणस्त्रसौ (पाoसूo6-4-127) इत्यादेर्न सर्वादेशतेति बोध्यम्। ननु कथं ज्ञापकता ``घ्वसोरेद्धावभ्या सलोपश्च(पाoसूo6-4-119) इत्येतदर्थतया शिद्ग्रहणस्य चरितार्थत्वात्। तत्र हि लोपश् इति छिद्यते संज्ञायां च कृतं शित्त्वं तत्रानुपयुक्तं सत्संज्ञिनि फलति, ङमुटष्टित्त्ववदिति सिद्धान्त इति चेत्? सत्यम् ``अनेकान्ता अनुबन्धाः (पoभाo4) इति पक्षए ``नानुबन्धकृतमनेकाल्त्वम् (पoभाo6) इत्यस्य प्रयोजनाभावात्तदभिप्रायको लोपशितिच्छेद इति सिद्धान्तः। एकान्ता इति पक्षे तूक्तरीत्या ज्ञापकमावश्यकम्। घ्वसोरित्यत्र तु लोप इत्येव छेदः। ``लोपो यि (पाoसूo6-4-118) इति कप्रकृते कपुनर्लोपग्रहणसामर्थ्यात्सर्वादेशः। वार्त्तिकमते तु ``नानर्थकेऽलोन्त्यविधिः (पoभाo105) इत्येव सिद्धम्। न चानब्यासविकारेष्विति पर्युदासस्यायं विषयः, लोपस्य विकारत्वाभावात्। रूपान्तरापत्तिर्हि विकारः। यथा ``भृञामित् (पाoसूo7-4-76) ``अर्त्तिपिपर्त्योश्च (पाoसूo7-4-44) इत्यादिः। अत एव पस्पशायां लोपो विकारात्पृथगुपात्तः ``लोपागमवर्णविकारज्ञो हि वेदं परिपालयिष्यति इति। उक्तं च ``पृषोदरादीनि (पाoसूo6-3-109) इति सूत्रे कैयटेन ``द्वौ चापरौ वर्णविकारनाशो इति। वस्तुतस्तूपदेशावस्थायामेवान्तरह्गतयेत्संज्ञा। अत एवोच्चरितप्रध्वांसिनोनुबन्धाःक स्मर्यमाणाः सन्त एव कार्यं निर्वाहयन्तीति सिद्धान्तः। इदं चोत्तरसूत्रे एव कैयटे स्फुटम्। तथाच ``दिव उत् (पाoसूo6-1-131) ``अर्वणस्तृ (पाoसूo6-4-127) इत्यादेरेकाल्त्वादेकान्तपक्षेऽपि न सर्वादेशता प्रसज्यते। एवञ्च् ``नानुबन्धकृतमनेकाल्त्वम् (पoभाo6) ``इदं किमोरीशकी (पाoसूo6-3-90) इतीशीशोस्तु शकारोच्चारणसामर्थ्यात्सर्वादेशतायाः प्राङ् नलोपः। यत्तु कृतेऽपि सर्वादेशे प्रयोजनाबावाच्छकारस्येत्संज्ञा न स्यादिति हरदत्तेनोक्तम्। तन्न, लोपस्यैव प्रयोजनत्वात्। न चैवमुच्चारणवैयर्थ्यं, सर्वादेशत्वसम्पादनेन कृतार्थत्वादिति दिक्। तस्मादिह सूत्रभाष्यकृतोरभिप्रायश्चिन्त्यः इह नानेकाल्शिदिति पठित्वा अन्त्यस्यादेरिति चानुवर्त्यानुसंहारद्वयनिषेधे सर्वस्येति सक्यमकर्तुम् ।।
     
     इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य प्रथमे पादे सप्तममान्हिकम् ।।
                   -----***-----