पृष्ठम्:Laghu paniniyam vol1.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्डः । ७९ तयो: 'अन्यतर'- शब्दो गणे विशिष्य पठितत्वात् सर्वनाम; अन्य- तमस्तु न । अत्र गणे अपूर्वशब्दाः पठिता वलयचिह्निताः । पूर्वादिः, त्यदादिः, डतरादिरित्यस्मिन् गणे त्रयोऽन्तर्गणाः । अपूर्वशब्दानुपेक्ष्य सर्वादय: सौकर्यार्थ, अन्तर्गणकार्याणि च प्रदर्य, कारिकाभिः परि- गण्यन्ते- सर्वविश्वोभयसमं डतरं डतमं पुनः । इतरान्ये अन्यतरत् (स्वमोरडडतरादिषु ) ॥ १ ॥ पूर्वापरावरस्वान्तराधरोत्तरदक्षिणम् । परं (पूर्वादिनवकं स्मात् - स्मिन् - शीषु विकल्पितम् ) ॥ २ ॥ तद्यदेतदिदं चादो द्व्येकम् (अत्वं तदादिषु ) । युष्मदस्मद्भवतु किमिति सर्वादयः स्मृताः ॥ ३ ॥ सर्वेषां नाम सर्वनामेत्यन्वर्था संज्ञा; अत एव सर्वपर्याय: सम- शब्दोऽत्र गृह्यत इत्युक्तम् । तथापि प्रक्रिया संपादनैकव्यसनी पाणिनि- र्येषां सर्वनामतुल्या प्रक्रिया दृश्यते तेषां सर्वनामत्वानहर्हाणामपि शब्दा- नां सर्वनामत्वमतिदिशति; अर्हाणां च प्रक्रियासिद्ध्यर्थं सर्वनामतां विकल्पते, निषेधति च । तथा हि — १७१ । विभाषा दिक्समासे बहुत्रीहौ । (१-१-२८) उत्तरसूत्रेण वक्ष्यमाणेन प्राप्ते निषेधे विभाषते । ‘दिङ्नामान्य- अन्तराले' इति सूत्रेण विहितः पूर्वस्या उत्तरस्याश्च दिशोऽन्तरालम् उत्तर- पूर्वा इत्यादिः समासो दिक्समास:; तस्य बहुव्रीहित्वेऽपि विकल्पेन सर्वनामता स्यात् । तेन च उत्तरपूर्वस्यै, उत्तरपूर्वायै इति रूपविकल्पः फलम् ॥ १७२ । न बहुव्रीहौ । (१-१-२९) बहुव्रीहिसमासत्रोत्तरपदभूतः सर्वादिरपि न सर्वनाम | प्रियो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/९८&oldid=347464" इत्यस्माद् प्रतिप्राप्तम्