सूर्यसिद्धान्तः/अध्यायः ९

विकिस्रोतः तः
← अध्यायः ८ सूर्यसिद्धान्तः
अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →

अथोदयस्तमययोः परिज्ञानं प्रकीर्त्यते ।
दिवाकरकराक्रान्तमूर्तिनां अप्लतेजसाम् ।। ९.०१ ।।

सूर्यादभ्यधिकाः पश्चादस्तं जीवकुजार्जजाः ।
ऊनाः प्रागुदयं यान्ति शुक्रज्ञौ वक्रिणौ तथा ।। ९.०२ ।।

ऊना विवस्वतः प्राच्यां अस्तं चन्द्रज्ञभार्गवाः ।
व्रजन्त्यभ्यधिकाः पस्चादुदयं शीघ्रयायिनः ।। ९.०३ ।।

सूर्यास्तकालिकौ पश्चात्प्राच्यां उदयकालिकौ ।
दिवा चार्कग्रहौ कुर्याद्दृक्कर्माथ ग्रहस्य तु ।। ९.०४ ।।

ततो लग्नान्तरप्राणाः कालांशाः षष्टिभाजिताः ।
प्रतीच्यां षड्भयुतयोस्तद्वल्लग्नान्तरासवः ।। ९.०५ ।।

एकादशामरेज्यस्य तिथिसङ्ख्यार्कजस्य च ।
अस्तांशा भूमिपुत्रस्य दश सप्ताधिकास्ततः ।। ९.०६ ।।

पश्चादस्तमयो +अष्टाभिरुदयः प्राङ्महत्तया ।
प्रागस्तं उदयः पश्चादल्पत्वाद्दशभिर्भृगोः ।। ९.०७ ।।

एवं बुधो द्वादशभिश्चतुर्दशभिरंशकैः ।
वक्री शीघ्रगतिश्चार्कात्करोत्यस्त्मयोदयौ ।। ९.०८ ।।

एभ्यो +अधिकैः कालभागैर्दृश्या न्यूनैरदर्शनाः ।
भवन्ति लोके खचरा भानुभाग्रस्तमूर्तयः ।। ९.०९ ।।

तत्कालांशान्तरकला भुक्त्यन्तरविभाजिताः ।
दिनादि तत्फलं लब्धं भुक्तियोगेन वक्रिणः ।। ९.१० ।।

तल्लग्नासुहते भुक्ती अष्टादशशतोद्धृते ।
स्यातां कालगती ताभ्यां दिनादि गतगम्ययोः ।। ९.११ ।।

स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः ।
अभिजिद्ब्रह्महृदयं त्रयोदशभिरंशकैः ।। ९.१२ ।।

हस्तश्रवणफाल्गुन्यः श्रविष्टा रोहिणीमघाः ।
चतुर्दशांशकैर्दृश्या विशाखाश्विनिदैवतम् ।। ९.१३ ।।

कृत्तिकामैत्रमूलानि सार्पं रौद्रर्क्षं एव च ।
दृश्यन्ते पञ्चदशभिराषाढाद्द्वितयं तथा ।। ९.१४ ।।

भरणीतिष्यसौम्यानि सौक्ष्म्यात्त्रिःसप्तकांशकैः ।
शेषाणि सप्तदशभिर्दृश्यादृश्यानि भानि तु ।। ९.१५ ।।

अष्टादशशताभ्यस्ता दृश्यांशाः स्वोदयासुभिः ।
विभज्य लब्धाः क्षेत्रांशास्तैर्दृश्यादृश्यताथवा ।। ९.१६ ।।

प्रागेषां उदयः पश्चादस्तो दृक्कर्म पूर्ववत् ।
गतैष्यदिवसप्राप्तिर्भानुभुक्त्या सदैव हि ।। ९.१७ ।।

अभिजिद्ब्रह्महृदयं स्वातीवैष्णववासवाः ।
अहिर्बुध्न्यं उदक्ष्थत्वान्न लुप्यन्ते +अर्करश्मिभिः ।। ९.१८ ।।