सूर्यसिद्धान्तः/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ९ सूर्यसिद्धान्तः
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →

उदयास्तविधिः प्राग्वत्कर्तव्यः शीतगोरपि ।
भागैर्द्वादशभिः पश्चाद्दृश्यः प्राग्यात्यदृश्यताम् ।। १०.०१ ।।

रवीन्द्वोः षड्भयुतयोः प्राग्वल्लग्नान्तरासवः ।
एकराशौ रवीन्द्वोश्च कार्या विवरलिप्तिकाः ।। १०.०२ ।।

तन्नाडिकाहते भुक्ती रवीन्द्वोः षष्टिभाजिते ।
तत्फलान्वितयोर्भूयः कर्तव्या विवरासवः ।। १०.०३ ।।

एवं यावत्स्थिरीभूता रवीन्द्वोरन्तरासवः ।
तैः प्राणैरस्तमेतीन्दुः शुक्ले +अर्कास्तमयात्परम् ।। १०.०४ ।।

भगणार्धं रवेर्दत्त्वा कार्यास्तद्विवरासवः ।
तैः प्राणैः कृष्णपक्षे तु शीतांशुरुदयं व्रजेत् ।। १०.०५ ।।

अर्केन्द्वोः क्रान्तिविश्लेषो दिक्षाम्ये युतिरन्यथा ।
तज्ज्येन्दुरर्काद्यत्रासौ विज्ञेया दक्षिणोत्तरा ।। १०.०६ ।।

मध्याह्नेन्दुप्रभाकर्णसङ्गुणा यदि सोत्तरा ।
तदार्कघ्नाक्षजीवायां शोध्या योज्या च दक्षिणा ।। १०.०७ ।।

शेषं लम्बज्यया भक्तं लब्धो बाहुः स्वदिङ्मुखः ।
कोटिः शङ्कुस्तयोर्वर्गयुतेर्मूलं श्रुतिर्भवेत् ।। १०.०८ ।।

सूर्योनशीतगोर्लिप्ताः शुक्लं नवशतोद्धृताः ।
चन्द्रबिम्बाङ्गुलाभ्यस्तं हृतं द्वादशभिः स्फुटम् ।। १०.०९ ।।

दत्त्वार्कसंज्ञितं बिन्दुं ततो बाहुं स्वदिङ्मुखम् ।
ततः पश्चान्मुखी कोटिं कर्णं कोट्यग्रमध्यगम् ।। १०.१० ।।

कोटिकर्णयुताद्बिन्दोर्बिम्बं तात्कालिकं लिखेत् ।
कर्णसूत्रेण दिक्षिद्धिं प्रथमं परिकल्पयेत् ।। १०.११ ।।

शुक्लं कर्णेन तद्बिम्बयोगादन्तर्मुखं नयेत् ।
शुक्लाग्रयाम्योत्तरयोर्मध्ये मत्स्यौ प्रसाधयेत् ।। १०.१२ ।।

तन्मद्ख्यसूत्रसंयोगाद्बिन्दुत्रिस्पृग्लिखेद्धनुः ।।
प्राग्बिम्बं यादृगेव स्यात्तादृक्तत्र दिने शशी ।। १०.१३ ।।

कोट्या दिक्साधनात्तिर्यक्षूत्रान्ते शृङ्गं उन्नतम् ।
दर्शयेदुन्नतां कोटिं कृत्वा चन्द्रस्य साकृतिः ।। १०.१४ ।।

कृष्णे षड्भयुतं सूर्यं विशोध्येन्दोस्तथासितम् ।
दद्याद्वामं भुजं तत्र पश्चिमं मण्डलं विधोः ।। १०.१५ ।।