पृष्ठम्:Laghu paniniyam vol1.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [सुबन्त एवमन्येषामपि शब्दानां रूपाण्यूह्यानि । किं तु सर्वेषां शब्दानां रूपनिष्पत्तिर्नैवं सुगमा । आदेशैरागमैश्च प्रत्ययाः प्रकृतयश्च तत्र तत्र विक्रियन्ते । विकारास्ते पञ्चपादीव्यापिनि 'अङ्गस्य' (६-४-१) इत्य- धिकारे विहिताः । किंत्वाचार्यस्तत्र सुप्प्रक्रियां तिप्रक्रियया मिश्रीकृत्य कथयति । तत: सुपप्रक्रियां पृथकुकृत्य दर्शयिष्यामः । आदौ तावत् सुब्विधावुपयुक्ताः संज्ञा लक्ष्यन्ते– ७८ (१) संज्ञा । १७० । सर्वादीनि सर्वनामानि । (१-१-२७) सर्वादीनि शब्दरूपाणि सर्वनामसंज्ञानि स्युः । सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, (त्वत्, नेम, सम, (=सर्वपर्यायः) सिम । त्व ), पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोः । [त्रीण्येतानि गणसूत्राणि ] त्यद्, तद्, यर्, एतद् इदम्, अदस्, एक, द्वि, युष्मद् अस्मद्, भवतु, किम् । । इति सर्वादिः । भवतुशब्दे उकार इत् । स्वाभिधेयापेक्षोऽवधिनियमो व्यवस्था । तत्रैव पूर्वादीनां सर्वनामता । तेन कुशल इत्यर्थे दक्षिण- शब्दो न सर्वनाम | असंज्ञायामित्युक्तेः उत्तराः कुरव इत्यादौ सत्यामपि व्यवस्थायां न सर्वनामता । स्वशब्दख (१) आत्मा, (२) आत्मीयं, (३) ज्ञाति:, (४) धनम् इति चतुर्ध्वर्थेषु प्रथमेऽर्थद्वय एव सर्वनाम- संज्ञा । डतरडतमौ प्रत्ययौ ; ततस्तदन्ता ग्राह्या: । अन्यथा हि संज्ञा निष्प्रयोजना स्यात् । एतौ च प्रत्ययौ किंयत्तदेकेभ्य एव भवतः — कतर, कतम, यतर, यतम, ततर, ततम, एकतर, एकतम इति । अन्यतर, अन्यतम इत्यपि शब्दौ बर्तेते; किं तु तो न डतरडतमान्तो;

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/९७&oldid=347463" इत्यस्माद् प्रतिप्राप्तम्