3015
स्वपक्षे परपक्षे वा तूष्णीं दण्डं प्रयोजयेत् ।
आपन्त्यां[१] च तदात्वे च क्षमाधानविशङ्कित ॥
इति योगवृत्ते पञ्चमाधिकरणे दाण्डकार्मिक[२] प्रथमोध्याय
आदित एकनवतिः
९० प्रक. कोशाभिसंहरणम्.
कोशमकोशः प्रत्युत्पन्नार्थकछु[३] सङ्ग्रहीयात् । जनपदं महान्त मल्पप्रमाणं वा देवमातृक प्रभूतधान्यं धान्यस्याशं तृतीयं चतुर्थं वा याचेत यथासारं मध्यमवरं वा दुर्गसेतुकर्मवणिक्पथ शून्यनिवेशखनिद्रव्यहस्तिवनकर्मोपकारिणं प्रत्यन्त[४] मल्पप्राणं वा न याचेत । धान्यपशुहिरण्यादि निविशमानाय दद्यात् । चतु- र्थमंशं धान्यानां बीजभक्तशुद्धं च हिरण्येन क्रीणीयात् । अर ण्यजातं श्रोत्रियस्वं च परिहरेत् । तदप्यनुग्रहेण क्रीणीयात् । तस्याकरणे वा समाहर्तृपुरुषा ग्रीष्मे कर्षकाणामुदापं कार- येयुः । प्रमदापन्न[५] सीत्यात्य द्विगुणमुदाहरन्तो वीजकाले वीज- लेख्यं कुर्यु ! निष्पन्ने हरितपक्वादानं वरयेयुः[६] अन्यत्र शाक- कटभङ्गमुष्टिभ्याम्। देवपितृपूजादानार्थ गवार्थं वा भिक्षुकग्राम भृतकार्थ च राशिमूलं परिहरयुः ।
3022 स्वसीत्यापहारिण. प्रतिपात्रो[७]डष्टगुणः । परसीत्यापहारिणः
पश्चाशद्द्गुण' सीतात्ययः । स्ववर्गस्य बाह्यस्य तु वधः ।